सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 291, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 291

गुर्वी समांसलां'''' ''''समालम्ब्यं(१) नमयेच्छ्रतम् ॥
यदि वा तेन योगेन न पतेद्वै तदा नृप ।
प्रतिवेष्टमवाकृष्य नलेनमवगाहयेत्(१) ।
द्विव्रणीयक्रियाभिस्तु ततो व्रणमुपाचरेत् ॥
इति श्रीपालकाप्ये गजायुर्वेदमहाप्रवचने वृद्धपाठे द्वितीये क्षुद्ररोगस्थाने
दन्तरोगो नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥
अथैकपञ्चाशत्तमोऽध्यायः ।
पालकाप्योऽङ्गराजेन पृष्टः प्रोवाच हस्तिनाम् ।
चेतोभ्रंशसमुत्थानं लिङ्गंभैषज्यसंयुतम् ॥ १ ॥
मत्तमातङ्गगन्धात्तु स्वप्ने वा रौद्रदर्शनात् ॥
मन्त्रश्रोत्राहिभयतः सर्वस्मादेव शङ्कते ॥ २ ॥
महाध्वगमनात्स्नेहपानात्सङ्क्लेशस्तस्तथा ॥
आहारतिक्तकटुकैस्तदा कुप्यति मारुतः ॥ ३ ॥
दोषश्लेद्रूपवायुश्च सहसा त्रासयेद्द्वजम् ॥
पतेच्च च्छिन्नाशाखा च कम्पते च मुहुर्मुहुः ॥ ४ ॥
पुरीषं बहुभीतस्तु मुञ्चते संनिषीदति ॥
लाला प्रस्पन्दते चास्य बस्तगन्धश्च जायते ॥ ५ ॥
गुरुगात्रस्तथा स्तब्धः स्रस्तकर्णशिरोधरः ॥
कुरुते संततञ्चापि मूत्रमस्तसविज्जलम् (?) ॥ ६ ॥
समस्तलिङ्गो यो नागो. दशाहान्न निवर्तते ॥
न्यूनलिङ्गास्तु ये नागास्तेषां कार्यं चिकित्सितम् ॥ ७ ॥
चेतसो भ्रंशनाच्चापि चेतोभ्रंशं ततः परम् ॥
सर्वसेकोऽत्र कर्तव्यः पुराणेनैव सर्पिषा ॥ ८ ॥
अञ्जनस्वेदधूपांश्च रात्रिक्षिप्तवदाचरेत् ॥
वामदेवं (व्यं) ततः साम स्वहस्तपरिवर्तिनम् ॥ ९ ॥
कारयेत यथान्यायं ततः संपद्यते सुखी ॥
मनोरमं प्रदातव्यं भोजनं सार्वकामिकम् ॥ १० ॥
१ क. ॰शीने ॥ म० ।