हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 292, कुल 742 में से
संदर्भ में पढ़ें१२ क्षुद्ररोगाध्यायः] हस्त्यायुर्वेदः । २७३
नृत्यवादित्रगीतानि कारयेच्च गजाग्रतः ॥
सनसस्तविरोधेन यथेष्टं यवसोदकम् ॥ ११ ॥
शाल्योदनं ससर्पिष्कं मधुना सह संयुक्तम् ॥
दद्यात्कुक्कुटबर्हिभ्यां संस्तुतं पानभोजनम् ॥
एवं स सुखी भवति निराबाधश्च जायते ॥ १२ ॥ १६३६ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
चेतोभ्रंशो नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥
अथ द्विपञ्चाशत्तमोऽध्यायः ।
पालकाप्यं मुनिश्रेष्ठमङ्गराजोऽब्रवीदिदम् ।
संग्रहे यस्त्वया लुप्तो भगवन्संप्रकीर्तितः ॥
एवमुक्तोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ।
भाराक्रान्ताध्वगमनादत्यर्थमुरसाऽपि च ॥
प्राकारस्तम्भपरिघप्रतिनागादिमर्दनात् ।
अधिकस्तम्भहार्यैश्च महापङ्काश्रयेण च ॥
लुप्यते सर्वगात्रेषु तेन लुप्तः प्रकीर्तितः ।
लुप्तः सर्वेषु चाङ्गेषु स्तम्भः सोऽप्यस्य जायते ॥
सप्तत्वक्शूनसर्वाङ्गोऽक्षिणपि(?)नातिजीवति ।
शोणितं च तथा खेभ्यः प्रस्रवेच्चास्य भेषजम् ॥
अभ्यज्य सर्पिषा कल्कैः क्षारिणां संप्रलेपयेत् ।
सर्पिः क्षीरप्रपानं च सर्पिषैव च भोजनम् ॥
कुवलं पल्लवं हृद्यमिक्षुर्यवसमोदनम् ।
शस्तमेतेन विधिना १तैष्वेव च पचेत्ततः ॥
त्रैवृतेन सुसिद्धेन तस्याभ्यङ्गं च वातहृत् ।
अच्छपानं च तेनैव बस्तिकर्म च कारयेत् ॥
ततः स्नेहावसाने तु पथोक्तं बृंहणं तथा ।
तत्र श्लोकः—
लुप्तो राजन्यथा पक्षी तथा नागेः प्रणश्यति ॥
१ क. वा । २ ख. °गः प्राणान्व्यद्या° ।
३५