हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
३१८ पालकाप्यमुनिविरचितो— [१ शल्यस्थाने-
अन्नप्रमाणं किं चास्य किमात्रश्चान्दुको गजे ॥
किमात्रं क्लोम हृदये किमात्रं फुप्फुसं मुने ॥ ५ ॥
अन्नं किमात्मकं विद्यात्क स्थितश्चोदको गजे ॥
क स्थितं क्लोम हृदयं प्लीहा वृक्कौ यकृत्तथा ॥ ६ ॥
क नु बस्तिप्रबद्धश्च परिमाणं च किं भवेत् ॥
भुङ्क्ते गर्भोदरस्थो वा न वा भुङ्क्तेऽथ भोजनम् ॥ ७ ॥
संधयः कति चास्थीनि केन मोद्यति हेतुना ॥
केन पश्यति रूपाणि परिक्रामति तिष्ठति ॥ ८ ॥
केन स्तनति वै नागो लिण्डं सृजति मेहति ॥
उत्तिष्ठति निषीदेच्च निषण्णश्चानुवर्तते ॥ ९ ॥
विपद्यते तथा केन मैथुनं केन गच्छति ॥
के बालाः कानि रोमाणि केशाः पक्ष्म च किं भवेत् ॥ १० ॥
कियन्मात्राणि श्रो(स्रो)तांसि च्छष्ठपः कति च दन्तिनाम् ॥
केन जीर्येत भुक्तं च जीर्णे केन निरूहति ॥ ११ ॥
केन निद्रामुपादत्ते केन निद्रा न जायते ॥
ग्रहणी केन दीप्ता स्यादविपाकः कथं भवेत् ॥ १२ ॥
वातपित्तवहाः काश्च शुक्रवाहाश्च काः स्मृताः ॥
मेदोवहा रसवहाः शिरा रक्तवहाश्च काः ॥ १३ ॥
मांसास्थिमेदोमज्जानां वाहिन्यश्च शिराः कति ॥
प्रसारणाकुञ्चनाद्याश्चेष्टाः काभिश्च चेष्टते ॥ १४ ॥
केन वा स्याद्विपन्नेन बस्तौ मूत्रं प्रवर्तते ॥
अजस्रं मत्तनागानां मदो वाऽपि किमात्मकः ॥ १५ ॥
गजानां रोमकूपेभ्यः कस्मात्स्वेदो न वर्तते ॥
मुखतः केवलं स्वेदः क्षान्तानां संप्रवर्तते ॥ १६ ॥
एवं मे पृच्छतो ब्रूहि सर्वमेव महामुने ॥
वारणानां च नामानि यस्तावद्वक्तुमर्हसि ॥ १७ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
सौम्याऽऽग्नेयमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ १८ ॥
१ क. किमात्रकं । २ ख. °श्चोन्दुको । ३ क.वृक्कौ । ४ क.बस्तिः प्रवृद्ध° ।
५ क. हेच्छति । ६ क. च यानि स्युस्ता° ।
९ शरीरविचयाध्यायः ] हस्त्यायुर्वेदः । ४१९
सोमजं शीतमार्द्रं च शुष्कमुष्णं च तैजसम् ॥
अपाणां स्थावराणां च संभवश्च चतुर्विधः ॥ १९ ॥
पुरुषो गौरजोऽश्वोऽव्यो गर्दभोऽश्वतरोऽपि च ॥
सप्तैते जङ्गमा ग्राम्या वन्यान्सप्त निबोध मे ॥ २० ॥
कपिर्गजो वराहश्च शार्दूलो महिषो मृगः ॥
खड्गश्चेति समाख्याताः सप्त वन्याश्च जङ्गमाः ॥ २१ ॥
वृक्षो वनस्पतिर्गुल्मो लतौषधितृणानि च ॥
प्रतानो वीरुधो गुच्छः स्थावरा नव कीर्तिताः ॥ २२ ॥
स्थावराणां च निर्देशो रसवीर्यविपाककः ॥
कीर्तितो यवसाध्याये विस्तरेण महीपते ॥ २३ ॥
समागतो हस्तिनीं तु नागो मैथुनमाचरेत् ॥
योन्यां करेण्वाः संघर्षात्सोम्यं शुक्रं विमुञ्चति ॥ २४ ॥
निषिच्यमाने शुक्रे तु महात्मा प्रतिपद्यते ॥
जीवः सूक्ष्मपरो धातुरचिन्त्यः प्रभुरीश्वरः ॥ २५ ॥
संसृष्टं रजसा शुक्रं तिष्ठद्योन्यां विवर्धते ॥
सप्तरात्रोषितं तत्र कललं जायते ततः ॥ २६ ॥
दशाहादर्बुदं तत्र जायते राजसत्तम ॥
मासाच्च पेशी भवति हृदयं तदनन्तरम् ॥ २७ ॥
कैंचित्संभवमिच्छन्ति पूर्वं संजायते शिरः ॥
पूर्वं हृदयमित्येके युगपच्चपरेऽब्रुवन् ॥ २८ ॥
हृदयं मनसः स्थानं मनश्चाऽऽहुः प्रजापतिः ॥
तस्माद्गर्भेण जातस्य हृदयं जायतेऽग्रतः ॥ २९ ॥
ततः संजायते क्लोम यकृद्वृक्कौ त्रयं तथा ॥
ततः शिराः संभवन्ति तिर्यगूर्ध्वमधस्तथा ॥ ३० ॥
ततः शिराभिः सहितं स्थूलान्त्रमुपजायते ॥
पृष्ठवंशोऽथ जघनं वक्षो गात्रापरोदरम् ॥ ३१ ॥
क्रमेण सर्वाण्यङ्गानि केशरोमनखानि च ॥
भवन्त्यत्र शिराभागे मातुर्गर्भोदरे वसन् ॥ ३२ ॥
ततः स दशमे मासे द्वादशे वाऽपि जायते ॥
एवं हि जायते हस्ती जातश्चापि पिबेत्पयः ॥ ३३ ॥
१ क. ॰रोऽधिकः ॥ स० । २ क. ॰द्वृद्धौ त्र॰ ।
द्विमासजातश्चपलो लिण्डवापि(?)प्रतकुञ्जः ॥
तृतीये च चतुर्थे च पानीयं मासि सेवते ॥ ३४ ॥
ऊर्ध्वं चतुर्णां मासानां तृणं मृदु च पल्लवम् ॥
शल्लकीमरिमेदं च कर्णिकारं च खादति ॥ ३५ ॥
भुञ्जानस्य प्रवर्धन्ते दोषाः प्रायेण दन्तिनः ॥
वातपित्तकफाश्चैव तेषां कर्म पृथक् पृथक् ॥ ३६ ॥
रक्तमांसास्थिमज्जानो वर्धन्ते धातवो रसैः ॥
मेदः शुक्रं बलं तेजो जवो वर्ष्म च पार्थिव ॥ ३७ ॥
रसेन पित्तं चाम्लेन मधुरेण कफः सदा ॥
कषायकटुकाभ्यां तु वर्धते दन्तिनोऽनिलः ॥ ३८ ॥
कण्ठे श्लेष्मा विहरति भुञ्जतो विविधान्रसान् ॥
पित्तेन पच्यते भुक्तं कफात्रिद्राऽस्य जायते ॥ ३९ ॥
वातात्प्राणस्य चेष्टा च जीर्णस्य च निरूहन(ण)म् ॥
