सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 458, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 458

९ शरीरविचयाध्यायः ] हस्त्यायुर्वेदः । ४१९
सोमजं शीतमार्द्रं च शुष्कमुष्णं च तैजसम् ॥
अपाणां स्थावराणां च संभवश्च चतुर्विधः ॥ १९ ॥
पुरुषो गौरजोऽश्वोऽव्यो गर्दभोऽश्वतरोऽपि च ॥
सप्तैते जङ्गमा ग्राम्या वन्यान्सप्त निबोध मे ॥ २० ॥
कपिर्गजो वराहश्च शार्दूलो महिषो मृगः ॥
खड्गश्चेति समाख्याताः सप्त वन्याश्च जङ्गमाः ॥ २१ ॥
वृक्षो वनस्पतिर्गुल्मो लतौषधितृणानि च ॥
प्रतानो वीरुधो गुच्छः स्थावरा नव कीर्तिताः ॥ २२ ॥
स्थावराणां च निर्देशो रसवीर्यविपाककः ॥
कीर्तितो यवसाध्याये विस्तरेण महीपते ॥ २३ ॥
समागतो हस्तिनीं तु नागो मैथुनमाचरेत् ॥
योन्यां करेण्वाः संघर्षात्सोम्यं शुक्रं विमुञ्चति ॥ २४ ॥
निषिच्यमाने शुक्रे तु महात्मा प्रतिपद्यते ॥
जीवः सूक्ष्मपरो धातुरचिन्त्यः प्रभुरीश्वरः ॥ २५ ॥
संसृष्टं रजसा शुक्रं तिष्ठद्योन्यां विवर्धते ॥
सप्तरात्रोषितं तत्र कललं जायते ततः ॥ २६ ॥
दशाहादर्बुदं तत्र जायते राजसत्तम ॥
मासाच्च पेशी भवति हृदयं तदनन्तरम् ॥ २७ ॥
कैंचित्संभवमिच्छन्ति पूर्वं संजायते शिरः ॥
पूर्वं हृदयमित्येके युगपच्चपरेऽब्रुवन् ॥ २८ ॥
हृदयं मनसः स्थानं मनश्चाऽऽहुः प्रजापतिः ॥
तस्माद्गर्भेण जातस्य हृदयं जायतेऽग्रतः ॥ २९ ॥
ततः संजायते क्लोम यकृद्वृक्कौ त्रयं तथा ॥
ततः शिराः संभवन्ति तिर्यगूर्ध्वमधस्तथा ॥ ३० ॥
ततः शिराभिः सहितं स्थूलान्त्रमुपजायते ॥
पृष्ठवंशोऽथ जघनं वक्षो गात्रापरोदरम् ॥ ३१ ॥
क्रमेण सर्वाण्यङ्गानि केशरोमनखानि च ॥
भवन्त्यत्र शिराभागे मातुर्गर्भोदरे वसन् ॥ ३२ ॥
ततः स दशमे मासे द्वादशे वाऽपि जायते ॥
एवं हि जायते हस्ती जातश्चापि पिबेत्पयः ॥ ३३ ॥
१ क. ॰रोऽधिकः ॥ स० । २ क. ॰द्वृद्धौ त्र॰ ।