सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 457, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 457

३१८ पालकाप्यमुनिविरचितो— [१ शल्यस्थाने-
अन्नप्रमाणं किं चास्य किमात्रश्चान्दुको गजे ॥
किमात्रं क्लोम हृदये किमात्रं फुप्फुसं मुने ॥ ५ ॥
अन्नं किमात्मकं विद्यात्क स्थितश्चोदको गजे ॥
क स्थितं क्लोम हृदयं प्लीहा वृक्कौ यकृत्तथा ॥ ६ ॥
क नु बस्तिप्रबद्धश्च परिमाणं च किं भवेत् ॥
भुङ्क्ते गर्भोदरस्थो वा न वा भुङ्क्तेऽथ भोजनम् ॥ ७ ॥
संधयः कति चास्थीनि केन मोद्यति हेतुना ॥
केन पश्यति रूपाणि परिक्रामति तिष्ठति ॥ ८ ॥
केन स्तनति वै नागो लिण्डं सृजति मेहति ॥
उत्तिष्ठति निषीदेच्च निषण्णश्चानुवर्तते ॥ ९ ॥
विपद्यते तथा केन मैथुनं केन गच्छति ॥
के बालाः कानि रोमाणि केशाः पक्ष्म च किं भवेत् ॥ १० ॥
कियन्मात्राणि श्रो(स्रो)तांसि च्छष्ठपः कति च दन्तिनाम् ॥
केन जीर्येत भुक्तं च जीर्णे केन निरूहति ॥ ११ ॥
केन निद्रामुपादत्ते केन निद्रा न जायते ॥
ग्रहणी केन दीप्ता स्यादविपाकः कथं भवेत् ॥ १२ ॥
वातपित्तवहाः काश्च शुक्रवाहाश्च काः स्मृताः ॥
मेदोवहा रसवहाः शिरा रक्तवहाश्च काः ॥ १३ ॥
मांसास्थिमेदोमज्जानां वाहिन्यश्च शिराः कति ॥
प्रसारणाकुञ्चनाद्याश्चेष्टाः काभिश्च चेष्टते ॥ १४ ॥
केन वा स्याद्विपन्नेन बस्तौ मूत्रं प्रवर्तते ॥
अजस्रं मत्तनागानां मदो वाऽपि किमात्मकः ॥ १५ ॥
गजानां रोमकूपेभ्यः कस्मात्स्वेदो न वर्तते ॥
मुखतः केवलं स्वेदः क्षान्तानां संप्रवर्तते ॥ १६ ॥
एवं मे पृच्छतो ब्रूहि सर्वमेव महामुने ॥
वारणानां च नामानि यस्तावद्वक्तुमर्हसि ॥ १७ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
सौम्याऽऽग्नेयमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ १८ ॥
१ क. किमात्रकं । २ ख. °श्चोन्दुको । ३ क.वृक्कौ । ४ क.बस्तिः प्रवृद्ध° ।
५ क. हेच्छति । ६ क. च यानि स्युस्ता° ।