समधातुस्त्वरोगः स्याद्विषमैर्व्याधितो भवेत् ॥ ४० ॥
जरायुरक्तं मांसं तु मातृजान्विद्धि हस्तिनः ॥
शुक्रं मज्जास्थिमेदांसि शिरारोमनखाः पितुः ॥ ४१ ॥
यथाविभक्तान्यस्थीनि संघयो ये च कीर्तिताः ॥
दन्ता नागस्य यावन्तो मर्माणि च निबोध मे ॥ ४२ ॥
शिरस्यस्थिद्वयं राजन्कपाले च तथाऽपरे ॥
अष्टावस्थीनि ग्रीवायां नव चैवात्र संघयः ॥ ४३ ॥
एकमेवास्थि सगदे द्वौ संधी सव्यदक्षिणौ ॥
द्वे च सृक्कास्थिनी ज्ञेये चत्वारश्चात्र संघयः ॥ ४४ ॥
अधस्तादुपरिष्टाच्च दन्ताः षोडश सागदाः ॥
प्रहारिणौ च द्वौ दन्तौ करिणोऽष्टादश स्मृताः ॥ ४५ ॥
अष्टादशानां दन्तानां संघयोऽष्टादशैव च ॥
अधस्ताच्छोपरिष्टाच्च विद्यान्नागस्य पार्थिव ॥ ४६ ॥
गलनाड्यां चतुःषष्टिस्तरुणास्थीनि दन्तिनः ॥
वलयाकृतिकल्पानि सप्तषष्टिश्च संघयः ॥ ४७ ॥
पादटिप्पणी (Footnotes):
१ क. पिण्डद्वापि । २ क. कफस्तदा । ३ ख. शिरो रो०। ४ ख. संघयोः ।
५ क. गलानां च । ६ क. ०नः ॥ प्रल० ।
९ शरीरविषयोऽध्यायः ] हस्त्यायुर्वेदः । ४४१
प्रेतरास्थि तलमोहे विधादेकं विचक्षणः ॥
तलकर्षे च विज्ञेयं प्रेतरास्थ्येकमेव तु ॥ ४८ ॥
अष्टावेव हि पादेषु प्रेतरास्थीनि निर्दिशेत् ॥
चतुर्थे च महीपाल संधयश्चात्र षोडश ॥ ४९ ॥
पलिपादेषु कर्णेषु मोहयोः मोहसंधिषु ॥
एतेष्वङ्गप्रदेशेषु गुलिकास्थीनि विंशतिः ॥ ५० ॥
अशीतिरेव पादेषु चतुर्ष्वपि च पार्थिव ॥
विंशतिश्च नखानि स्युः संधीनां द्व्यधिकं शतम् ॥ ५१ ॥
विशेषास्थ्येकवाह्वस्थि वंशास्थीनि च गात्रयोः ॥
पूर्वयोस्तु षडस्थीनि ह्येवं षट्चैव संधयः ॥ ५२ ॥
अस्थीनि संधयश्च स्युः षडेवापरयोरपि ॥
कपालास्थ्येकमेवाऽऽहुः सर्वतो जघनाश्रितम् ॥ ५३ ॥
चतुर्दशाऽऽहुरस्थीनि नागस्योरसि संख्यया ।
संधयस्त्वपि चास्त्राणां तु दश पञ्च च निश्चिताः ॥ ५४ ॥
अस्थीनि विंशतिः पृष्ठो(ष्ठे) संधयश्चैकविंशतिः ॥
पक्षयोरुभयोर्विद्याच्चत्वारिंशच्च पार्श्वकाः ॥ ५५ ॥
द्विचत्वारिंशदेवाऽऽसां पार्श्वकानां तु संधयः ॥
ऊर्ध्वास्थीन्येकविंशत्स्युः संधयश्चैकविंशतिः ॥ ५६ ॥
लाङ्गूलवंशालाङ्गूले गुलिकास्थीनि विंशतिः ॥
त्रिंशत्तु संधयश्चात्र संख्यया विद्धि पार्थिव ॥ ५७ ॥
त्रीण्यस्त्रां तु शतान्येवं विंशतिश्चैव संख्यया ॥
शतानि त्रीणि संधीनां षट्षष्टिं चापि निर्दिशेत् ॥ ५८ ॥
—:०:—
हस्ते च तालुनि द्वे द्वे मुखे नेत्रे कटिद्वये ॥
द्वे कर्णयोश्च प्रत्येकमेवमेकादशैव तु ॥ ५९ ॥
स्तनयोश्चैव मेण्ढे च नागस्य तु गुदे तथा ॥
विद्यात्पञ्चदशैतानि श्रो(स्रो)तांसि वदतां वर ॥ ६० ॥
—:०:—
१ क. प्रान्तरास्थि । २ क. ॰यं प्रान्तरा॰ । ३ क. प्रान्तरास्थीनि । ४ क.
॰तो यजना॰ । ५ क. ॰शदासां तु पा॰ । ६ क. तालुके ।
५६
१४२ पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने-
नेत्रयोश्चापि पक्ष्माणि केशाञ्शिरसि निर्दिशेत् ॥
देहे रोमाण्यसंख्यानि बालाः पुच्छे च दन्तिनाम् ॥ ६१ ॥
—:(:)—
सिराः शतानि सप्तैव सर्वपिण्डेन दन्तिनाम् ॥
पञ्च स्नायुँसहस्राणि पञ्च स्नायुशतानि च ॥ ६२ ॥
एतेषां विस्तरो राजन्सिराव्यूहे प्रवक्ष्यते ॥
मर्माण्यापि प्रवक्ष्यामि भेदतो मर्मसंग्रहे ॥ ६३ ॥
गुदोऽण्डकोशो हृदयं मेण्ढ्रं नाभ्युदरं करः ॥
मत्यङ्गं सौप्रतीकाशौ प्रतिमानं गुदे स्तनौ ॥ ६४ ॥
प्रोहसंधानभागौ च ग्रन्थिः सैकूटिकेतलाः ॥
पलिहस्तौ च विष्के च रंन्ध्रौ द्वे चापरान्तरे ॥ ६५ ॥
कुँक्षिः कटी च प्रस्तावश्रो(स्रो)तांसि दश पञ्च च ॥
कक्षाभागौ सनिष्कौ मन्ये च मनुजाधिप ॥ ६६ ॥
अन्तर्बाहू पणवको बिम्बकः कुम्भ एव च ॥
अपस्कारौ तथाऽष्ठील्यौ मृदुकुक्षिस्तथैव च ॥ ६७ ॥
गलपृष्ठं यैवस्थाने ग्रीवामन्ये च तालुकम् ॥
वाहित्थं शम्बुकौ जिह्वा वलाङ्गे वक्षणौ तथा ॥ ६८ ॥
विक्षोभौ चूचुको मुष्कौ कूमांसतलसंधयः ॥
अस्थिक्षपौ कुलाभागाबुरःसंधिरुरस्तथा ॥ ६९ ॥
उभावंसौ च विज्ञेयाविति सप्तोत्तरं शतम् ॥
मर्मणामिति व्याख्यातं वारणानां नराधिप ॥ ७० ॥
—:(:)—
अतश्च कथ्यमानानि दोषस्थानानि मे शृणु ॥
पर्वाण्यामाशयश्चैव उरः कण्ठं शिरस्तथा ॥ ७१ ॥
स्थानान्येतानि सर्वाणि श्लेष्मणो विद्धि दन्तिनाम् ॥
ऊर्ध्वं नाभेरधः पित्तं हृदयं समुपाश्रितम् ॥ ७२ ॥
पक्वामाशयगो वायुर्जघने सँगदे तथा ॥
स सर्वदेहव्यापी तु सर्वतः कर्म चेष्टते ॥ ७३ ॥
१ क. ण्डेषु द० । २ क. सकलकुन्तलाः । ३ क. रन्ध्रे द्वौ चा० । ४ क.
