सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 462, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 462

९ शारीरविच्चयाध्यायः ] हस्त्यायुर्वेदः । ४४३
रक्तस्थाने स्थितो वायुर्व्यानो नोम्ना तु वीर्यवान् ॥
मेदःस्थाने स्थितः प्राणो वसास्थान उदीरणः ॥ ७४ ॥
समानो मांसमध्यस्थो ह्यपानश्चास्थिसंस्थितः ॥
व्यानोदानौ समानश्च प्राणापानौ च पञ्चधा ॥ ७५ ॥
भूयो वायुः शरीराणि बिभर्ति भगवान्प्रभुः ॥
व्यानाद्भवति चेष्टा च निमीलोन्मीलने नृप ॥ ७६ ॥
उदानेन बलोन्मादौ समानाद्भागमादिशेत् ॥
वागुच्छ्वासानुपानानां प्रवृत्तिः प्राणजा स्मृता ॥ ७७ ॥
वातमूत्रपुरीषाणि ह्यपाने विद्धि पार्थिव ॥
हस्तस्थं तिष्ठति सदा चक्षुर्मध्ये च दन्तिनाम् ॥ ७८ ॥
सौरं तेजश्च नेत्रे तु प्रविभक्तं शरीरिणाम् ॥
तथा प्राप्नोऽथ हर्षादींस्तेन रूपं च पश्यति ॥ ७९ ॥
श्लेष्मस्थाने स्थितं सत्त्वं रजो बाह्यनुसंस्थितम् ॥
तैमः पित्तानुगं चैव तिष्ठत्येव मतङ्गजः ॥ ८० ॥
प्रहर्षानन्दभावाभ्यां सौम्यं शुक्रं प्रमुञ्चति ॥
क्रमेण रसवीर्याणां सौम्यं शुक्रं प्रवर्तते ॥ ८१ ॥
अहश्चपमार्तवं विद्धि हस्तिन्या हर्षसंभवम् ॥
गृह्णीते साऽद्रुतं गर्भं गर्भिणी द्वेष्टि चोद्धतम् ॥ ८२ ॥
सप्त पेशीशतान्याहुः सर्वेष्वङ्गेषु हस्तिनाम् ॥
अस्थ्याश्रिताश्च ताः सर्वाः स्नायुबद्धास्त्वचा वृताः ॥ ८३ ॥
अल्पं वा बहु वा ह्रस्वं दीर्घं वाऽप्यथवा पृथक् ॥
एकसंस्थं हितं मांसं यत्स्यात्पेशीति तद्विदुः ॥ ८४ ॥
तृष्णा मर्मसु सर्वेषु निद्रा कफमुपाश्रिता ॥
व्यवसायश्च नागानां स्कन्धदेशमुपाश्रितः ॥ ८५ ॥
वपुः श्रीः कीर्तिराशा च त्वचमाश्रित्य तिष्ठति ॥
अस्थीनि पर्वतो मेरुस्तेजो देहे व्यवस्थितम् ॥ ८६ ॥
बुद्धिर्मेधा च नागानां स्नायुबन्धेष्ववस्थिता ॥
वसामार्श्रित्य बलवान्दर्पस्तिष्ठति नित्यशः ॥ ८७ ॥
१ ख. नामा तु । २ क. ख. उदीरिणः । ३ क. ततः । ४ क. साऽङ्कतम् ।