हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 283, कुल 742 में से
संदर्भ में पढ़ें२६४ पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने-
माढकी चात्र सर्वाणि क्वाथयेद्वारिणा सह ।
तं क्वाथं तैलसंयुक्तं मुष्ट्यक्तलवणं पिबेत् ॥
द्विपस्यापानमेरेयं मांसं मायूरमेव च ।
यवकोलकुलत्थैश्च पूर्ववत्कारयेद्रसम् ॥
क्रोञ्चस्य च शिरोमांसं सुस्निग्धं कारयेत्ततः ।
क्षीरेण माषजेनापि कारयेत्तेन भोजनम् ॥
भोजनं चापि सुस्निग्धं निरूहाश्चैव बस्तयः ।
हिताः प्रतिहते मूत्रे स्नेहपानं च योगतः ॥
यदा प्रकुपितो वायुः पित्तमादाय वर्तते ।
तदा जठरके व्याधौ बस्तिः शीर्षं प्रधावति ॥
प्रमेहति ततो नागः कपोद(?) कुसुमप्रभम् ।
कृच्छ्रेण स्तब्धनयनो वेपमानः सुदुर्मनाः ॥
श्योनाकं पाटलीं बिल्वं तथा पाषाणभेदिकाम् ।
श्रीपर्णी शृङ्गवेरं च क्रोष्टी वा(?) शारदा यवाः ॥
गव्यक्षीरं पचेद्वैद्यस्तत्क्षीरं सुपरिस्रुतम् ।
मूत्रसङ्गमप्रशान्त्यर्थं पाययेत्सह सर्पिषा ॥
घृतपानमथाभ्यङ्गं तेन चैवावपीडकम् ।
मूत्रसङ्गे जठरके बस्तिकर्म प्रशस्यते ॥
इत्येते मूत्रसङ्गाश्च सनिदानचिकित्सिताः ।
रोमपादाय विधिवत्पालकाप्येन कीर्तिताः ॥
तत्र श्लोकः-
यथा हि लोकप्रवरा मनुष्यास्तथैव सेनासु गजा विशिष्टाः ।
तेषां तु शास्त्रार्थमिहानुगत्य आरोग्यमेवं प्रयतेत कर्तुः(र्तुम्) ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
मूत्रसङ्गो नामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥
अथैकोनपञ्चाशत्तमोऽध्यायः ।
पालकाप्यमुवाचाङ्गो गर्भिण्या गर्भनिग्रहः ।
सूतिकावातसङ्गरूप व्याधेः कुर्यात्प्रतिक्रियाम् ॥
१ क. ॰तसङ्गस्य ।