कुक्षी । ५ ख. यतस्थाने । ६ क. ॰क्षोभोमौ च सुष्कौ च कू० । ७ ख. सगुदे ।
९ शारीरविच्चयाध्यायः ] हस्त्यायुर्वेदः । ४४३
रक्तस्थाने स्थितो वायुर्व्यानो नोम्ना तु वीर्यवान् ॥
मेदःस्थाने स्थितः प्राणो वसास्थान उदीरणः ॥ ७४ ॥
समानो मांसमध्यस्थो ह्यपानश्चास्थिसंस्थितः ॥
व्यानोदानौ समानश्च प्राणापानौ च पञ्चधा ॥ ७५ ॥
भूयो वायुः शरीराणि बिभर्ति भगवान्प्रभुः ॥
व्यानाद्भवति चेष्टा च निमीलोन्मीलने नृप ॥ ७६ ॥
उदानेन बलोन्मादौ समानाद्भागमादिशेत् ॥
वागुच्छ्वासानुपानानां प्रवृत्तिः प्राणजा स्मृता ॥ ७७ ॥
वातमूत्रपुरीषाणि ह्यपाने विद्धि पार्थिव ॥
हस्तस्थं तिष्ठति सदा चक्षुर्मध्ये च दन्तिनाम् ॥ ७८ ॥
सौरं तेजश्च नेत्रे तु प्रविभक्तं शरीरिणाम् ॥
तथा प्राप्नोऽथ हर्षादींस्तेन रूपं च पश्यति ॥ ७९ ॥
श्लेष्मस्थाने स्थितं सत्त्वं रजो बाह्यनुसंस्थितम् ॥
तैमः पित्तानुगं चैव तिष्ठत्येव मतङ्गजः ॥ ८० ॥
प्रहर्षानन्दभावाभ्यां सौम्यं शुक्रं प्रमुञ्चति ॥
क्रमेण रसवीर्याणां सौम्यं शुक्रं प्रवर्तते ॥ ८१ ॥
अहश्चपमार्तवं विद्धि हस्तिन्या हर्षसंभवम् ॥
गृह्णीते साऽद्रुतं गर्भं गर्भिणी द्वेष्टि चोद्धतम् ॥ ८२ ॥
सप्त पेशीशतान्याहुः सर्वेष्वङ्गेषु हस्तिनाम् ॥
अस्थ्याश्रिताश्च ताः सर्वाः स्नायुबद्धास्त्वचा वृताः ॥ ८३ ॥
अल्पं वा बहु वा ह्रस्वं दीर्घं वाऽप्यथवा पृथक् ॥
एकसंस्थं हितं मांसं यत्स्यात्पेशीति तद्विदुः ॥ ८४ ॥
तृष्णा मर्मसु सर्वेषु निद्रा कफमुपाश्रिता ॥
व्यवसायश्च नागानां स्कन्धदेशमुपाश्रितः ॥ ८५ ॥
वपुः श्रीः कीर्तिराशा च त्वचमाश्रित्य तिष्ठति ॥
अस्थीनि पर्वतो मेरुस्तेजो देहे व्यवस्थितम् ॥ ८६ ॥
बुद्धिर्मेधा च नागानां स्नायुबन्धेष्ववस्थिता ॥
वसामार्श्रित्य बलवान्दर्पस्तिष्ठति नित्यशः ॥ ८७ ॥
१ ख. नामा तु । २ क. ख. उदीरिणः । ३ क. ततः । ४ क. साऽङ्कतम् ।
२११ | पालकाप्यमुनिविरचितो— | [ १ शल्यस्थाने-
मदश्चैव महातेजाः शुक्रस्थानं समाश्रितः ॥
शिरासंधीन्समाश्रित्य लोभस्तिष्ठति वै सदा ॥ ८८ ॥
अग्रेषु कर्म नागानामालस्यं यकृति स्थितम् ॥
कालेयं मक्षो(?) क्रमते विषादो नृपसत्तम ॥ ८९ ॥
गजस्य पुप्फुसे चैव भयं तिष्ठति नित्यशः ॥
वक्षक्षेत्रच्छु(?) हृदयं सव्यं स्तनमुपाश्रितम् ॥ ९० ॥
यकृद्धृदयपार्श्वं च क्लोम वक्षःस्थितं विदुः ॥
यकृत्प्लीहे च संबद्धे (*स्थूलात्रं हृदयादधः ॥ ) ९१ ॥
आमाशयं विभजते तिष्ठेत्पक्काशयं च तत् ॥
आमाशयस्य मध्यस्था व्याधयः सर्व एव तु ॥ ९२ ॥
व्याधयो ये च संरुपातास्तेषां पक्काशयो गतिः ॥
ईषत्तु शुशिरा वृत्ता दीर्घा बलवती सिरा ॥ ९३ ॥
स्नायुर्वल्कावनद्धा च घना पृथ्वी च कण्डुरा ॥
वातपित्तकफानां च तथैव रसशुक्रयोः ॥ ९४ ॥
मेदोऽसृङ्मज्जमांसानां तथा मूत्रपुरीषयोः ॥
ह्रासवृद्धी यतो ह्येषां प्रमाणेनोच्येते त्वतः ॥ ९५ ॥
मूत्रं बस्तिश्च मुष्कौ च वङ्क्षणोद्देशमाश्रितौ ॥
मांसमस्थ्याश्रितं विद्यादसृङ्मांसमुपाश्रितम् ॥ ९६ ॥
मज्जाभ्यन्तरतोऽस्थां तु शुक्रं मज्जाश्रितं विदुः ॥
मेदो मांसाश्रयं प्राहुः शिरा मांससमाश्रिताः ॥ ९७ ॥
रोमाणि त्वचि जातानि मांसस्यापि त्वगावृत्तिः ॥
छव्यः षडेता व्याख्याता द्विपानां द्विपदां वर ॥ ९८ ॥
छवीनां विस्तरश्चापि मर्माध्याये प्रवक्ष्यते ॥
शिरास्नाय्वात्मकं विद्यान्नखानां संभवं नृप ॥ ९९ ॥
तलानां किणभावं च निसर्गादीश्वरं विदुः ॥
—:०:—
इमा महाप्रकृतयस्तिस्रः कीर्त्तयतः शृणु ॥ १०० ॥
*कपुस्तके त्रुटितम् ।
१ क. °संधि समा° । २ क. पुप्फसे । ३ क. सबद्धः । ४ क. °यस्थम° ।
५ क. °च्यतत्व° । ६ क. प्रचक्षते ।
'? No, look at the top: it looks like 'त' with 'ू'? "त्तू"?
