सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 290, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 290

९० दन्तरोगोध्यायः ] हस्त्यायुर्वेदः । २७१
तेनास्य स्रोतसोः शुद्धिः संधानं दन्तयोस्तथा ।
रोचना त्रिफला रोध्रं तथा सर्जरसो नृप ॥
समङ्गां गैरिकं पथ्यं धातकीपुष्पमेव च ।
सूक्ष्मचूर्णीकृतैरेतैर्भवेद्वेष्टानुसारभू ॥
सर्वेषां दन्तरोगाणामिदं शोधनरोपणम् ।
प्रपौण्डरीकमञ्जिष्ठाप्रियङ्गुमधुकं तथा ॥
क्षौद्रं सलोध्रं सर्पिश्च हितं वेष्टप्रलेपनम् ।
वचासर्षपलोध्रं च लशुनं च फणिज्जकम् ।
विडङ्गं निम्बपत्राणि हरिद्राद्वयमेव च ॥
करञ्जबीजेन्द्रयवाः पिप्पली मरिचानि च ।
गोविषाणी वले पश्च (?)············ ॥
···· ···· ····स्क···· ····शेनि(?)समानि तु ।
हिङ्गुना सह युक्तानि धूपोऽयं दन्तरोगिणाम् ॥
समस्तैरसमस्तैर्वा द्रव्यैरेतैर्हितो भवेत् ।
व्रणावस्था विशेषेण व्रणनेत्राणि कारयेत् ॥
सूक्ष्माणि ताम्रलोहेन तथैषणीं च पार्थिव ।
जरद्गवकृतो बस्तिः प्रशस्तो व्रणशोधने ॥
वप्राच्च परिरक्षेत्तं करिणां ये तथाऽध्वनि ।
दन्तानां रक्षणार्थाय प्रतिमोकांश्च कारयेत् ॥
बद्ध्वा वायसपक्षैर्वा स्फटिताञ्जर्जरांस्तथा ।
शिरोविरेचनैर्धूपैर्नस्यकर्मभिरेव च ॥
प्रक्षालनैश्च सततं दन्तरोगं प्रशाम्यति ।
अतः परं प्रवक्ष्यामि दन्तपातविधिं नृप ॥
पातयोग्यं विदित्वा तु गजदन्तं प्रपातयेत् ।
कृष्णलोहेन शुद्धेन शलाकां कारयेत्ततः ॥
अपूर्वा खदिरादीनां शलाका च विधीयते ।
तां शलाकां ततस्तस्य निक्षिपेदनुकूलयेत् ॥
सहसा पात्यमाने तु दोषाः स्युर्बहवो नृप ।
तावद्विनिक्षिपेद्धीमान्यावच्छ्लथत्वमागतः ॥
सर्वश्च क्षुभिते दन्ते ततो लग्नां विचक्षणः ।
दन्तमये च विद्यात्तु शलाकां सुदृढां ततः ॥