हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
२६४ पालकाप्यमुनिविरचितो— [३ क्षुद्ररोगस्थाने]
अथ सप्तचत्वारिंशोऽध्यायः ।
हस्तिशालां समासीनं गजशास्त्रार्थकोविदम् ।
दिव्यप्रभावं तपसा ब्रह्मचर्यान्मितेजसम् ॥
हुताग्निहोत्रमासीनं कृतपूर्वाह्निकक्रियम् ।
पालकाप्यं मुनिवरमङ्गराजः स्म पृच्छति ॥
रात्रौ संप्रतिपन्नो हि रूपं कुर्यादनेकपः ।
त्रसन्तो विप्रधावन्ति हस्तेनाऽऽघ्राय सर्वशः ॥
वृक्षप्राकारभित्तीश्च दन्ताभ्यां घ्नन्ति सर्वशः ।
उद्भूतनेत्रा मातङ्गा वेपमानाः सहस्तकाः ।
वियुज्यन्ते तथाकल्पाः प्राणैर्विमनसो गजाः ॥
न दोषलिङ्गं भगवन्पश्याम्यन्तं पराभवम् ।
अत्र मुह्यति मे बुद्धिः कथमेतन्मयंक्ष्यते (क्व मे ) ॥
एवमुक्तस्ततोऽङ्गेन पालकाप्यस्ततोऽब्रवीत् ।
व्याधिर्घोरो हि नागानां रात्रिक्षिप्त इति स्मृतः ॥
तस्य दोषं च सिद्धिं च रूपं चापि शृणुष्व मे ।
भाराध्वगमनश्रान्तं क्षुधार्तं व्याधिपीडितम् ॥
समापद्यन्त्येवमेते ग्रहाः संमूढचेतसम् ।
श्मशाने च वने ग्रामे पाँखण्डावसथाश्रमे ॥
रोगाभिभूतः संक्लिष्टो•••• •••• •••• •••• •••• ।
यदा च भगवन्देवालये स्थाने चतुष्पथे ॥
अमनोज्ञाश्च ये देशास्तत्राऽऽश्रपणमेव च ।
अशास्त्रोक्तेन विधिना स्थानं वा यत्र निर्मितम् ॥
सूत्रासरोह(?)वादित्रघोषाश्च विहिता मया ।
अलंकाराश्च विविधाः स्नानमाल्यानुलेपनम् ॥
तथा वैशेषिका शान्तिर्यत्र पर्वसु पर्वसु ।
यत्प्रोक्तम समेस्ताश्च परिहीणा यथा क्रिया ॥
एभिर्बहुभिरन्यैर्वा व्यभिचारपरिक्रमैः ।
छिद्रान्वेषीणि रक्षांसि संस्पृशन्त्यप्यवग्रहाः ॥
१ ख. ॰शालास्॰ । २ ख. ॰भित्त्याश्च । ३ क. ॰चक्षते । ४ ख. पाषण्डा-
वसथा॰ । ५ क. स्तराशरोह । ६ क. ॰मस्तांश्च ।
'?
Wait, why does it look like two letters?
Ah, the type is broken/smeared!
Wait, look at: 'सं' then 'रु' then 'ष्या'? That would be 4 syllables! That would violate the meter!
Wait, is it 'शंखानां'?
Wait, in 'शंखानां', शं (guru), खा (guru), नां (guru).
5(ह, laghu) 6(शं, guru) 7(खा, guru) 8(नां, guru) -> v – – – ! Perfect pathyā vaktra meter!
Wait, why did I see 'संरुष्यानां'?
Look at the glyphs:
First glyph: 'शं' - wait, the top left has a loop (श), top has a dot (ं).
Second glyph: wait, it looks like 'ख्या' or 'रुष्या'?
Wait, could it be 'तूर्याणां'?
Wait, if it's 'तूर्याणां':
तू (guru), र्या (guru), णां (guru)!
Wait, does it have 3 letters?
Let's look at the letters after पटह:
Is the first letter 'सं'?
Wait, look at:
ह, then a letter with loop at top, descending, with anusvara: looks like 'सं' or 'शं'.
Wait, look at the next shape: it has a vertical, curve... wait,
रात्रिंक्षिप्तो भवेदेवं तस्येदं लक्षणं शृणु ।
सर्वआहारनिवृत्तश्च बलाद्रुच्छति वेगतः ॥
रात्रौ मूढः संवसति दिवा स्वपिति वारणः ।
लाला मुखात्प्रस्रवति हस्तं च परिखादति ॥
तर्जयेत्सर्वभूतानि संरब्धो रक्तलोचनः ।
गृहं वृक्षं मनुष्यं वा अश्वमश्वतरं तथा ॥
वित्रासयति वेगेन घटयत्यङ्कुशग्रहम् ।
उद्विग्ननेत्रः सततं वेपते चातिमात्रतः ॥
असृग्वत्क्विवसागन्धिश्चर्मगन्धिश्च लभ्यते ।
मूर्छति व्यथते रात्रौ निमीलति निषीदति ॥
सत्त्यसाहक्ष्योति (?) स्यात्स्त्यानगात्रश्च जायते ।
एवं स दारुणो व्याधी रात्रिक्षिप्तैस्तु कीर्त्यते ॥
क्रियां तस्य प्रवक्ष्यामि तन्मे निगदतः शृणु ।
सर्पिषा स्नेहनं तस्य केवलेन समाचरेत् ॥
समालभनधूपं च भौतिकं तस्य कारयेत् ।
वारुणं गुग्गुलुं कुष्ठं हरितालं मनःशिलाम् ॥
जटिलां भूतकेशीं च सर्पिषा साधयेत्समम् ।
तदस्य पानेऽभ्यङ्गे च हितमक्ष्णोस्तु तर्पणम् ॥
त्रायमाणां जयां नीलां लाङ्गलीं नागबलां बलाम् ।
कपित्थं च वयस्थां च वोरकं सरलं कुशम् ॥