Wait, look at 'कौ' after it: 'क्कौ' (double k with au).
So it is definitely related to "सृक्कौ" (the corners of the mouth, which elephants move while eating!).
Wait, how is it printed?
Look at the glyphs:
द (da) श (śa) भि (bhi) श्चा (ścā) ल (la) ये (ye) or य (ya)?
It's 'ये' or 'य'? It's 'य' (ya).
Then: 'त्' (t).
Then: a letter with 'ू': is it 'स' with 'ू'? Look at the left: it has a loop like 'स' or 'र'? It has a round belly on the left, but wait, look at 'स' in 'दशभि': no loop at top.
Wait, look at 'तू' in 'कौतूहल': 'तू' has a rounded curve and a 'ू' stroke below.
Here, the letter after 'त्' has a round curve, and a 'ू' stroke below: "त्तू"? Or "त्सृ"?
Wait, if it's "त्तूक्कौ", that's a misprint for "त्सृक्कौ"!
Wait, could it be "त्सृक्कौ"? In Devanagari, 'सृ' has a 'ृ' (c
४१६ पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने-
ग्रीवायां पार्श्वयोर्दृष्टास्तिस्रस्तिस्रः पुनः शिराः ॥
शिरसश्चालने दृष्टा दश स्कन्धगताः शिराः ॥ ११५ ॥
आददाति शिराभिश्च पानीयं दशभिर्द्विपः ॥
*दशभिर्निर्वमेच्चैव शिराभिः सलिलं गजः ॥ १६ ॥
दशभिर्निमिषेन्नाग उन्मिषेद्दशभिः पुनः ॥
दशभिर्गन्धमाप्नोति गृणोति दशभिस्तथा ॥ १७ ॥
षट्त्रिंशत्तु शिरा दृष्टा दृष्टिसंचारणेऽपि च ॥
कटयोर्दश विज्ञेया शिरा मदवहा नृप ॥ १८ ॥
दशभिर्दशभिश्चैव कर्णौ चालयति द्विपः ॥
निःश्वासं कुरुते याभिस्ताः शिरास्त्रिंशदेव तु ॥ १९ ॥
दशभिर्बृंहति गजो व्याहरेद्दशभिः पुनः ॥
पुच्छं चालयति श्रीमान्सिराभिर्दशभिर्गजः ॥ १२० ॥
निर्हरेद्दशभिर्मेण्ढ्रे दशभिश्चैव सं(मे)हति ॥
मैथुनं याति दशभि(भी)रेतो दशभिरावपेत् ॥ २१ ॥
अभितस्तस्तु मातङ्गो वमथुं याभिरुत्सृजेत् ॥
षट्त्रिंशत्तु शतं विंशात्तिस्राः स्वेदवहास्तु ताः ॥ २२ ॥
शिरा गुदनिबद्धास्तु हृदयं चापि संश्रिताः ॥
धारणे तु पुरीषस्य तथैवोत्सर्जने पुनः ॥ २३ ॥
तासां दशशतं दृष्टं मूत्रस्योत्सर्जने दश ॥
ततो वातवहा दृष्टा ग्रहणीदीपनाः शिराः ॥ २४ ॥
पक्वाशयनिबद्धास्तु ज्ञेयास्तोस्तु चतुर्दश ॥
शिरा दश समाख्याता यास्तु पित्तवहाः स्मृताः ॥ १२५ ॥
दशैव तु शिरा दृष्टाः श्लेष्माणं या वहन्ति वै ॥
शिरा यास्तु शरीरेऽस्मिन्सर्वसंधिसमाश्रिताः ॥ २६ ॥
नदीं तरति सर्वाभिस्ताभिश्चैव तु लङ्घयेत् ॥
ताश्च गात्रैश्चतुर्भिश्च पृथक्त्वे विंशतिः स्मृताः ॥ २७ ॥
सिरा रसवहा दृष्टा जिह्वायां हृदयाश्रिताः ॥
दशैव ताः सुसूक्ष्मास्तु याभिर्वेदयते रसान् ॥ २८ ॥
- अयमर्धश्लोकः ‘शिरसश्चालने’— इत्यतः प्राक्पुस्तके ॥
१ क. ॰स्तासु च॰ ।
९ शरीरविचयाध्यायः ] हस्त्यायुर्वेदः । ४४७
अपानेन यदा वायुं वारणः प्रेविमुञ्चति ॥
पक्वाशयनिबद्धास्तु ज्ञेयास्तांस्तु चतुर्दश ॥ २९ ॥
एकादश शतान्येवं सप्ततिश्च पुनः सिराः ॥
(※वारणस्य प्रदेशेऽस्मिन्व्याख्यातास्ताः प्रदेशगाः ॥ १३० ॥
शतानि त्रीणि शेषाणि त्रिंशदन्याः पुनः शिराः ॥ )
एता रक्तवहा दृष्टाः शरीरं सर्वमेव हि ॥ ३१ ॥
सिराभिः संवृतं याभिर्वल्लीभिरिव पादपः ॥
अत्र प्रतिविशेषं तु हस्तिन्यामुपलक्षयेत् ॥ ३२ ॥
एकैकस्मिन्स्तने दृष्टाः सिराः क्षीरवहा दश ॥
हृदयंगमाः सुसूक्ष्माश्चेति प्रोक्तः सिराविधिः ॥ ३३ ॥
शतानि पञ्च (※नागस्य सहस्रं च) विशेषतः ॥
रेतोत्सर्गकरा यास्तु वारणानां सिरा दश ॥ ३४ ॥
मैथुनार्थं च या दृष्टास्ता एव विंशतिः स्मृताः ॥
नव संधिशतान्येवं वारेणेष्ववधारयेत् ॥ १३५ ॥
—:०:—
अतः परं प्रवक्ष्यन्ते संधयो वारणस्य तु ॥
द्वाविंशतिः संधयस्तु पादे पादे विनिश्चिताः ॥ ३६ ॥
प्रोहसंधानभागे च पलिहस्ते च दन्तिनः ॥
एतेष्वङ्गप्रदेशेषु संधयश्च चतुर्दश ॥ ३७ ॥
एवं भागे त्वपस्कारे पादे विक्षोभयोरपि ॥
प्रतिमाने च विज्ञेयाः संधयस्तु चतुर्दश ॥ ३८ ॥
गुच्छे सगुटिकायां च स्युस्तथाऽन्तरसक्थनि ॥
संधयोऽत्र महाराज विज्ञेयास्तु चतुर्दश ॥ ३९ ॥
मण्डूक्यन्तरसंधौ तु अष्ठीव्ये तु विशेषतः ॥
संधयस्तत्र विज्ञेया वारणस्य तु विंशतिः ॥ १४० ॥
आयासकाण्डे रन्ध्रे च स्तनानुसार एव च ॥
मेण्द्रे चैवाण्डकोशे च नवतिः संधयः स्मृताः ॥ ४१ ॥
अंसे च प्रत्यगंशे च तथांऽसफलकेऽपि च ॥
संधयस्तत्र विज्ञेया वारणस्य तु विंशतिः ॥ ४२ ॥
