सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

१० सर्पदष्टाध्यायः ] हस्त्यायुर्वेदः । १७७
व्रणे तु पूतिमांसानि मण्डलाग्रेण शोधयेत् ॥
शुद्धं व्रणमदुर्गन्धमविवर्णमवेदनम् ॥ ३४ ॥
उत्तानं स्थिरमन्तेषु प्रस्तब्धं च नराधिप ॥
शून्यं श्वयथुदाहाभ्यां निर्विकारं विनिर्देशेत् ॥ ३५ ॥
दिग्धेना१भिहते मागे तथोष्ट्रखरवाजिनाम् ॥
व्रणं बुध्येत मेधावी गोषु चाश्वतरेषु च ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥ ३६ ॥ १३१८ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने वृद्धपाठे द्वितीये २क्षुद्ररो-
गस्थाने दिग्धविद्धो नाम नवमोऽध्यायः ॥ ९ ॥
अथ दशमोऽध्यायः ।
अङ्गो हि राजा चम्पायां सुमनस्कं महामुनिम् ॥
विनयेनोपसंगम्य पालकाप्यं स्म पृच्छति ॥ १ ॥
दुष्टाश्च विषपीताश्च दूषिताश्च मतङ्गजाः ॥
संग्रामे दिग्धविद्धाश्च विषवेगप्रपीडिताः ॥ २ ॥
एवंविधाश्च ये केचित्प्रामोच्यन्ते हस्तिनो द्विज ॥
सर्वेषां सविषाणां तु चिकित्सां वक्तुमर्हसि ॥ ३ ॥
तस्प तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥
पञ्चभिः कारणैः सर्पा दशन्ति पृथिवीपते ॥ ४ ॥
वक्ष्याम्युद्देशमात्रेण तद्ग्राह्यमनुमानतः ॥
दशन्ति कुपिताः केचित्केचिदाहारकाङ्क्षया ॥ ५ ॥
भीताः केचिद्दशन्त्याशु केचिदन्ये यदृच्छया ॥
मृत्युभूता दशन्त्यन्ये विधानविहितान्गजान् ॥ ६ ॥
३त्रिविधं दंष्ट्ररूपं तु भुजङ्गेषु प्रकीर्तितम् ॥
दष्टं दष्टनिपीतं चं दष्टोद्धृत्तं तथैव च ॥ ७ ॥
दंष्ट्वा तु कश्चिद्भुजगो व्यपक्रामति वेगतः ॥
संक्रामेद्द्विषभागस्तु दष्टं तत्त विनिर्देशेत् ॥ ८ ॥
१ क. ॰नातिह॰ । २ क. ख. कुक्षिरोगस्थाने । ३ क. दष्टरूपं । ४ क. तु ।
५ क. दष्ट्वा ।
२३

३७८ पालकाप्यमुनिविरचितो— [१ क्षुद्ररोगस्थाने-
दंष्ट्वा तु सर्पो यस्तत्रे पिवेदङ्गनिपीडितम् ॥
दष्टं तच्चानुबोद्धव्यं विषभागस्तु संचरेत् ॥ ९ ॥
दष्ट्वा यदि विलम्बी स्यान्निपीतमिति तत्स्मृतम् ॥
विषस्य भागौ द्वावत्र अर्धभागश्च संचरेत् ॥ १० ॥
दष्ट्वा भृशं तु यः सर्पः क्षिप्रमेव प्रवर्तते ॥
दंष्ट्रापातनिषेकेण कुरुते यत्र मोक्षणम् ॥ ११ ॥
दष्टमुद्धर्तितं विद्यात्तत्र भागत्रयं व्रजेत् ॥
मात्राणां शतमात्रं तु तिष्ठन्त्यादंशमाश्रितम् ॥ १२ ॥
ततः शरीरे क्रमते विषं वायुरिवाम्बरे ॥
न ह्यत्र विहितं किंचित्सुखं दुःखं शरीरिणाम् ॥ १३ ॥
तेषां तु खलु सर्वेषामुपसर्गः पृथग्विधः ॥
वक्ष्याम्युद्देशमात्रेण तद्ग्राह्यमनुमानतः ॥ १४ ॥
चतुर्विधास्तु निर्दिष्टाः पँन्नगा मुनिना पुरा ॥
दर्वीकरा मण्डलिनो राजिलास्तु पताकिनः ॥ १५ ॥
तेषां रूपाणि वक्ष्यामि वीर्यं चैव पृथक्पृथक् ॥
दर्वीकरा महाभोगा दीप्ताग्निसमतेजसः ॥ १६ ॥
शीघ्राः फणकराश्चण्डाः कृष्णसर्पादयः स्मृताः ॥
क्षिप्रमेषां विषं काये कक्षाग्निरिव वर्धते ॥ १७ ॥
वातिकं तु विजानीयाद्विषं दंष्ट्राश्रितं भिषक् ॥
प्रशाम्यति तु तत्क्षिप्तं मन्त्रैरन्यैस्तथौषधैः ॥ १८ ॥
तद्धि सत्यं विषं प्राहुः समर्यादं मनीषिणः ॥
अफणा मण्डलैश्र्चित्रैर्ये तु केचिद्भुजंगमाः ॥
एणीपदादयः सर्वे ते तु·मण्डलिनः स्मृताः ॥
तेषां मन्दं विषं भूत्वा ततो भवति दारुणम् ॥ २० ॥
तत्र मन्त्रौषधैर्यत्नात्पैत्तिकं बाध्यते विषम् ॥
अफणा दर्शनीयाश्च दीर्घराजिभिरावृताः ॥ २१ ॥
श्वेतगन्धादयः सर्वे राजिलाः कीर्तिता नृप ॥
विषं न वर्धते तेषां विषमं चोपलभ्यते ॥ २२ ॥