शूकरीं जटिलां छत्रामतिच्छत्रां सकर्कटीम् ।
चारीं भूतकेशीं च स्थिरां कटुकरोहिणीम् ॥
सचोपुरुषदन्तां च वृश्चिकालीं कदम्बिकाम् ।
एतत्सर्वं समाहृत्य प्रदेहं तस्य कारयेत् ॥
कुष्ठं वचां तथा हिङ्गु जटिलां चव्यचित्रकम् ।
अलक्तं वासकोशीरमुपयुक्तं ससर्षपम् ॥
गोलोमभिश्च सघृतैः संध्याकालेषु धूपयेत् ।
करञ्जबीजं पिप्पलीं सहिङ्गु रोचको वचा ॥
बस्तमूत्रेण पिष्टैतन्नस्ये तस्य तु सेचयेत् ।
छत्रां वराहदन्त .... .... .... .... .... .... .... ॥
१ क. संचलति । २ क. ᵒतस्य कीᵒ । ३ क. चोरकं ।
.... .... हस्तिदन्तेन्द्रगोपकं मरिचानि च ।
संकल्कनि .... .... ....घृतपिष्टं तदञ्जनम् ॥
गुडो द्राक्षा च मरिचं दूर्वा श्वेताश्च सर्षपाः ।
.... ....वचाजगन्धाभिः .... .... .... .... .... .... ॥
.... .... .... .... ....स्तैलं सिद्धमभ्यञ्जनं हितम् ।
श्वेतस्य बृहती हिङ्गु भार्गी कटुकरोहिणी ॥
कम्पिल्लकं निर्दयनीलपास(?)कण्टकारिकाम् ।
ज्योतिष्मतीमतिविषां तुम्बरूणि पुनर्नवा ॥
नालिकेरं वचा कुष्ठं श्रीवेष्टकपलंकषम् ।
उभे च लशुने दद्यात्तथा पोटगलामपि ॥
विकङ्कतां *बस्तगस्त्वं(?)गोलोमीं कर्कटीं शुभाम् ।
मर्कटीं सुस्कलोमं(?)च रक्षोघ्नं च प्रदापयेत् ॥
पिष्टैर्मूत्रैरजादीनां सर्पिरेतैर्विपाचयेत् ।
तदस्य पानेऽभ्यङ्गे च हितमक्ष्णोश्च तर्पणम् ॥
भूतग्रहमपस्मारमुन्मादं चापकर्षयेत् ।
अथ सर्षपतैलेन प्रलिप्याऽऽतपसंस्थितम् ॥
अथ मातङ्गमूत्रेण परिषिश्च्याथ मर्दयेत् ।
अथवा बस्तमूत्रेण खरमूत्रेण वा पुनः ॥
गोधामूत्रेण वा गाढं यथालाभं प्रमर्दयेत् ।
रात्रिलिप्तस्य नागस्य समन्ताच परिश्रयेत् ॥
पुष्पैस्तन्दुलस्त्वैस्व(?)उशीरैः पललौदनैः ।
मत्ताय कुर्वीत बलिं ततः स लभते सुखम् ॥
(?)मनःप्रसादं यथा स्याद्भवद्विंसां(?)समाचरेत् ।
वचां हिङ्गुं वयस्थां च चण्डाली सपलंकाषम् ॥
बस्तरोमाणि सर्पिश्च त्रिफलां च महौषधम् ।
सह सर्जरसैरेतैर्बहुशो धूपयेद्गजम् ॥
हस्तिरोमाणि सर्पिश्च रोमाणि कपिबस्तयोः ।
गोश्च रोमसमायुक्तो रक्षोघ्नो धूप इष्यते ॥
- 'बस्तगलं' इति भवेत् ।
१ क. यवस्य । २ ख. वांस्तगस्त्वं । ३ मत्तोपकृ०
३३
२५८ पालकाप्यमुनिविरचितो— .[ २ क्षुद्ररोगस्थाने-
गन्धमाल्योदनैर्विप्रानभ्यर्च्य स्वस्ति वाच्य च ।
पुण्याहं वाचयेद्वैद्यः शालायां तस्य हस्तिनः ॥
हुत्वाऽग्निमायुशेषेण वारणं समुपस्पृशेत् ।
सर्पिषा भोजयेन्नागं तैलेन च रसेन वा ॥
तत्र श्लोकः—
रात्रिक्षिप्तं गजं सम्यग्यश्चिकित्सेत्स शास्त्रवित् ।
स वैद्यो मानसान्कोशाद्रोगांश्चार्हति पार्थिवात् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
रात्रिक्षिप्तो नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥
अथाष्टाचत्वारिंशोऽध्यायः ।
भगवन्तं महात्मानं पञ्चेन्द्रियसमाहितम् ।
हस्तिशास्त्रविशेषज्ञमृषीणां संज्ञितं मुनिम् ॥
कृत्वाऽग्निहोत्रं प्रवरं पालकाप्यं कृताञ्जलिः ।
पप्रच्छ सुखमासीनं रोमपादो महामतिः ॥
भगवन्केन जायन्ते मूत्रसङ्गाः सुदारुणाः ॥
निदानं च कथं तेषां भैषज्यं च महामुने ॥
एवं पृष्टस्तु भगवान्पालकाप्यस्ततोऽब्रवीत् ॥
मूत्रसङ्गान्विशेषेण शृणु राजन्पृथक्पृथक् ॥
मूत्रसङ्गा मया प्रोक्ताः संग्रहे तु समासतः ॥
समासेन यथाशास्त्रं नाम चैषां प्रकीर्तितम् ॥
तेषां निदानमुत्पत्तिं चिकित्सां च महीपते ॥
साध्यासाध्यं च नागानां यथावत्संप्रवक्ष्यते ॥
यदा तु वारणोऽत्यर्थं द्रुतमध्वनि युज्यते ॥
त्वरयाऽतिप्रवृत्तस्य न मूत्रमतिवर्तते ॥
तस्य बस्तिर्विपच्येत मूत्रवर्णस्तथैव च ॥
इमानि चापि लिङ्गानि भिन्नबस्तेर्भवन्ति तु ॥
अभीक्ष्णं कुरुते मूत्रमप्रसृष्टं मतङ्गजः ॥
आध्मातकुक्षिर्विमना ध्यानप्रस्रुतलोचनः ॥
१ क. संजितं । २ क. ॰प्रचक्षते ।
[४८ मूत्रसङ्गाध्यायः ] हस्त्यायुर्वेदः । २६९
नाऽऽदत्ते विविधान्भोगान्यवसं नाभिनन्दति ॥
भिन्नं पुरीषं बहुशो बहुवर्णं च मेहति ॥