- 'धनुश्चिह्नद्वयान्तःस्थो नास्ति पाठः कपुस्तके ।
१ क. प्रतिमुञ्चति । २ क. °स्तासु च° । ३ क. °नुरस ए° ।
१९० पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने-
आयासकाण्डे रम्भे च स्तनानुंसार एव च ॥
मेण्ढ्रे चैवाण्डकोशे च नवतिः संधयः स्मृताः ॥ ४३ ॥
अंसे च प्रत्यगंशे च तथाऽंसफलकेऽपि च ॥
संधयस्तत्र विज्ञेया वारणस्य तु विंशतिः ॥ ४४ ॥
ग्रीवाविन्दुषितेनेषु पिण्डिकावग्रहे तथा ॥
आसने शयने स्थाने विघातसंधिशतानि षट् ॥ १४५ ॥
पुरस्कारावग्रहे च निर्याणे श्रवणे तथा ॥
ईषिकान्तरयोश्चैव वातकुम्भे च दन्तिनः ॥ ४६ ॥
द्वे च संधिशते प्राहुः संधींश्चापि चतुर्दश ॥
ख(क)टे च खलु नेत्रान्ते एकैके संधयः स्मृताः ॥ ४७ ॥
विषाणयोर्द्वयोश्चापि हस्ते द्वात्रिंशदीरिताः ॥
उरसि द्वादश ज्ञेया मुखे त्रिंशति(?)रेव च ॥ ४८ ॥
[L1
६ शरीरविजयाध्यायः ] हस्त्यायुर्वेदः । १४९
उलूखलरूपः संधिरतु कण्ठभागे च दन्तिनः ॥
विताने श्रवणे चैव बिम्बोः कुम्भान्तरे तथा ॥ ५७ ॥
निर्याणे केंटिसंधौ च शिरोमस्तकपिण्डयोः ॥
इषीकाग्रे च कुम्भे च वारणस्य महीपते ॥ ५८ ॥
तूणसीवनवत्संधिर्विज्ञेयस्तु कपालतः ॥
हनुगण्डकपालेषु सगदेष्वेव दन्तिनः ॥ ५९ ॥
संधिर्वायसतुण्डः स्यादाङ्गेष्वेतेषु दन्तिनः ॥
नेत्रे वर्त्मन्यपाङ्गे च करीषाश्रा(स्रा)व एव च ॥ १६० ॥
हृदये चाक्षिकूटे च कण्ठे क्रोम्नि गुदे तथा ॥
ज्ञेयो मण्डलसंधिस्तु भागेष्वेतेषु दन्तिनः ॥ ६१ ॥
शम्बुके प्रतिमाने च वाहित्रे दन्तवेष्टयोः ॥
शङ्खावर्ते भवेत्संधिः शृङ्गाटः श्रो(स्रो)तसि स्थितः ॥ ६२ ॥
इत्येव संघयः प्रोक्ताः स्नायून्यपि निबोध मे ॥
अष्टौ वक्षःप्रदेशे च चतस्रो वालपुष्करे ॥ ६३ ॥
एकैकस्मिंस्तु पादे वै स्नायूनां विंशतिः स्मृता ॥
मुष्के मेण्ढ्रोदरगुदे त्वष्टौ विंशतिरेव च ॥ ६४ ॥
महास्नायूनि वै पञ्च दश चापि द्विपस्य वै ॥
ऊर्ध्वभागानि सप्तैव षडधोभागकानि च ॥ १६५ ॥
द्वे तिर्यग्भागिके पृष्ठे एवं पञ्चदशैव हि ॥
एभिर्वै सर्वतो देहः प्राणौलीभिरिवाऽऽवृतः ॥ ६६ ॥
कफपित्तानिलैर्दुष्टैर्यदा कायोऽभिपूयंते ॥
तदा व्याधिमवाप्नोति वारणो नात्र संशयः ॥ ६७ ॥
सप्तोत्तरं मर्मशतं वारणस्यावधारयेत् ॥
प्रदेशसंग्रहे तानि कीर्तितानि यथागमम् ॥ ६८ ॥
चतुर्विधानि ज्ञेयानि यथावदभिनिश्चयः ॥
येषु दृष्टाश्च विद्धाश्च ताडिता वा मतङ्गजाः ॥ ६९ ॥
विनाशं प्राप्नुवन्तीह क्षिप्रं वा यदि वा चिरात् ॥
कालान्तरविनाशीनि सद्यःप्राणहराणि च ॥ १७० ॥
१ क. ॰न्तरेषु च ॥ नि॰। २ क. कटसं॰। ३ क. देहे । ४ क. ॰णालाभि॰।
५ क. दृष्टाश्च । ६ क. ॰द्धा वा ता॰ ।
५७
| [१८०] | पालकाप्यमुनिविरचितो— | [१ शल्यस्थाने- |
|---|
वैगुण्यकरणानि स्युः सशल्यानि तथैव च ॥
अस्थिस्नायुसिरासंधिधमनीप्रविभागशः ॥ ७१ ॥
विनाशः संनिपाताद्यस्तन्मर्म परिकीर्तितम् ॥
वायव्याग्नेयसौम्यत्वात्प्रविभागश्चतुर्विधः ॥ ७२ ॥
मर्मणां तुल्ययोनित्वं भूतानां चापि लक्षयेत् ॥
आशुकारी भवेदग्निरस्य यैन्नाभिसंप्लवः ॥ ७३ ॥
विशेषात्तत्र विद्धस्तु क्षिप्रमेव विनश्यति ॥
सौम्याग्नेयगुणत्वात्तु कालान्तरहरं स्मृतम् ॥ ७४ ॥
सशह्यमाणघातित्वं स्मृतं वाय्वात्मकं बुधैः ॥
निरुद्धगतिमार्गत्वाद्व्रायोर्जीवति कुञ्जरः ॥ १७५ ॥
भिन्ने चैवोद्धृते शल्ये विगते मर्मसंश्रये ॥
अनिले म्रियते नागः स शल्यो ध्रियते तथा ॥ ७६ ॥
सौम्याग्नेयं तु कालेन क्षीणं सौम्यगुणैर्यदा ॥
एकीभावंगतः शल्यं नश्येत्कालान्तराद्गजः ॥ ७७ ॥
तस्मात्सौम्याग्निवायूनां वैशिष्ट्यं यत्र लक्ष्पते ॥
तद्भूतगुणयोनित्वान्मर्म तत्तादृशं स्मृतम् ॥ ७८ ॥
कुम्भकर्मतले पेश्यः प्रोहे चैतस्य पञ्च तु ॥
बाह्यन्तरमपस्कारमंशांशाफलकान्तरम् ॥ ७९ ॥
छादयन्त्यपरां पेश्यस्तिस्रः षट्चैकसंरूपया ॥
शतानि त्रीणि पेशीनां चतुःषष्ट्यधिकानि च ॥ १८० ॥
गात्रापरेषु नागस्य यथावदुपधारयेत् ॥
एकपृष्ठे भवेत्पेशी सीवनीमाश्रिताः पराः ॥ ८१ ॥
अण्डकोशीश्रितास्तिस्रस्त्रिषष्टिर्जङ्घमाश्रिताः ॥
पञ्चाशत्पार्श्वयोः पेश्यः स्युर्विंशत्युरसि स्मृताः ॥ ८२ ॥
एका नाभिसमापन्ना पञ्च लाङ्गूलमाश्रिताः ॥
हन्वोरष्टौ विजानीयाद्ग्रीवास्कन्धगता दश ॥ ८३ ॥
त्रिंशत्कक्षे च वंशे च पृष्ठे चैकां विनिर्दिशेत् ॥
कर्णयोरुभयोर्द्वे च गण्डयोरुभयोर्दश ॥ ८४ ॥
पादटिप्पणी:
१ क. सौम्यं वा प्रवि॰ । २ क. यन्नाभि॰ । ३ क. ॰घास्तत्र । ४ ख.
