सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 466, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 466

९ शरीरविचयाध्यायः ] हस्त्यायुर्वेदः । ४४७
अपानेन यदा वायुं वारणः प्रेविमुञ्चति ॥
पक्वाशयनिबद्धास्तु ज्ञेयास्तांस्तु चतुर्दश ॥ २९ ॥
एकादश शतान्येवं सप्ततिश्च पुनः सिराः ॥
(※वारणस्य प्रदेशेऽस्मिन्व्याख्यातास्ताः प्रदेशगाः ॥ १३० ॥
शतानि त्रीणि शेषाणि त्रिंशदन्याः पुनः शिराः ॥ )
एता रक्तवहा दृष्टाः शरीरं सर्वमेव हि ॥ ३१ ॥
सिराभिः संवृतं याभिर्वल्लीभिरिव पादपः ॥
अत्र प्रतिविशेषं तु हस्तिन्यामुपलक्षयेत् ॥ ३२ ॥
एकैकस्मिन्स्तने दृष्टाः सिराः क्षीरवहा दश ॥
हृदयंगमाः सुसूक्ष्माश्चेति प्रोक्तः सिराविधिः ॥ ३३ ॥
शतानि पञ्च (※नागस्य सहस्रं च) विशेषतः ॥
रेतोत्सर्गकरा यास्तु वारणानां सिरा दश ॥ ३४ ॥
मैथुनार्थं च या दृष्टास्ता एव विंशतिः स्मृताः ॥
नव संधिशतान्येवं वारेणेष्ववधारयेत् ॥ १३५ ॥
—:०:—
अतः परं प्रवक्ष्यन्ते संधयो वारणस्य तु ॥
द्वाविंशतिः संधयस्तु पादे पादे विनिश्चिताः ॥ ३६ ॥
प्रोहसंधानभागे च पलिहस्ते च दन्तिनः ॥
एतेष्वङ्गप्रदेशेषु संधयश्च चतुर्दश ॥ ३७ ॥
एवं भागे त्वपस्कारे पादे विक्षोभयोरपि ॥
प्रतिमाने च विज्ञेयाः संधयस्तु चतुर्दश ॥ ३८ ॥
गुच्छे सगुटिकायां च स्युस्तथाऽन्तरसक्थनि ॥
संधयोऽत्र महाराज विज्ञेयास्तु चतुर्दश ॥ ३९ ॥
मण्डूक्यन्तरसंधौ तु अष्ठीव्ये तु विशेषतः ॥
संधयस्तत्र विज्ञेया वारणस्य तु विंशतिः ॥ १४० ॥
आयासकाण्डे रन्ध्रे च स्तनानुसार एव च ॥
मेण्द्रे चैवाण्डकोशे च नवतिः संधयः स्मृताः ॥ ४१ ॥
अंसे च प्रत्यगंशे च तथांऽसफलकेऽपि च ॥
संधयस्तत्र विज्ञेया वारणस्य तु विंशतिः ॥ ४२ ॥


  • 'धनुश्चिह्नद्वयान्तःस्थो नास्ति पाठः कपुस्तके ।
    १ क. प्रतिमुञ्चति । २ क. °स्तासु च° । ३ क. °नुरस ए° ।