भिन्नबस्तिमसाध्यं तु प्रवदन्ति चिकित्सकाः ॥
इति भिन्नबस्तिः ।
चिकित्सां लक्षणं चैव साध्यानां संप्रवक्ष्यते ॥
गिरिर्जैर्यवसर्पैस्तु प्रतिच्छन्नो यदि द्विपः ॥
अत्यर्थं भोजयेद्रूक्षमपोगाद्वातकोपनम् ॥
प्र(अ)शक्तं वा प्रयुज्येत भृशं वा त्रस्यते यदा ।
मनसश्चोपतापेन वायुः कुप्यति दन्तिनः ॥
स बस्तिदेशमाश्रित्य जनयेद्गाढमूत्रताम् ।
शिरा मूत्रवहा याश्च बस्तिस्रोतःसमाश्रिताः ॥
ता वायुरभिसंरुध्य स्रोतस्तिष्ठति पीडयन् ।
स तेनाऽऽर्तो हि मातङ्गो वेपते संनिषीदति ॥
संकुच्य सर्वगात्राणि कृच्छ्रान्मेहति वारणः ।
मूत्रसङ्गार्दितो नागस्तस्य वक्ष्यामि लक्षणम् ॥
तं स्पष्टलवणां नागं प्रसन्नां प्रति पाययेत् ।
सर्पिषा वाऽपि सुस्निग्धां कृशरां भोजयेद्द्वजम् ॥
द्विपञ्चमूलकाश्मर्यमधुकं बदराणि च ।
यवान्मुद्गाङ्कुलत्थांश्च सलिलेन विपाचयेत् ॥
स्निग्धं तु कारयेच्यूषं पिप्पलीमरिचैर्युतम् ।
भोजनं दन्तिने स्नेहि प्रतिपानं च कारयेत् ॥
जाङ्गलानां रसैश्चैनं शालीनामोदनं मृदु ।
माषान्नसैन्धवोन्मिश्रं वारणं प्रतिभोजयेत् ॥
यवसानि च देयानि मधुराणि मृदूनि च ।
निवाते शयनं चास्य स्थानं चैव प्रशस्यते ॥
उष्णाम्ललवणप्रायैः स्निग्धैश्चाऽऽहारभोजनैः ।
वातजो मूत्रसङ्गस्तु प्रशान्तिं तेन गच्छति ॥
(इति) गाढमूत्री ॥
स क्षारलवणाम्लानां कटुकानां च सेवनात् ॥
उष्णानामतिमात्रं वा भोजनानां निषेवणात् ॥
१ क. °लक्षणानाङ्गं । २ क. °स्तु बस्तपानं तु कारयेत् ।
२६० पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
यदा पित्तं प्रकुपितं बस्तिमासाद्य तिष्ठति ॥
स दह्यमानः पित्तेन मत्तवत्क्षरति द्विपः ॥
प्रवाह(ह्य)माणो विसृजेन्मूत्रमल्पं मुहुर्मुहुः ॥
विष्टभ्य गात्राण्यत्यर्थं प्रमेहत्यथ कूजति ॥
परिमूत्री स विज्ञेयो व्याधिर्नागस्य पैत्तिकः ॥
माषपर्णीं विदारीं च मुद्गपर्णी शतावरीम् ॥
काकोलीं क्षीरकाकोलीं जीवकर्षभकावपि ॥
पञ्चमूलं च तृणजं साम्बष्ठां चापि पोषयेत् ।
क्वाथं च पाययेन्नागं शीतलं शर्करायुतम् ॥
अग्निमन्थं श्वदंष्ट्रां च बलामतिबलामपि ।
वृक्षादनीं चांशुमतीं रम्पकं च विपाचयेत् ॥
चतुर्भागावशेषं तु शीतलं च परिस्रुतम् ।
शर्कराचूर्णसंयुक्तं वारणं प्रतिपाययेत् ॥
(?) मधुराण्यन्नपानानि *घृतेन युतं निपापयेत् ।
(?) स्रावयेच्चास्य †सिकस्थाश्चत्वार कुम्भान्समन्ततः ॥
रसांश्च पाययेन्नागं सततं चैव भोजने ।
पाययेद्गुडसंयुक्तां प्रसन्नां सीधुमेव च ॥
इति परिमूत्री .........।
अव्यायामाद्दिवास्वप्नात्क्षीरेक्षुगुडसेवनात् ॥
शीतसंसेवनाच्चापि श्लेष्मा कुप्यति दन्तिनः ।
तत्प्रकोपाच्च मातङ्गः पिष्टमेहत्वमृच्छति ॥
स प्रमेहति चात्यर्थं यवपिष्टोदकप्रभम् ।
(?) सशुक्रं वा प्रमेहं तु तनुविवरान्तरस्थितः ॥
प्रमेहं चास्य लक्षेत वेदनाबहलान्वितम् ।
सपञ्चलवणं चास्मै शार्करं मधुमेव च ॥
प्रतिपानं प्रसन्नां वा तैलयुक्तां प्रदापयेत् ।
सिद्धां यवागूं शालीनां त्रिफलाचूर्णसंयुताम् ॥
सुखोष्णां भोजयेन्नागं सर्षपस्नेहधूपनम् ।
सैन्धवं नलदं कुष्ठं पिप्पलीं विश्वभेषजम् ॥
- 'घृतयुक्तानि' इति स्यात् । † 'विकस्थांश्चतुःकुम्भा' इति भवेत् ॥
१ क. पाचयेत् ।
४८ मूत्रसङ्गाध्यायः ] हस्त्यायुर्वेदः । २६१
समभागानि सर्वाणि सूक्ष्मचूर्णानि कारयेत् ।
क्रौञ्चास्थिचूर्णं तत्रैव भद्रदारु च दापयेत् ॥
संयोज्योष्णोदकेनाथ वारणं प्रतिपाययेत् ।
पत्रैर्निम्बपटोलाभ्यां मुद्रयूषं विपाचयेत् ॥
सुखोष्णं योजयेच्चापि पिप्पलीचूर्णसंयुक्तम् ।
यवक्षारसमायुक्तं तैलं चैव प्रदापयेत् ॥
माषांश्च भोजयेत्स्विन्नान्व्याधि•••• •••• •••• ।
•••• •••• •••• ••••तस्मात्तु बलं तेजश्च वर्धते ॥
इति पिष्टमेही ।
•••• •••• •••• •••• •••• •••• •••• •••• •••• •••• •••• ।
✱अर्थानेतत्प्रयोगेण •••• •••• •••• •••• •••• ••••वा ॥
कट्वम्ललवणादीनां रसानां चातिसेवनात् ।
उष्णानामतिमात्रं तु भोजनानां निषेवणात् ॥
