सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 460, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 460

९ शरीरविषयोऽध्यायः ] हस्त्यायुर्वेदः । ४४१
प्रेतरास्थि तलमोहे विधादेकं विचक्षणः ॥
तलकर्षे च विज्ञेयं प्रेतरास्थ्येकमेव तु ॥ ४८ ॥
अष्टावेव हि पादेषु प्रेतरास्थीनि निर्दिशेत् ॥
चतुर्थे च महीपाल संधयश्चात्र षोडश ॥ ४९ ॥
पलिपादेषु कर्णेषु मोहयोः मोहसंधिषु ॥
एतेष्वङ्गप्रदेशेषु गुलिकास्थीनि विंशतिः ॥ ५० ॥
अशीतिरेव पादेषु चतुर्ष्वपि च पार्थिव ॥
विंशतिश्च नखानि स्युः संधीनां द्व्यधिकं शतम् ॥ ५१ ॥
विशेषास्थ्येकवाह्वस्थि वंशास्थीनि च गात्रयोः ॥
पूर्वयोस्तु षडस्थीनि ह्येवं षट्चैव संधयः ॥ ५२ ॥
अस्थीनि संधयश्च स्युः षडेवापरयोरपि ॥
कपालास्थ्येकमेवाऽऽहुः सर्वतो जघनाश्रितम् ॥ ५३ ॥
चतुर्दशाऽऽहुरस्थीनि नागस्योरसि संख्यया ।
संधयस्त्वपि चास्त्राणां तु दश पञ्च च निश्चिताः ॥ ५४ ॥
अस्थीनि विंशतिः पृष्ठो(ष्ठे) संधयश्चैकविंशतिः ॥
पक्षयोरुभयोर्विद्याच्चत्वारिंशच्च पार्श्वकाः ॥ ५५ ॥
द्विचत्वारिंशदेवाऽऽसां पार्श्वकानां तु संधयः ॥
ऊर्ध्वास्थीन्येकविंशत्स्युः संधयश्चैकविंशतिः ॥ ५६ ॥
लाङ्गूलवंशालाङ्गूले गुलिकास्थीनि विंशतिः ॥
त्रिंशत्तु संधयश्चात्र संख्यया विद्धि पार्थिव ॥ ५७ ॥
त्रीण्यस्त्रां तु शतान्येवं विंशतिश्चैव संख्यया ॥
शतानि त्रीणि संधीनां षट्षष्टिं चापि निर्दिशेत् ॥ ५८ ॥
—:०:—
हस्ते च तालुनि द्वे द्वे मुखे नेत्रे कटिद्वये ॥
द्वे कर्णयोश्च प्रत्येकमेवमेकादशैव तु ॥ ५९ ॥
स्तनयोश्चैव मेण्ढे च नागस्य तु गुदे तथा ॥
विद्यात्पञ्चदशैतानि श्रो(स्रो)तांसि वदतां वर ॥ ६० ॥
—:०:—

१ क. प्रान्तरास्थि । २ क. ॰यं प्रान्तरा॰ । ३ क. प्रान्तरास्थीनि । ४ क.
॰तो यजना॰ । ५ क. ॰शदासां तु पा॰ । ६ क. तालुके ।
५६