हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 479, कुल 742 में से
संदर्भ में पढ़ें४६४ पालकाप्यमुनिविरचितो— [३ शल्यस्थाने-
बन्धयित्वा तु तं रज्जुं यूपे कपो(ये)ऽवलम्बयेत् ॥
तयोः प्रदेशयोर्मन्यायुक्त्या स्तम्भौ निखानयेत् ॥ २६ ॥
अच्छिद्रौ सुदृढौ ह्रस्वौ बन्धनार्थं विचक्षणः ॥
वालं वासनमप्यस्य निक्षिपेदपरान्तरे ॥ २७ ॥
अनुवृत्तस्यं निर्दिष्टः प्रतिकर्मक्रियाविधिः ॥
वारणस्य यथान्यायमेश ते पृथिवीपते ॥ २८ ॥
—:०:—
भूयोऽङ्गराजः पप्रच्छ पालकाप्यं महामुनिम् ॥
तत्रापि बहवो दोषा दृश्यन्ते मुनिसत्तम ॥ २९ ॥
दृश्यते क्षयभागेषु अंश(स)योः कटयोरपि ॥
विक्षिप्त्यपि गात्राणि कर्म चापि न विन्दति ॥ ३० ॥
यथा वै पश्य च भवेन्निराबाधं च दन्तिनः ॥
भवेत्तु विधिवत्सत्वं तथा मे वक्तुमर्हसि ॥ ३१ ॥
तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥
शृणु यन्त्रविधानं मे वारणानां नराधिप ॥ ३२ ॥
प्रत्यासन्नोदके देशे समे सुखपरिक्रमे ॥
शिवे रम्येऽथ वृक्षे वा देवायतनवर्जिते ॥ ३३ ॥
अना••••••श्मशानस्य नगरस्यापि दूरतः ॥
कार्यः प्रागुत्तरे देशे यन्त्र सिद्धिरभीप्सिता ॥ ३४ ॥
आवासाः पक्षिणां ये च ये वा स्युर्गर्हितद्रुमाः ॥
ये चापि दग्धास्तु भृशमशन्यभिहतास्तु ये ॥ ३५ ॥
अर्धशुष्कास्तु ये वृक्षास्तथैव देवताश्रिताः ॥
देवायतने चैव उद्याने चाऽऽश्रमेषु च ॥ ३६ ॥
चैत्यश्मशानजा ये च न योज्या यन्त्रकर्मणि ॥
इत्यप्रशस्ता व्याख्याताः प्रशस्ताञ्शृणु मे नृप ॥ ३७ ॥
अञ्जनः खदिरः सालः कदरो वा समाहितः ॥
मधूकः सोमवल्को वा शा(Sशो)को वा सर्ज एव च ॥ ३८ ॥
अष्टानां वृक्षजातीनां ये द्रुमा ह्युपपत्तितः ॥
अवल्मीके शुभे देशे सारवन्तः समाहिताः ॥ ३९ ॥
ज्ञाता न चाग्निना स्पृष्टा वल्लीभिः पिण्डिताश्च ये ॥
अकोटरास्तु जाताश्च योग्यास्ते यन्त्रकर्मणि ॥ ४० ॥