शोणितं कुपितं स्थानान्मूत्रवस्तिं प्रबोधयेत् ।
वारणा रुधिरप्रख्यं तत्प्रकोपात्प्रमेहति ॥
तथा स हन्यते शीघ्रं न तस्यास्ति चिकित्सितम् ।
रक्ताभासमदुर्गन्धमगन्धसमवेदनम् ॥
मूत्रसङ्गे प्रमेहन्ति तस्य वक्ष्यामि भेषजम् ।
शुण्ठीचूर्णं सबदरं सक्तवः फाणितं तथा ॥
रात्रिंपर्युषितं शीतं यवोदकसमायुक्तम् ।
श्लैक्ष्णं वस्त्रस्रुतं सम्यक्प्रातस्तं पाययेद्विपम् ॥
प्रमेहस्तेन नागस्य वेदना च प्रशाम्यति ।
बीजं कदल्याः शार्ङ्गेन्त्या मृद्वीका पनसानि च ॥
श्रीपर्णी च मधूकानि विशालामलकानि च ।
समभागानि सलिले मुद्रांश्चापि विपाचयेत् ॥
पिप्पलीशुण्ठिसंयुक्तं तं यूषं पाययेद्विपम् ।
शालीनामोदनं स्विन्नं यूषेणातिविवर्धितम् ॥
मध्याह्ने भोजयेन्नागं शीतं शर्करया युतम् ।
निम्बतण्डुलचूर्णस्य•••• •••• •••• ••••पाचयेत् ॥
✱ 'अधी' इति स्यात् ॥
१ क. ॰ष्णं भोज॰ । २ क. श्लक्ष्णव॰ ।
यवागूं सह दुग्धेन पाययेत्सर्षिषा युताम् ।
निस्तुषांश्च यवान्स्विन्नान्प्रदिग्धान्फाणितेन च ॥
मृदुभिर्यवसैर्युकान्बारणाय प्रदापयेत् ।
यवसान्योदकान्यस्मै कुमुदानि बिसानि च ॥
शर्करोपहतान्यस्मै वारणाय प्रदापयेत् ।
.... .... .... .... .... .... सह सर्पिषा ।
एतेन क्रमयोगेन ततः संपद्यते सुखी ॥
इति शोणितमेही ।
इन्द्रियाणां प्रतीघाताद्धेनुकाक्रमणातथा ।
वातमूत्रपुरीषाणां नित्यं संचारणादपि ॥
गुरु˙˙˙˙ ˙˙˙˙ ˙˙˙˙ ˙˙˙˙गमनात्सहसाऽध्वनि ।
अत्यध्वसेवनाच्चापि सातत्यगमनातथा ।
कर्मणा च प्रयोगाच्च लोभादपि च कर्मसु ॥
प्रतिहस्त्यभिघाताच कुप्यन्ति धातवेस्तथा ।
स्वस्थानात्कुपितास्त्वस्य दोषा वातसमीरिताः ॥
समन्ताद्बस्तिमश्रित्य जनयन्त्यश्मशर्करम् ।
सुवर्णरजताद्यानि यथा लौहानि पार्थिव ॥
( ? ) *विनिक्षिप्ताः प्रतिमुखो जात्वस्यमानानि वाऽग्निना ।
योगतो ध्म्यमानानि संयुक्तानि विभागतः ॥
एकत्वमुपगच्छन्ति स्थिरीभावं भजन्ति च ।
तथा वायुश्च पित्तं च श्लेष्मा शोणितमेव च ॥
विपच्यमाना वातेन अश्मानं जनयन्ति ते ।
अश्मना संनिरुद्धे तु स्रोतोमार्गे मतङ्गजः ॥
प्रमेहति ततः कृच्छ्राद्विष्टभ्य चरणौ महीम् ।
त्रुब्यते स भृशं हस्ती सूचीभिरिव सर्वशः ॥
स्वस्थः कदाचिद्भवति कदाचिद्दुर्मनाः पुनः ।
नाभिनन्दति शय्यां तु ग्रासद्वेषी च जायते ॥
सर्वे मूत्रविकाराश्च दृश्यन्ते तस्य हस्तिनः ।
दुश्चिकित्सितमप्येनं मूत्रसङ्गं सशर्करम् ॥
- प्रतिमूषं विनिक्षिप्तान्यस्यमानानि' इति युक्तम् ।
१ क. ॰तवः समाः । ख॰ ।
४८ मूत्रसङ्गाध्यायः ] हस्त्यायुर्वेदः । २६३
संनिपातसमुत्थानं वदन्त्यन्ये मनीषिणः ।
वक्ष्यते साधनं तस्य यथायोगं महीपते ॥
पाषाणभेदकं पाठां कुलत्थानागरं तथा ।
पञ्चमूलं च तृणजं पाटलीं बिल्वमेव च ॥
वसुकं गोक्षुरं चैव विडं स्फूर्जकमेव च ।
सर्वाण्येतानि संहृत्य सलिलेन विपाचयेत् ॥
निष्क्वाथेन सहानेन भोजयेदथ वारणम् ।
अष्टाभिर्लवणैः पिष्टैः सुरां चात्र प्रदापयेत् ॥
यदि चानेन योगेन सुखी न भवति द्विपः ।
तस्य प्रशमनार्थं च प्रदेयो बस्तिरुत्तरः ॥
बस्तिसिद्धौ यथोक्तेन विधानेन तु शास्त्रवित् ।
वाहिन्यो याश्च मूत्रस्य शिराः स्रोतोवहाश्च याः ॥
मार्दवं संनिगच्छन्ति दत्तेनोत्तरबस्तिना ।
शतावरी भद्रमुस्ता तथा पाषाणभेदकम् ॥
एरण्डो द्वे बृहत्यौ च पृश्निपर्णी तथैव च ।
यवकोलकुलत्थाश्च काश्मर्यामलकानि च ॥
एतत्संभृत्य संभारं जलेनाऽऽप्लुत्य पाचयेत् ।
पादावशिष्टं च पुनर्घृतेन सह पाचयेत् ॥
ततः स्नेहावशेषेण दद्याच्चोत्तरबस्तिकम् ।
( वाहिन्यो याश्च मूत्रस्य शिरागलिबतां(?) सुखम् ॥
मृदुतां संनिगच्छन्ति दत्तेनोत्तरबस्तिना ।
शीतमारुतसंस्पर्शाद्धाराक्रान्तस्य हस्तिनः ॥
बस्तिस्थः कुपितो वायुर्वातकुण्डलमावहेत् ।
मूत्रसङ्गस्ततस्तस्य †भवति स्मावृतो ध्रुवम् ॥
प्रमेहति ततो (मूत्रं तण्डुलोदकसप्रभम् ।
य**श्मना प्रतिहते लिङ्गान्येतानि संवदेत् ॥
श्वदंष्ट्रा मधुकं चैव किण्वं देवशुकं तथा ।