॰बवतः । ५ क. प्रेश्यः । ६ क. ॰मंशास्थिशकलान्त॰ । ७ क. ॰कोशस्थिता॰ ।
९ शरीरविचायाध्यायः ] हस्त्यायुर्वेदः । ४६१
शिरा मस्तकनिर्याणवितानविदुसंश्रिताः ॥
^†यैत्तावद्ग्रहयोश्चापि चतुःषष्टिं विनिर्दिशेत् ॥ १८५ ॥
विद्याज्जिह्वाश्रितामेकां द्वे च तालुनि निर्दिशेत् ॥
तथा पाकलके चापि पेशीमेकां विनिर्दिशेत् ॥ ८६ ॥
करेण्वामधिकार्त्रिंशत्तासां वक्ष्यामि लक्षणम् ॥
स्तनयोर्दश विज्ञेया दश विद्याद्गगाश्रिताः ॥ ८७ ॥
द्वे वृत्ते मुखमाश्रित्य प्रसृतेऽथ भगोत्तरे ॥
गर्भच्छिद्रान्तरे तिस्रस्तिस्रो गर्भोपजन्मनि ॥ ८८ ॥
तासां द्वे त्वचले विद्यादृच्छत्येका च बाह्यतः ॥
चतुरस्रा च वृत्ता च त्र्यरुपावपि हि दृश्यते ॥ ८९ ॥
त्रिविधा मांसपेश्यस्तु परस्परमुपाश्रिताः ॥
बहिरभ्यन्तरे काये परिमाणमिदं पुनः ॥ १९० ॥
जिह्वायां गोरनालेन गलेनैव च वारणः ॥
सर्वमेतत्तथाऽऽहारं गोरनालेन चाऽऽहरेत् ॥ ९१ ॥
आमाशयात्तु नागस्य पक्वाशयगताः पुनः ॥
स्थूलान्त्रमभिसंपूर्य पुरीषमवतिष्ठति(ते) ॥ ९२ ॥
अन्नममात्रपरीणामं विद्याद्यामानि विंशति(म्) ॥
स्थूलान्त्राण्युदकं चैव धमन्योऽन्योन्यमाश्रिताः ॥ ९३ ॥
कालेयं तु प्लीहा चैव यकृद्दन्तं सफुप्फुसम् ॥
सर्वं निबद्धं हृदये वृक्कौ चैव नराधिप ॥ ९४ ॥
मेढ्रं हस्तश्च नागस्य सर्वं स्नायुसमुद्भवम् ॥
कर्णयोः कटयोर्द्वे द्वे श्रो(स्रो)तसी द्वे च तालुनि ॥ १९५ ॥
हस्ते द्वे नेत्रयोर्द्वे च द्वे चैव स्तनचूचुके ॥
मेढे मुखे गुदे चैव छिद्राणि दश पञ्च च ॥ १९६ ॥
—:०:—
आद्या छविर्यत्र रोम द्वितीया चर्म एव च ॥
तृतीया शोणितं ज्ञेया चतुर्थी मांसमुच्यते ॥ ९७ ॥
† 'जत्ववग्रहयोः' इति भवेत् ।
१ क. शिरो म° । २ क. यत्त्वावग्रह° । ३ क. °लुवनि° । ४ क. °मपि
संपूर्ज्य पु° । ५ क. °मात्रे परिमाणं विद्याद्ध्यामविं° । ६ क. श्रोतसि । ७ क.
शोणिते ।
: ४६२ पालकाप्यमुनिविरचितो—
मेदस्तु पञ्चमी ज्ञेया ह्यस्थि षष्ठी विधीयते ॥
मज्जा च सप्तमी ज्ञेया एवं सप्तविधा छविः ॥ ९८ ॥
—:0:—
असंख्येयानि रोगाणि केचिच्छास्त्रविदो विदुः ॥
आयुर्वेदविधानज्ञाः ( ^†केचित्संख्यां विदुबुधाः ) ॥ ९९ ॥
संपूर्णे सर्वगात्रस्य प्रमाणं परिकीर्तितम् ॥
अम्बुतेजोमयी दृष्टिः सा सप्तपटला भवेत् ॥ २०० ॥
सप्तधातुसमुत्थं तु शरीरमिह पठ्यते ॥
चतुर्विद्याहारमयस्त्वोषधीनां तु यो रसः ॥ १ ॥
पक्वाशयमनुप्राप्तः पूर्वमामाशये स्थितः ॥
प(पा)चितस्तेजसा कोष्ठे वायुना समुदीरितः ॥ २ ॥
अह्वष्टः स रसः पृथ्वीः सिराः समनुपद्यते ॥
या वै रसवहाः कापे वारणानां विशेषतः ॥ ३ ॥
स रसः शोणितीभूतो मांसत्वमुपगच्छति ॥
मांसं मेदस्त्वमागच्छेन्मेदोऽस्थ्यत्वं च दन्तिनाम् ॥ ४ ॥
अस्थिभ्यो जायते मज्जा शुक्नं मज्जा च पुष्यति ॥ २०५ ॥
स्थानानि षडनुप्राप्तो वीर्यं समनुलभ्यते ॥
ओषधीरसभीर्यं तु शरीरे सर्वगं स्मृतम् ॥ ६ ॥
यस्तत्र किट्टनिःसारः शकृत्स उपपद्यते ॥
सूत्रं चास्य त्वधोभागे वारणस्य शरीरजः ॥ ७ ॥
कट्यां मूत्रधरो बस्तिरेकद्वारो ह्यधोमुखः ॥
अपां श्रो(स्त्रो)तैः सुसूक्ष्मैः स निर्झरैरिव पूर्यते ॥ ८ ॥
प्रतिपूर्णस्ततो बस्तिरपानं प्रतिपद्यते ॥
अपाने शिथिलीभूते वेदना तु ततो भवेत् ॥ ९ ॥
एवं विसृजते मूत्रं समानेन समीरिनम् ॥
इति शरीरमुद्दिष्टं वारणानां यथाक्रमम् ॥ २१० ॥
मृत्काष्ठवल्कोर्हि यथा कुशलैः क्रियते गृहम् ॥
एवं शरीरबन्धस्तु मांसस्नाव्यावस्थिभिः कृतः ॥ ११ ॥
† धनुर्मध्यस्थः कपुस्तके त्रुटितः ।
१ ख. अस्थि । २ क. सर्वजं । ३ क. श्रोत्रे । ४ क. भृशम् ।
९ शरीरविचयाध्यायः ] हस्त्यायुर्वेदः । ४९३
शौर्यादमिजनाद्धर्षात्परिणामाभिसर्गतः ॥
संतापात्पुष्टितो व्याधिरुपधानाच्च माद्यति ॥ १२ ॥
कफं पित्तमसृङ्मांसं मेदश्चान्योन्यमूर्च्छितम् ॥
सुगन्धे दीपनं पाच कटिच्छिद्रमुपस्थितम् ॥ १३ ॥
तस्य तद्वर्षजं वीर्यं सौम्याग्नेयमुदीरितम् ॥
वायुना कण्ठमेढ्रेभ्यः स्वेभ्यश्चास्य प्रंसिच्यते ॥ १४ ॥
अतः शिलाभ्यः संभूतं यथा शैलाच्छ्र(त्स्र)वेज्जलम् ॥
एवं गजमुखं प्राप्य स्वेदः श्र(स्र)वति पार्थिव ॥ २१५ ॥ .
