हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 465, कुल 742 में से
संदर्भ में पढ़ें४१६ पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने-
ग्रीवायां पार्श्वयोर्दृष्टास्तिस्रस्तिस्रः पुनः शिराः ॥
शिरसश्चालने दृष्टा दश स्कन्धगताः शिराः ॥ ११५ ॥
आददाति शिराभिश्च पानीयं दशभिर्द्विपः ॥
*दशभिर्निर्वमेच्चैव शिराभिः सलिलं गजः ॥ १६ ॥
दशभिर्निमिषेन्नाग उन्मिषेद्दशभिः पुनः ॥
दशभिर्गन्धमाप्नोति गृणोति दशभिस्तथा ॥ १७ ॥
षट्त्रिंशत्तु शिरा दृष्टा दृष्टिसंचारणेऽपि च ॥
कटयोर्दश विज्ञेया शिरा मदवहा नृप ॥ १८ ॥
दशभिर्दशभिश्चैव कर्णौ चालयति द्विपः ॥
निःश्वासं कुरुते याभिस्ताः शिरास्त्रिंशदेव तु ॥ १९ ॥
दशभिर्बृंहति गजो व्याहरेद्दशभिः पुनः ॥
पुच्छं चालयति श्रीमान्सिराभिर्दशभिर्गजः ॥ १२० ॥
निर्हरेद्दशभिर्मेण्ढ्रे दशभिश्चैव सं(मे)हति ॥
मैथुनं याति दशभि(भी)रेतो दशभिरावपेत् ॥ २१ ॥
अभितस्तस्तु मातङ्गो वमथुं याभिरुत्सृजेत् ॥
षट्त्रिंशत्तु शतं विंशात्तिस्राः स्वेदवहास्तु ताः ॥ २२ ॥
शिरा गुदनिबद्धास्तु हृदयं चापि संश्रिताः ॥
धारणे तु पुरीषस्य तथैवोत्सर्जने पुनः ॥ २३ ॥
तासां दशशतं दृष्टं मूत्रस्योत्सर्जने दश ॥
ततो वातवहा दृष्टा ग्रहणीदीपनाः शिराः ॥ २४ ॥
पक्वाशयनिबद्धास्तु ज्ञेयास्तोस्तु चतुर्दश ॥
शिरा दश समाख्याता यास्तु पित्तवहाः स्मृताः ॥ १२५ ॥
दशैव तु शिरा दृष्टाः श्लेष्माणं या वहन्ति वै ॥
शिरा यास्तु शरीरेऽस्मिन्सर्वसंधिसमाश्रिताः ॥ २६ ॥
नदीं तरति सर्वाभिस्ताभिश्चैव तु लङ्घयेत् ॥
ताश्च गात्रैश्चतुर्भिश्च पृथक्त्वे विंशतिः स्मृताः ॥ २७ ॥
सिरा रसवहा दृष्टा जिह्वायां हृदयाश्रिताः ॥
दशैव ताः सुसूक्ष्मास्तु याभिर्वेदयते रसान् ॥ २८ ॥
- अयमर्धश्लोकः ‘शिरसश्चालने’— इत्यतः प्राक्पुस्तके ॥
१ क. ॰स्तासु च॰ ।