द्वे बृहत्यौ पयस्याऽथ) एरण्डं सपुनर्नवा ॥
- धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके । † ‘भवत्यश्मावृतो’ इति भवेत् ।
१ क. ॰क्षुरविडं कुडं स्फू॰। २ क. ॰भेषजम् । ३ ख. ॰वशोषयेत्…………ण द॰।
२६४ पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने-
माढकी चात्र सर्वाणि क्वाथयेद्वारिणा सह ।
तं क्वाथं तैलसंयुक्तं मुष्ट्यक्तलवणं पिबेत् ॥
द्विपस्यापानमेरेयं मांसं मायूरमेव च ।
यवकोलकुलत्थैश्च पूर्ववत्कारयेद्रसम् ॥
क्रोञ्चस्य च शिरोमांसं सुस्निग्धं कारयेत्ततः ।
क्षीरेण माषजेनापि कारयेत्तेन भोजनम् ॥
भोजनं चापि सुस्निग्धं निरूहाश्चैव बस्तयः ।
हिताः प्रतिहते मूत्रे स्नेहपानं च योगतः ॥
यदा प्रकुपितो वायुः पित्तमादाय वर्तते ।
तदा जठरके व्याधौ बस्तिः शीर्षं प्रधावति ॥
प्रमेहति ततो नागः कपोद(?) कुसुमप्रभम् ।
कृच्छ्रेण स्तब्धनयनो वेपमानः सुदुर्मनाः ॥
श्योनाकं पाटलीं बिल्वं तथा पाषाणभेदिकाम् ।
श्रीपर्णी शृङ्गवेरं च क्रोष्टी वा(?) शारदा यवाः ॥
गव्यक्षीरं पचेद्वैद्यस्तत्क्षीरं सुपरिस्रुतम् ।
मूत्रसङ्गमप्रशान्त्यर्थं पाययेत्सह सर्पिषा ॥
घृतपानमथाभ्यङ्गं तेन चैवावपीडकम् ।
मूत्रसङ्गे जठरके बस्तिकर्म प्रशस्यते ॥
इत्येते मूत्रसङ्गाश्च सनिदानचिकित्सिताः ।
रोमपादाय विधिवत्पालकाप्येन कीर्तिताः ॥
तत्र श्लोकः-
यथा हि लोकप्रवरा मनुष्यास्तथैव सेनासु गजा विशिष्टाः ।
तेषां तु शास्त्रार्थमिहानुगत्य आरोग्यमेवं प्रयतेत कर्तुः(र्तुम्) ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
मूत्रसङ्गो नामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥
अथैकोनपञ्चाशत्तमोऽध्यायः ।
पालकाप्यमुवाचाङ्गो गर्भिण्या गर्भनिग्रहः ।
सूतिकावातसङ्गरूप व्याधेः कुर्यात्प्रतिक्रियाम् ॥
१ क. ॰तसङ्गस्य ।
बोधितस्त्वेवमङ्गेन पालकाप्यस्ततोऽब्रवीत् ।
शृणु त्वं मूढिकावाते चिकित्सां ब्रुवतो मम ॥
इह खलु भो हस्तिनी ग्राममानीता प्रसूयते यदा स्यात्, तदा भवति गर्भ-
व्यापत् । अप्राप्तकाले दौर्बल्ये वा विषमपतनपरिसरणसततगमनसलिलतरण-
जवगमनविषमलङ्घनभाराणामन्यतमेन वा भवति शब्दस्पर्शरूपगन्धेभ्य-
स्त्रासनात्, वधबन्धपरिक्लेशात्, विषमविरुद्धातिमात्रालपभोजनाद्वा मनसोऽ-
भितापादभिघाताद्वा हस्तिना हस्तिन्या वाऽभिहतायां व्यापद्यते । न वर्धते
वा गर्भः, तस्याः कारणैरेवमादिभिः कृच्छ्रेण प्रसूतायाः पवनः कुप्यति । स
कुपितः स्रोतांसि निरुणद्धि । निरुद्धेषु स्रोतःसु मत्तमातुलुङ्गत्वग्गन्धं मूत्रं सृज-
त्यल्पालपं विच्छिन्नं चावष्टभ्य तिष्ठति परिवर्तते चास्या(:) योनिरनिष्टगन्धा-
(द्वा) परिक्लिच्यमाना परिम्लानमुखी परिम्लानशरीरा दुःखेन परिक्रामति
संवीजति। न शीतं द्वेष्टि, न चाऽऽहाराभिनन्दिनी भवति । अथवा हीनगर्भपरिवृ-
द्धयोर्यदा यन्मासे प्रतिदानम्, तदो नाम(?)दर्शनं भवति । वर्षाणि वातगर्भा
(?)स एव गर्भसंप्रसूतिप्रतिक्रियाविप्रयोगे वा वातविकाराद्गर्भ व्यापदं समीक्ष्य
चिकित्सितुमुपक्रमेत् । तदाप्रभृत्याहाराचारैः प्रतिक्रियां निश्चित्य प्रतिविबो-
धयेत् । विपन्नगर्भायास्तस्याः सुखोष्णेन तैलेन सर्पिषा वा सर्वसेको बहुशः
कार्यः । सुखोष्णोदकोपचारश्च । सर्वकालं च निवातशयनम् । वंशाग्निमन्थो-
रुबूकविश्वातिकारीणां पाटलीकार्पासीनां च पत्रभङ्गेन च कार्यः स्वेदः । सुरा-
तैलघृतानि संप्रकथितानि समभागानि सुखोष्णानि परितापयेत् । नप्रुक(?)य-
वकोलकुलत्थ श्रीपर्णीपत्रपञ्चमूलभङ्गं कथितमुदकं विधिवत्पादावशिष्टमवतार्य
सर्पिषा सह सुखोष्णं पाययेत् । ततोऽस्या मूत्रसृष्टिर्योनिः समाधिमुपगच्छति ।
तरुणोदुम्बराणां प्रक्षोथितानां धवधन्वनलोध्रप्रियङ्गूनां चूर्णानि क्षौमवस्त्रेण
प्रतिबद्धानि योनौ विदध्यात् । एतेन च प्रतिविधानेन शाम्यत्यस्या योनि-
दोषः । कुशमूलमलतिलचूर्णयवसर्षिभिर्योन्या धूपः कार्यः । पञ्चमूलद्वयश्रीप-