समागता गजमुखे सर्वाः स्वेदवहाः सिराः ॥
भुक्तान्त(श्र)स्य हि प्रस्वेदात्ताः श्र(स्र)वन्ति निसर्गतः ॥ १६ ॥
अन्येषां रोमकूपेभ्यः प्रविष्टमपराः सिराः ॥
वहन्ति कायजान्धातून्निर्देशेत्सर्वदेहिनाम् ॥ २७ ॥
हस्ती दन्ती गजो नागो मतङ्गः कुञ्जरः करी ॥
इभो मतङ्गजश्चैव वारणो द्विरदो द्विपः ॥ १८ ॥
मृगोऽथ सामजश्चैव तथा चानेकपः स्मृतः ॥
इति पञ्चदशैतानि नामान्युक्तानि पण्डितैः ॥ १९ ॥
यथा गोमहिषाश्वानामुष्ट्राणां वा समा तनुः ॥
एवमभ्यन्तरस्वेदा हस्तिनस्तु निसर्गतः ॥ २२० ॥
एकपादा द्विपादाश्च बहुपादाश्च देहिनः ॥
नानाकृतिवज्ञानानसमानान्निसर्गतः ॥ २१ ॥
एवं मतङ्गजा ज्ञेया न समानाः परैर्मृगैः ॥
अन्तःस्वेदा मूढमुष्का मुखशृङ्गमहारिणः ॥ २२ ॥
ऐश्वर्येण निसर्गेण न समाना मृगैर्गजाः ॥
ब्रह्मा तद्वेद भूतानां निसर्गे कारणं विभुः ॥ २३ ॥
(*अनन्तानां च लोकानां भूतानां च महीपते ॥
न शक्यं कारणं ज्ञातुं देवं गुह्यं प्रजापते ॥ २४ ॥
उत्पत्तिकर्म विज्ञानं शरीरं विचयो बलम् ॥
आयुरारोग्यता वर्णं वयो ज्ञानं च तत्त्वतः ॥ २२५ ॥
* धनुश्चिह्नान्तरगतस्त्रिचतुराध्यायात्मकपाठः कपुस्तके नास्ति ॥
१ क. तद्वीर्यजं । २ ख. कठमे० । ३ क. प्रसिध्यते । ४ क. शुक्लान्तस्य
५ क. एवमेव गजा । ६ क. ०मुखा मु० ।
३६४ पालकाप्यमुनिविरचितो— [३ शल्यस्थाने-
अधिकारं सदा ब्रूयादचिन्त्यं परिवर्जयेत् ॥
मतिमान्कुशलो वैद्यः शास्त्रमाश्रित्य युक्तितः ॥ २२६ ॥
इतीह पृष्टो भगवानङ्गराजेन धीमता ॥
प्राह शास्त्रविदं प्राज्ञः पालकाप्यो यथातथम् ॥ २२७ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने महापाठे तृतीये शल्यस्थाने
शरीरविचयो नाम नवमोऽध्यायः ॥ ९ ॥
अथ दशमोऽध्यायः ।
शस्त्राग्निप्रणिधानं तु पालकाप्यो महामुनिः ॥
गजानां वदतां श्रेष्ठः प्रोवाचाङ्गेन चोदितः ॥ १ ॥
प्रत्यासन्नोदके देशे समे सुस्वपरिक्रमे ॥
विश्वासयन्द्दढे स्तम्भे यन्त्रयित्वाऽथ वारणम् ॥ २ ॥
विन्यस्योदककुम्भं च समेध्याग्निं चिकित्सकः ॥
वांशीकुठारपरशुं विमोक्षार्थमुपार्जयेत् ॥ ३ ॥
१० शस्त्राभिप्रणिधानाध्यायः ] हस्त्यायुर्वेदः । ४५५
तनुप्रदेशे बहुलो बहुले च तनूद्गतः ॥
तिर्यगायतमगम्भीरो विसर्पोत्सङ्गवानपि ॥ १२ ॥
सर्वानेतानविदित्वाऽथ प्रदेशा ये च मर्मजाः ॥
अविचक्षुरसंभ्रान्तः सुस्थानः सुस्थितो लघुः ॥ १३ ॥
स्नायुसंधिसिरामर्म रक्षञ्शस्त्रमथो नयेत् ॥
भङ्गुलं वा वसाधं वा शिरा भिन्ना न दुष्यति ॥ १४ ॥
आभग्नश्वयथोरेतद्द्रामन्वपक्ष्मनमिष्यते ॥
अशेषतो न विश्वा(स्रा)व्येत्तिर्यग्गूध्वंमथापि वा ॥ १५ ॥
वहेच्च दोषः संस्थायी निरुत्सङ्गं ततश्च तम् ॥
सुकरालं व्रणं छिन्द्यादनुलोमं समं गतौ ॥ १६ ॥
नासृक्पादप्रकारं च त्रिपादं छेदयेद्व्रणम् ॥
पादप्रमाणं कुर्यात्तु व्रणस्य चतुरङ्गुलम् ॥ १७ ॥
कुर्याच्चथोदरं चापि सुभिषग्गुणदोषतः ॥
भैषज्योत्तरपूर्वाणि कारयेत्तु ऋजूनि च ॥ १८ ॥
आयते चतुरस्रे वा वृत्तेऽथापि परिग्रहे ॥
दोषनिर्हरणार्थाय सर्वान्कुर्यादधोमुखान् ॥ १९ ॥
यथौषधानि च वहेत्तं दोषं परिशोधयेत् ॥
अंगतिर्यंत्र चाङ्गुल्यास्तनुगम्भीरमर्मसु ॥ २० ॥
एषण्या श्वयथोर्यत्र तत्र शस्त्रं न पातयेत् ॥
पित्तदुष्टं तु यत्कालं हरितं पीतकं तथा ॥ २१ ॥
उष्णं चाशु श्र(स्र)वति यत्स्कन्दत्यपि तेजसा ॥
बहुलं पिच्छिलं पाण्डु चिराच्छ्र(त्स्र)वति स्कन्दति ॥ २२ ॥
श्लेष्मदोषान्वितं रक्तं विद्यादेतद्विचक्षणः ॥
तनुकं फेनिलं श्यावं रक्तं वातान्वितं भवेत् ॥ २३ ॥
संनिपातान्वितं रक्तं सर्वदोषैः समन्वितम् ॥
पाटने लेखने वेध्ये प्रच्छन्ने वाऽपि सीवने ॥ २४ ॥
सदोषरुधिरं यावत्तावन्न प्रतिषेधयेत् ॥
इंद्रगोपकवर्णं यत्तद्वै प्रकृतिशोणितम् ॥ २५ ॥
अदोषलिङ्गं शुद्धं यद्वहेत्तत्प्रतिषेधयेत् ॥
