हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 279, कुल 742 में से
संदर्भ में पढ़ें२६० पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
यदा पित्तं प्रकुपितं बस्तिमासाद्य तिष्ठति ॥
स दह्यमानः पित्तेन मत्तवत्क्षरति द्विपः ॥
प्रवाह(ह्य)माणो विसृजेन्मूत्रमल्पं मुहुर्मुहुः ॥
विष्टभ्य गात्राण्यत्यर्थं प्रमेहत्यथ कूजति ॥
परिमूत्री स विज्ञेयो व्याधिर्नागस्य पैत्तिकः ॥
माषपर्णीं विदारीं च मुद्गपर्णी शतावरीम् ॥
काकोलीं क्षीरकाकोलीं जीवकर्षभकावपि ॥
पञ्चमूलं च तृणजं साम्बष्ठां चापि पोषयेत् ।
क्वाथं च पाययेन्नागं शीतलं शर्करायुतम् ॥
अग्निमन्थं श्वदंष्ट्रां च बलामतिबलामपि ।
वृक्षादनीं चांशुमतीं रम्पकं च विपाचयेत् ॥
चतुर्भागावशेषं तु शीतलं च परिस्रुतम् ।
शर्कराचूर्णसंयुक्तं वारणं प्रतिपाययेत् ॥
(?) मधुराण्यन्नपानानि *घृतेन युतं निपापयेत् ।
(?) स्रावयेच्चास्य †सिकस्थाश्चत्वार कुम्भान्समन्ततः ॥
रसांश्च पाययेन्नागं सततं चैव भोजने ।
पाययेद्गुडसंयुक्तां प्रसन्नां सीधुमेव च ॥
इति परिमूत्री .........।
अव्यायामाद्दिवास्वप्नात्क्षीरेक्षुगुडसेवनात् ॥
शीतसंसेवनाच्चापि श्लेष्मा कुप्यति दन्तिनः ।
तत्प्रकोपाच्च मातङ्गः पिष्टमेहत्वमृच्छति ॥
स प्रमेहति चात्यर्थं यवपिष्टोदकप्रभम् ।
(?) सशुक्रं वा प्रमेहं तु तनुविवरान्तरस्थितः ॥
प्रमेहं चास्य लक्षेत वेदनाबहलान्वितम् ।
सपञ्चलवणं चास्मै शार्करं मधुमेव च ॥
प्रतिपानं प्रसन्नां वा तैलयुक्तां प्रदापयेत् ।
सिद्धां यवागूं शालीनां त्रिफलाचूर्णसंयुताम् ॥
सुखोष्णां भोजयेन्नागं सर्षपस्नेहधूपनम् ।
सैन्धवं नलदं कुष्ठं पिप्पलीं विश्वभेषजम् ॥
- 'घृतयुक्तानि' इति स्यात् । † 'विकस्थांश्चतुःकुम्भा' इति भवेत् ॥
१ क. पाचयेत् ।