हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 288, कुल 742 में से
संदर्भ में पढ़ें९• दन्तरोगाध्यायः ] हस्त्यायुर्वेदः । २६९
वृक्षवेश्माभिघाताद्वा वसुधां निघ्नतस्तथा ।
नियुध्यमानस्य केरैर्बन्वैर्वा विविधैस्तथा ॥
नागस्य कारणैरेभिर्विषाणमुपहन्यते ।
जर्जरत्वमवाप्नोति भज्यते वा पतत्यपि ॥
कल्पान्ते मथ्यते वाऽपि •दाल्यते पाच्यतेऽपि वा ।
नास्त्युत्पातकृतो दोषो यदन्तपतनं भवेत् ॥
इत्यागन्तोः समाख्यातं दन्तरोगस्य लक्षणम् ।
अत ऊर्ध्वं प्रवक्ष्यामि साध्यासाध्यस्य लक्षणम् ॥
भग्नशेषस्थितं याप्यं दन्तवेष्टव्यपाश्रयम् ।
वेष्टोपरिष्टाद्यद्भग्नमसाध्यमपि निर्दिशेत् ॥
केरिण्या सह निस्तीर्णे व्रणकर्मविधिः स्मृतः ।
संवत्सरोषितो व्याधिः स याप्यो यो न सिध्यति ॥
स यदा वर्धते दन्तो विवर्णस्य च दृश्यते ।
एवं साध्यमिति ब्रूयादसाध्यः संप्रवक्ष्यते ॥
यस्यां तु कृमयो वेष्टौ भक्षयन्ति तदुद्भवाः ।
वेष्टः संम्लायते चैव विवर्णश्चोपलक्ष्यते ॥
†करीर्याश्चोपघातेन स्रावः पूतिः प्रवर्तते ।
न च सिद्धिमवाप्नोति तदसाध्यस्य लक्षणम् ॥
याप्यं च यापयेद्दन्तमसाध्यं च विवर्जयेत् ।
साध्यं च साधयेद्वैद्यः शास्त्रोद्दिष्टेन कर्मणा ॥
दशाङ्गुला गतिर्या तु भेषज्यं तत्र कारयेत् ।
ऊर्ध्वं दशभ्योऽङ्गुलेभ्यो भैषज्यं न प्रशस्यते ॥
सर्पिःप्रक्षालनं कार्यं दन्ते सद्यःक्षते नृपः ।
दन्तरोगस्य शान्त्यर्थमारोग्यायैव दन्तिनाम् ॥
कटुकानि कषायाणि तिक्तानि च समाहरेत् ।
त्वक्पत्रफलमूलानि शोषयित्वा विपाचयेत् ॥
तेन प्रक्षालयेद्वेष्टौ क्षारैर्वा विविधैस्तथा ।
†'कारिण्या' इति भवेत् ।
१ क. युध्यमानस्य । २ क. करिभिर्वन्यै॰ । ३ क. ॰धैरपि ॥ ना॰ । ४ क. न चास्य । ५ ख. करीर्या । ६ क. ॰प्रचक्षते ।