दुष्टं यदा कायगतं न विश्वा(स्रा)व्येत शोणितम् ॥ २६ ॥
४५६ पालकाप्यमुनिविरचितो- [३ शल्यस्थाने-
संदूषयति तद्धातून्बहून्दोषानुदीरयेत् ॥
अतिप्रवृत्तं श्र(स्र)वति निर्दोषे शोणितेऽधिकम् ॥ २७ ॥
पूर्वोक्तैश्चूर्णयोगैस्तु स्थापनं प्रतिचूर्णनैः ॥
स्थाने प्रधाने निर्दोषे शीतले स्थापयेद्गजम् ॥ २८ ॥
न चास्मै लवणं देयं नात्युष्णं नाम्लमेव च ॥
भक्ष्यं भोज्यं तथा पेयं सर्वं च परिवर्जयेत् ॥ २९ ॥
यावद्रक्तं तु तिष्ठेत्तु स्थिते स्यादपरो विधिः ॥
आहारस्य च सौहित्यात्स्पर्शाच्छब्दाद्रसादपि ॥ ३० ॥
यस्मात्प्रसिच्यते रक्तं तस्मात्तेभ्यो निवर्तयेत् ॥
भयात्क्रोधाच्च रुधिरं स्थितं यस्मात्प्रवर्तते ॥ ३१ ॥
तस्मान्न कोपयेदेनं न चास्य भयमादिशेत् ॥
परिषेकैः प्रदेहेश्च शीतलैः समुपाचरेत् ॥ ३२ ॥
नलवञ्जुलमूलैश्च मृणालैः सबिसोत्पलैः ॥
पद्मोशीरमञ्जिष्ठासारिवाचन्दनैरपि ॥ ३३ ॥
प्रदिह्य बहुशश्चूर्णै शीतलेभ्यश्च वारणम् ॥
आर्द्रैर्वेत्रैः परिच्छाद्य वीजयेद्व्यजनैः शुभैः ॥ ३४ ॥
क्रियाभिरेवं सूक्ष्माभिर्यदि रक्तं न तिष्ठति ॥
अग्निकर्म ततः कुर्याद्यथायोगं समाहितः ॥ ३५ ॥
ततोऽग्निकर्मणि कृते घृततैलवसादिभिः ॥
मधूच्छिष्टसमायुक्तैरभ्यङ्गो रक्तनिग्रहः ॥ ३६ ॥
न तु सर्वस्य कर्तव्यमग्निकर्म विजानता ॥
रोगाभिभूते क्षीणे च हतमर्मणि च द्विपे ॥ ३७ ॥
अनिर्वातपतशल्ये च तृष्णार्ते मूर्छितेऽपि च ॥
बहुव्रणे च मातङ्गे संतप्ते ज्वरितेऽपि च ॥ ३८ ॥
अग्निकर्म न कर्तव्यं नागानां हितमिच्छता ॥
षडत्यया भवन्त्येते शस्त्रे मिथ्या प्रचारिते ॥ ३९ ॥
संक्षोभः पाण्डुता चैव शोणितस्यातिसेचनम् ॥
प्रवेपनं च स्तम्भं च जीवस्यापि च मोक्षणम् ॥ ४० ॥
इत्येते षट्समुद्दिष्टाः क्रमशो ह्यत्यया नृप ॥
हीनं वाऽप्यतिरिक्तं वा वक्रं वा कर्म कस्यचित् ॥ ४१ ॥
मर्मसंधिसिराच्छेदो गजं प्राणैर्वियोजयेत् ॥
मूलं स्कन्धश्च शाखाश्च यथा वृक्षस्य पार्थिव ॥ ४२ ॥
१० शस्त्राग्निप्रणिध्यध्यायः ] हस्त्यायुर्वेदः । १५७
सिरास्नाव्वस्थिमांसानि त्वक्चैव दन्तिनां भवेत् ॥
शरीरे मूर्तिंस्तु भवेद्द्वमेतच्छरीरिणाम् ॥ ४३ ॥
तत्र प्राणावृतो ह्यात्मा देहं धारयतीश्वरः ॥
प्राणान्मर्माश्रितान्विद्धि पोगवाहसमायुतान् ॥ ४४ ॥
तस्मान्मर्माणि संरक्षेच्छस्त्रकर्मणि शास्त्रवित् ॥
इति शस्त्रविधौ सम्यक्प्रणिधानं प्रकीर्तितम् ॥ ४५ ॥
—:():—
अत ऊर्ध्वं प्रवक्ष्यामि व्रणेऽग्निप्रणिधौ विधिम् ॥
व्रणाः संधिगता ये स्युस्तथा मेण्ड्रगुदाश्रिताः ॥ ४६ ॥
स्थि(शि)रास्थिमर्मधमनीकोष्ठकण्ठाश्रिताश्च ये ॥
एतेष्वङ्गमदेशेषु नाग्निर्दैयः कथंचन ॥ ४७ ॥
मोहात्तस्तु वैकल्यं प्राणैर्वा विप्रयोजयेत् ॥
दुष्यन्ति बहुशो ये तु व्रणा दुःखप्ररोहिणः ॥ ४८ ॥
नाडीजाताः सपिटकाः कृमिदुष्टाश्च ये व्रणाः ॥
उत्सन्नमांसगम्भीराः साश्र(स्र)वाः शर्कराचिताः ॥ ४९ ॥
नीलावनिच्छन्नमांसाश्च वल्मीकाकृतयश्च ये ॥
व्रणो यो मांसशोषी च बहलौष्ठश्च यो व्रणः ॥ ५० ॥
एतेषु च यथायोगमग्निकर्म विधीयते ॥
शूनं विलापयत्यग्निः शुष्कमुत्सादयत्यपि ॥ ५१ ॥
व्रणसंशोधनस्त्वग्नी रोपणः परिकीर्तितः ॥
शोफापहाराच्चमतो वातानां चानुलोमतः ॥ ५२ ॥
न जायतेऽग्निना नाडीव्रणश्च न विसर्पति ॥
मृदुं करोति प्रस्तब्धं प्रस्तब्धं मृदुतां नयेत् ॥ ५३ ॥
उत्सन्नं सादयत्यग्निः सन्नमुत्सादयत्यपि ॥
एतेऽग्निकर्मणि गुणा यैस्मात्तस्माद्विजानता ॥ ५४ ॥
कार्योऽग्निप्रणिधिः सम्यङ्नागानां हितमिच्छता ॥
कपोतवर्णं रूक्षं तु तथा संकुचितं समम् ॥ ५५ ॥
सम्यग्दग्धं विजानीयान्निराश्र(स्र)वमवेदनम् ॥
व्रणानां परिपोटाश्च स्फोटाः संश्र(स्र)वर्णं तथा ॥ ५६ ॥
दुर्दग्धमेतज्ज्ञानीयाद्दहेत्सम्यक्ततः पुनः ॥
ज्वरोऽत्यर्थं भ्रमो मूर्च्छा तृष्णा स्यान्मुखशोषणम् ॥ ५७ ॥
५८