र्णीभिर्जलं क्वाथयित्वा पादावशिष्टमवतार्य परिस्राव्य दुग्धं समांशं समानीय
वसातैलघृतैः सह विधिवद्विपाच्य तेन स्नेहेन हस्तिन्या अभ्यङ्गाऽनुवासनाञ्जनपा-
नानि कुर्यात् । त्रिकटुकसंयुक्तं तैलं चिरस्थितं च सीधुं पाययेत् । कृशरां च
सैन्धवलवणान्वितां तैलस्निग्धं मत्स्यरसोन्मिश्रितं भोजयेत् । या च भक्ष्यभो-
ज्यविद्वेषिणी विमना विकीर्णहस्ता निक्षिप्तप्रकारा परिमूत्रणी व्यापादयति
१ क. ०षु तेषु स्रो० । २ क. ०दा ताम० । ३ ख. ०मशस्त्रे० । ४ क. साधु ।
३४
२६६ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
(*निमीलयति संतप्तशरीरोष्णद्वेषिणी शीताभिनन्दिनी सलिलावगाहच्छायावि-
काङ्क्षणी, तस्या भैषज्यम्—शिशिरलघुस्निग्ध) शर्करामधुरगणमृद्वीकाभिः
शृतं पयः प्र१तिपाययेत् । यवसाध्यायविहितैर्यवसैर्मृदुभिस्तर्पयेत्, जाङ्गलसैश्च
भोजयेत् । इति........ ॥
(तत्र श्लोकाः),—
अथ प्रजातां यत्नेन हस्तिनीं सूतिकां भिषक् ॥
क्रियाभिः शास्त्रदृष्टाभिश्चिकित्सितुमुपक्रमेत् ॥
असम्यक्क्रियया प्राणान्सद्यस्त्यजति सूतिकाम् ॥
गजं न मिथ्याप्रयोगे(?) स गर्भेण वि(धि)योजिताः ॥
एवं यः साधयेद्वैद्यः सूतिकां वातसंज्ञिताम् ॥
वैद्यो मानांश्च भागांश्च सोऽत्यर्थं मानमर्हति ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने वृद्धपाठे द्वितीये क्षुद्र-
रोगस्थाने सूतिका नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥
अथ पञ्चाशत्तमोऽध्यायः ।
देवराजप्रतीकाशं सूर्याग्निसमवर्चसम् ॥
रोमपादो महाप्राज्ञः पालकाप्यं स्म पृच्छति ॥
दन्तरोग्राः कतिविधा नागानां संप्रकीर्तिताः ॥
समुत्थानं च किं तेषां विज्ञायन्ते कथं च ते ॥
कीदृशस्तु भवेत्साध्यस्त्वसाध्यश्चापि कीदृशः ॥
एतन्मे ब्रूहि पृष्टस्तु पालकाप्यस्ततोऽब्रवीत् ॥
प्राप्नुयाद्रदयोर्दोषंश्चतुर्भिः कारणैर्नृप ॥
दोषतो जरयोत्पातादागन्तुश्चेति कीर्त्यते ॥
एवं चतुर्विधो दोषो दन्तानां परिकीर्तितः ।
तत्र तावत्प्रवक्ष्यामि सर्वसामान्यलक्षणम् ॥
श्यावत्वं शूनता चैव लक्ष्यते दन्तवेष्टयोः ।
दन्तयोश्चैव वैवर्ण्यमत्यर्थमुपलक्षयेत् ॥
* धनुराकारमध्यस्थो नैव पाठः कपुस्तके ॥
१ क. प्रतीये पा० । ख. प्रतीये पाचये० ।
५० दन्तररोगाध्यायः ] हस्त्यायुर्वेदः । २६७
बहुशो यो विधमति दन्तवेष्टौ मतङ्गजः ।
मक्षिकाभिः परिवृतो मध्वक्तमिव भाजनम् ॥
परिवर्षति चात्यर्थं पांशुना विकिरत्यपि ।
अङ्गुल्पा घट्टयेच्चापि तं विद्याद्दन्तरोगिणम् ॥
यदा कषायतिक्तानि भोजनानि निषेवते ।
शुष्कं वा यवसं भुङ्क्ते रूक्षं वा भोजनं तथा ॥
एभिर्निमित्तैर्नागस्य वायुः कोष्ठे प्रकुप्यति ।
✝ न ताः प्रकुपितो वायुर्धमनीः प्रतिपद्यते ॥
धमनीप्रतिपन्नस्तु दन्तमूले निषेवते ।
तस्य तेन प्रकोपेण दन्तरोगः प्रजायते ॥
संप्रदुष्टः खरं वेष्टे श्वयथुं जनयेत्ततः ।
बस्तमूत्रप्रसङ्गाश्च कृष्णस्रावः सफेनिलः ॥
इत्येतद्वातदुष्टस्य लक्षणं समुदाहृतम् ।
अथ पित्तेन दुष्टस्य लक्षणं संप्रवक्ष्यते ॥
योऽत्यर्थं कटुकाम्लानि लवणानि निषेवते ।
तैलप्रायाणि सततमुष्णानि च महीपते ॥
यवसाशनया(पा)नानां विरुद्धानां च सेवनात् ।
एभिर्निमित्तैर्नागस्य प्रायः पित्तं प्रकुप्यति ॥
तच्च प्रकुपितं पित्तं धमनीः प्रतिपद्यते ।
धमनीप्रतिपन्नं च दन्तमूले निषेवते ॥
तस्य तेन प्रकोपेण दन्तरोगः प्रजायते ।
( ❊वेष्टौ च परिदह्येते श्वयथुश्चात्र जायते ॥
अथ कुणपगन्धं च स्रावमाशु विमुञ्चति ।
हरितः पीतो रक्तो वा वर्णतश्चोपलक्ष्यते नृप ।
न सेवन्ति च तं क्लेदमत्यर्थं मद्येव नृप ।
इति पित्तप्रदुष्टस्य लक्षणं समुदाहृतम् ॥
अत ऊर्ध्वं प्रवक्ष्यामि कफदुष्टस्य लक्षणम् ।
यदा मधुरभूयिष्ठमाहारमुपसेवते ॥
✝ 'ततः' इति भवेत् । ❊ धनुराकारमध्यस्थो नैव पाठः कपुस्तके ।
१ क. ॰मूत्रप्रसङ्गेन
॰श्च कृष्णश्रावः कफोऽनि॰ । २ क. संप्रचक्षते । ३ क.
