सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 284, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 284

बोधितस्त्वेवमङ्गेन पालकाप्यस्ततोऽब्रवीत् ।
शृणु त्वं मूढिकावाते चिकित्सां ब्रुवतो मम ॥
इह खलु भो हस्तिनी ग्राममानीता प्रसूयते यदा स्यात्, तदा भवति गर्भ-
व्यापत् । अप्राप्तकाले दौर्बल्ये वा विषमपतनपरिसरणसततगमनसलिलतरण-
जवगमनविषमलङ्घनभाराणामन्यतमेन वा भवति शब्दस्पर्शरूपगन्धेभ्य-
स्त्रासनात्, वधबन्धपरिक्लेशात्, विषमविरुद्धातिमात्रालपभोजनाद्वा मनसोऽ-
भितापादभिघाताद्वा हस्तिना हस्तिन्या वाऽभिहतायां व्यापद्यते । न वर्धते
वा गर्भः, तस्याः कारणैरेवमादिभिः कृच्छ्रेण प्रसूतायाः पवनः कुप्यति । स
कुपितः स्रोतांसि निरुणद्धि । निरुद्धेषु स्रोतःसु मत्तमातुलुङ्गत्वग्गन्धं मूत्रं सृज-
त्यल्पालपं विच्छिन्नं चावष्टभ्य तिष्ठति परिवर्तते चास्या(:) योनिरनिष्टगन्धा-
(द्वा) परिक्लिच्यमाना परिम्लानमुखी परिम्लानशरीरा दुःखेन परिक्रामति
संवीजति। न शीतं द्वेष्टि, न चाऽऽहाराभिनन्दिनी भवति । अथवा हीनगर्भपरिवृ-
द्धयोर्यदा यन्मासे प्रतिदानम्, तदो नाम(?)दर्शनं भवति । वर्षाणि वातगर्भा
(?)स एव गर्भसंप्रसूतिप्रतिक्रियाविप्रयोगे वा वातविकाराद्गर्भ व्यापदं समीक्ष्य
चिकित्सितुमुपक्रमेत् । तदाप्रभृत्याहाराचारैः प्रतिक्रियां निश्चित्य प्रतिविबो-
धयेत् । विपन्नगर्भायास्तस्याः सुखोष्णेन तैलेन सर्पिषा वा सर्वसेको बहुशः
कार्यः । सुखोष्णोदकोपचारश्च । सर्वकालं च निवातशयनम् । वंशाग्निमन्थो-
रुबूकविश्वातिकारीणां पाटलीकार्पासीनां च पत्रभङ्गेन च कार्यः स्वेदः । सुरा-
तैलघृतानि संप्रकथितानि समभागानि सुखोष्णानि परितापयेत् । नप्रुक(?)य-
वकोलकुलत्थ श्रीपर्णीपत्रपञ्चमूलभङ्गं कथितमुदकं विधिवत्पादावशिष्टमवतार्य
सर्पिषा सह सुखोष्णं पाययेत् । ततोऽस्या मूत्रसृष्टिर्योनिः समाधिमुपगच्छति ।
तरुणोदुम्बराणां प्रक्षोथितानां धवधन्वनलोध्रप्रियङ्गूनां चूर्णानि क्षौमवस्त्रेण
प्रतिबद्धानि योनौ विदध्यात् । एतेन च प्रतिविधानेन शाम्यत्यस्या योनि-
दोषः । कुशमूलमलतिलचूर्णयवसर्षिभिर्योन्या धूपः कार्यः । पञ्चमूलद्वयश्रीप-
र्णीभिर्जलं क्वाथयित्वा पादावशिष्टमवतार्य परिस्राव्य दुग्धं समांशं समानीय
वसातैलघृतैः सह विधिवद्विपाच्य तेन स्नेहेन हस्तिन्या अभ्यङ्गाऽनुवासनाञ्जनपा-
नानि कुर्यात् । त्रिकटुकसंयुक्तं तैलं चिरस्थितं च सीधुं पाययेत् । कृशरां च
सैन्धवलवणान्वितां तैलस्निग्धं मत्स्यरसोन्मिश्रितं भोजयेत् । या च भक्ष्यभो-
ज्यविद्वेषिणी विमना विकीर्णहस्ता निक्षिप्तप्रकारा परिमूत्रणी व्यापादयति


१ क. ०षु तेषु स्रो० । २ क. ०दा ताम० । ३ ख. ०मशस्त्रे० । ४ क. साधु ।
३४