॰नानि वि॰ ।
२६८ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
शीतलं च विशेषेण तथा च लवणं नृप ।
तस्य श्लेष्मा प्रकुपितो धमनीः प्रतिपद्यते ॥
धमनीः प्रतिपद्यस्तु दन्तमूले निषेवते ।
तस्य तेन प्रकोपेण दन्तरोगः प्रजायते ॥
दन्तवेष्टौ च लक्ष्येते) (*श्लेष्मणो लक्षणान्तरम् ।)
श्लेष्मणश्च प्रदुष्टस्य दन्तरोगस्य लक्षणम् ॥
सर्वैरेव प्रकुपितैर्दोषैः सामान्यलक्षणैः ।
श्वयथुस्रावगन्धादि संनिपातस्य लक्षणम् ॥
यदा रोगान्वितं रक्तं दन्तमूलेन† (?) विद्यते ।
विदह्यमानं तद्रक्तं ततो दोषाय कल्पते ॥
दन्तरोगः प्रजायन्ते नानादोषसमुद्भवाः ।
दान्तानां दन्तमूलेषु बहुव्याकुललक्षणाः ॥
इत्येते दोषजाः प्रोक्ता दन्तरोगः पृथग्विधाः ।
जरया दन्तरोगस्तु वयोज्ञाने प्रवक्ष्यते ॥
न दोषात्राभिघाताद्वा यदा दन्तो विनिःसृतः ।
निःसृते लक्ष्यते सद्यः पूयं शोणितमेव वा ॥
कुणपं विस्रगन्धं च दुर्गन्धं वा यदा तदा ।
तमौत्पातिकमित्याहुराचार्याः शास्त्रकोविदाः ॥
दक्षिणे त्वथ दन्ते च प्रथमं दृश्यते यदा ।
तदा व्याधिकरो राज्ञः स्रावो योक्तुर्भयावहः ॥
सव्रणं पतने चापि दन्तस्य सहसा यदि ।
देवोत्पातकृतं त्वेतदसाध्यमिति कीर्त्यते ॥
स नागः शान्तिमिच्छद्भिः स्वदेशस्य नृपस्य च ।
स्वराष्ट्रात्परराष्ट्रान्तं प्रस्थाप्यः स्याद्विचक्षणैः ॥
इत्युत्पातकृतस्योक्तं दन्तरोगस्य लक्षणम् ।
अत ऊर्ध्वं प्रवक्ष्यामि आगन्तोरपि लक्षणम् ॥
पतनाच्चलनाद्वाऽपि समरे प्रहतस्य च ॥
- धनुराकारमध्यस्थो नास्ति पाठः खपुस्तके । † 'विद्यते, विपद्यते' इति वा
भवेत् । ‡ शिव इति भवेत् ।
१ ख. ०न्धादेः सं० । २ क. प्रचक्षते ।
९• दन्तरोगाध्यायः ] हस्त्यायुर्वेदः । २६९
वृक्षवेश्माभिघाताद्वा वसुधां निघ्नतस्तथा ।
नियुध्यमानस्य केरैर्बन्वैर्वा विविधैस्तथा ॥
नागस्य कारणैरेभिर्विषाणमुपहन्यते ।
जर्जरत्वमवाप्नोति भज्यते वा पतत्यपि ॥
कल्पान्ते मथ्यते वाऽपि •दाल्यते पाच्यतेऽपि वा ।
नास्त्युत्पातकृतो दोषो यदन्तपतनं भवेत् ॥
इत्यागन्तोः समाख्यातं दन्तरोगस्य लक्षणम् ।
अत ऊर्ध्वं प्रवक्ष्यामि साध्यासाध्यस्य लक्षणम् ॥
भग्नशेषस्थितं याप्यं दन्तवेष्टव्यपाश्रयम् ।
वेष्टोपरिष्टाद्यद्भग्नमसाध्यमपि निर्दिशेत् ॥
केरिण्या सह निस्तीर्णे व्रणकर्मविधिः स्मृतः ।
संवत्सरोषितो व्याधिः स याप्यो यो न सिध्यति ॥
स यदा वर्धते दन्तो विवर्णस्य च दृश्यते ।
एवं साध्यमिति ब्रूयादसाध्यः संप्रवक्ष्यते ॥
यस्यां तु कृमयो वेष्टौ भक्षयन्ति तदुद्भवाः ।
वेष्टः संम्लायते चैव विवर्णश्चोपलक्ष्यते ॥
†करीर्याश्चोपघातेन स्रावः पूतिः प्रवर्तते ।
न च सिद्धिमवाप्नोति तदसाध्यस्य लक्षणम् ॥
याप्यं च यापयेद्दन्तमसाध्यं च विवर्जयेत् ।
साध्यं च साधयेद्वैद्यः शास्त्रोद्दिष्टेन कर्मणा ॥
दशाङ्गुला गतिर्या तु भेषज्यं तत्र कारयेत् ।
ऊर्ध्वं दशभ्योऽङ्गुलेभ्यो भैषज्यं न प्रशस्यते ॥
सर्पिःप्रक्षालनं कार्यं दन्ते सद्यःक्षते नृपः ।
दन्तरोगस्य शान्त्यर्थमारोग्यायैव दन्तिनाम् ॥
कटुकानि कषायाणि तिक्तानि च समाहरेत् ।
त्वक्पत्रफलमूलानि शोषयित्वा विपाचयेत् ॥
तेन प्रक्षालयेद्वेष्टौ क्षारैर्वा विविधैस्तथा ।
†'कारिण्या' इति भवेत् ।
१ क. युध्यमानस्य । २ क. करिभिर्वन्यै॰ । ३ क. ॰धैरपि ॥ ना॰ । ४ क. न चास्य । ५ ख. करीर्या । ६ क. ॰प्रचक्षते ।
| ३७० | पालकाप्यमुनिविरचितो— | [ २ क्षुद्ररोगस्थाने— |
|---|
प्रसन्नेया वा प्रक्षाल्यौ हस्तिमूत्रेण वा पुनः ॥
तिलसर्षपकल्केन वातकेऽभ्यञ्जनं हितम् ।
नस्त(स्य)कर्म च कर्तव्यं त्रिवृतेन भिषग्जिता ।
पटोलं चन्दनं मूर्वा गोलोमी कटुरोहिणी ॥
पाठया सह तुल्यानि गवां मूत्रेण 'पेषयेत् ।
एतैस्तैलं विपक्वं तु नस्याभ्यञ्जनयोर्हितम् ॥
पैत्तिके दन्तरोगे तु .... .... .... .... .... .... ।
.... .... .... .... .... .... .... .... .... .... ॥
कफकृतदन्तरोगचिकित्सा (?)
श्वेता कुष्ठं हरिद्रा च बिभीतकफलानि च ॥
तथा दारुहरिद्रां च हरीतक्याः फलानि च ।
साम्बष्ठा च मही धात्री भल्लातकफलानि च ॥
रोहिण्यतिविषा चैव वचा हैमवती तथा ।
अजामूत्रेण पिष्टैस्तु तैलेमेभिर्वि
९० दन्तरोगोध्यायः ] हस्त्यायुर्वेदः । २७१
तेनास्य स्रोतसोः शुद्धिः संधानं दन्तयोस्तथा ।
रोचना त्रिफला रोध्रं तथा सर्जरसो नृप ॥
समङ्गां गैरिकं पथ्यं धातकीपुष्पमेव च ।
सूक्ष्मचूर्णीकृतैरेतैर्भवेद्वेष्टानुसारभू ॥
सर्वेषां दन्तरोगाणामिदं शोधनरोपणम् ।
प्रपौण्डरीकमञ्जिष्ठाप्रियङ्गुमधुकं तथा ॥
क्षौद्रं सलोध्रं सर्पिश्च हितं वेष्टप्रलेपनम् ।
वचासर्षपलोध्रं च लशुनं च फणिज्जकम् ।
विडङ्गं निम्बपत्राणि हरिद्राद्वयमेव च ॥
करञ्जबीजेन्द्रयवाः पिप्पली मरिचानि च ।
गोविषाणी वले पश्च (?)············ ॥
···· ···· ····स्क···· ····शेनि(?)समानि तु ।
हिङ्गुना सह युक्तानि धूपोऽयं दन्तरोगिणाम् ॥
समस्तैरसमस्तैर्वा द्रव्यैरेतैर्हितो भवेत् ।
व्रणावस्था विशेषेण व्रणनेत्राणि कारयेत् ॥
सूक्ष्माणि ताम्रलोहेन तथैषणीं च पार्थिव ।
जरद्गवकृतो बस्तिः प्रशस्तो व्रणशोधने ॥
वप्राच्च परिरक्षेत्तं करिणां ये तथाऽध्वनि ।
दन्तानां रक्षणार्थाय प्रतिमोकांश्च कारयेत् ॥
बद्ध्वा वायसपक्षैर्वा स्फटिताञ्जर्जरांस्तथा ।
शिरोविरेचनैर्धूपैर्नस्यकर्मभिरेव च ॥
प्रक्षालनैश्च सततं दन्तरोगं प्रशाम्यति ।
अतः परं प्रवक्ष्यामि दन्तपातविधिं नृप ॥
पातयोग्यं विदित्वा तु गजदन्तं प्रपातयेत् ।
कृष्णलोहेन शुद्धेन शलाकां कारयेत्ततः ॥
अपूर्वा खदिरादीनां शलाका च विधीयते ।
तां शलाकां ततस्तस्य निक्षिपेदनुकूलयेत् ॥
सहसा पात्यमाने तु दोषाः स्युर्बहवो नृप ।
तावद्विनिक्षिपेद्धीमान्यावच्छ्लथत्वमागतः ॥
सर्वश्च क्षुभिते दन्ते ततो लग्नां विचक्षणः ।
दन्तमये च विद्यात्तु शलाकां सुदृढां ततः ॥
गुर्वी समांसलां'''' ''''समालम्ब्यं(१) नमयेच्छ्रतम् ॥
यदि वा तेन योगेन न पतेद्वै तदा नृप ।
प्रतिवेष्टमवाकृष्य नलेनमवगाहयेत्(१) ।
द्विव्रणीयक्रियाभिस्तु ततो व्रणमुपाचरेत् ॥
इति श्रीपालकाप्ये गजायुर्वेदमहाप्रवचने वृद्धपाठे द्वितीये क्षुद्ररोगस्थाने
दन्तरोगो नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥
अथैकपञ्चाशत्तमोऽध्यायः ।
पालकाप्योऽङ्गराजेन पृष्टः प्रोवाच हस्तिनाम् ।
चेतोभ्रंशसमुत्थानं लिङ्गंभैषज्यसंयुतम् ॥ १ ॥
मत्तमातङ्गगन्धात्तु स्वप्ने वा रौद्रदर्शनात् ॥
मन्त्रश्रोत्राहिभयतः सर्वस्मादेव शङ्कते ॥ २ ॥
महाध्वगमनात्स्नेहपानात्सङ्क्लेशस्तस्तथा ॥
आहारतिक्तकटुकैस्तदा कुप्यति मारुतः ॥ ३ ॥
दोषश्लेद्रूपवायुश्च सहसा त्रासयेद्द्वजम् ॥
पतेच्च च्छिन्नाशाखा च कम्पते च मुहुर्मुहुः ॥ ४ ॥
पुरीषं बहुभीतस्तु मुञ्चते संनिषीदति ॥
लाला प्रस्पन्दते चास्य बस्तगन्धश्च जायते ॥ ५ ॥
गुरुगात्रस्तथा स्तब्धः स्रस्तकर्णशिरोधरः ॥
कुरुते संततञ्चापि मूत्रमस्तसविज्जलम् (?) ॥ ६ ॥
समस्तलिङ्गो यो नागो. दशाहान्न निवर्तते ॥
न्यूनलिङ्गास्तु ये नागास्तेषां कार्यं चिकित्सितम् ॥ ७ ॥
चेतसो भ्रंशनाच्चापि चेतोभ्रंशं ततः परम् ॥
सर्वसेकोऽत्र कर्तव्यः पुराणेनैव सर्पिषा ॥ ८ ॥
अञ्जनस्वेदधूपांश्च रात्रिक्षिप्तवदाचरेत् ॥
वामदेवं (व्यं) ततः साम स्वहस्तपरिवर्तिनम् ॥ ९ ॥
कारयेत यथान्यायं ततः संपद्यते सुखी ॥
मनोरमं प्रदातव्यं भोजनं सार्वकामिकम् ॥ १० ॥
१ क. ॰शीने ॥ म० ।
१२ क्षुद्ररोगाध्यायः] हस्त्यायुर्वेदः । २७३
नृत्यवादित्रगीतानि कारयेच्च गजाग्रतः ॥
सनसस्तविरोधेन यथेष्टं यवसोदकम् ॥ ११ ॥
शाल्योदनं ससर्पिष्कं मधुना सह संयुक्तम् ॥
दद्यात्कुक्कुटबर्हिभ्यां संस्तुतं पानभोजनम् ॥
एवं स सुखी भवति निराबाधश्च जायते ॥ १२ ॥ १६३६ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
चेतोभ्रंशो नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥
अथ द्विपञ्चाशत्तमोऽध्यायः ।
पालकाप्यं मुनिश्रेष्ठमङ्गराजोऽब्रवीदिदम् ।
संग्रहे यस्त्वया लुप्तो भगवन्संप्रकीर्तितः ॥
एवमुक्तोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ।
भाराक्रान्ताध्वगमनादत्यर्थमुरसाऽपि च ॥
प्राकारस्तम्भपरिघप्रतिनागादिमर्दनात् ।
अधिकस्तम्भहार्यैश्च महापङ्काश्रयेण च ॥
लुप्यते सर्वगात्रेषु तेन लुप्तः प्रकीर्तितः ।
लुप्तः सर्वेषु चाङ्गेषु स्तम्भः सोऽप्यस्य जायते ॥
सप्तत्वक्शूनसर्वाङ्गोऽक्षिणपि(?)नातिजीवति ।
शोणितं च तथा खेभ्यः प्रस्रवेच्चास्य भेषजम् ॥
अभ्यज्य सर्पिषा कल्कैः क्षारिणां संप्रलेपयेत् ।
सर्पिः क्षीरप्रपानं च सर्पिषैव च भोजनम् ॥
कुवलं पल्लवं हृद्यमिक्षुर्यवसमोदनम् ।
शस्तमेतेन विधिना १तैष्वेव च पचेत्ततः ॥
त्रैवृतेन सुसिद्धेन तस्याभ्यङ्गं च वातहृत् ।
अच्छपानं च तेनैव बस्तिकर्म च कारयेत् ॥
ततः स्नेहावसाने तु पथोक्तं बृंहणं तथा ।
तत्र श्लोकः—
लुप्तो राजन्यथा पक्षी तथा नागेः प्रणश्यति ॥
१ क. वा । २ ख. °गः प्राणान्व्यद्या° ।
३५