१ क. दृष्ट्वा । २ क. ॰त्र यं पिवेदङ्गपी॰ । ३ क. तत्त्वं तु बो॰ । ४ क.
यन्नगा । ख. पन्नगा । ५ क. ख. शीघ्रा फणाक॰ ।

१० सर्पदंशाध्यायः ] हस्तिहस्त्याययुर्वेदः । १७९
राजिलानां भुजङ्गानां विषं श्लेष्मणपं भवेत् ॥
अफणास्त्वेकवर्णाश्च पन्नगा ये पताकिनः ॥ २३ ॥
राजिमद्भिः समं तेषां विषं समवतारयेत् ॥
एषामन्योन्यसंसर्गात्प्रविभागाद्विशेषतः ॥ २४ ॥
जायन्ते पन्नगाः सर्वे ते च कृच्छ्रतमाः स्मृताः ॥
आदेशेनैव जानीयात्स्र्पदष्टं मतङ्गजम् ॥ २५ ॥
निमीलयति नेत्रे च व्रजन्गात्राणि कर्षति ॥
अक्षिकूटे च वर्धेते वर्त्मनी चापि दन्तिनः ॥ २६ ॥
चिरं क्षतानि चाप्यस्य स्फुटन्ति सहसा नृप ॥
निषीदत्यपराभ्यां च प्रोहाभ्यां प्रपतत्यपि ॥ २७ ॥
स्तम्भे बद्धस्तु मातङ्ग आलानेन दृढेन च ॥
उद्ध्रान्ति च दुःखार्तो दंशदेशं स्पृशत्यपि ॥ २८ ॥
मन्दं भोजनमश्नाति यवसं मन्दमेव च ॥
अधोगता भवत्यस्य दृष्टिर्नागस्य पार्थिव ॥ २९ ॥
दर्वीकरापदष्टानामेतद्भवति लक्षणम् ॥
अथ मण्डलिदष्टस्य शृणु रूपं नराधिप ॥ ३० ॥
परिशुष्येद्यदा दंशो धूप्यते परिदह्यते ॥
निद्रा बलवती यस्य कम्पते च पुनः पुनः ॥ ३१ ॥
पूतिमूत्रपुरीषश्च श्वयथुश्चाप्युदीर्यते ॥
व्रणाश्चापि विदीर्यन्ते तृष्णा चैनं प्रबाधते ॥ ३२ ॥
तृष्णार्तस्य च नागस्य लक्षणं यत्प्रवर्तते ॥
निर्वाणं नीयते यत्र तं देशं प्रतिजिघ्रति ॥ ३३ ॥
आर्द्रं वा परिशुष्कं वा तृणमिक्षुमथापि वा ॥
पिपासया समाक्रान्त आहारं नाभिनन्दति ॥ ३४ ॥
अनेन विषवीर्येण क्षिप्रमेव विदीर्यते ॥
एवं मण्डलिदष्टस्य लक्षणं च प्रकीर्तितम् ॥ ३५ ॥
राजीमतां विषं घोरं यदा देहे प्रवर्तते ॥
श्वयथुर्हस्तकर्णेऽस्य लाला प्रस्पन्दते तदा ॥ ३६ ॥
आटोपो लक्ष्यते चास्य विह्वल चापि गच्छति ॥
श्वेतमूत्रपुरीषश्च यथा ह्यन्धस्तथा स्खलन् ॥ ३७ ॥
१ क. °वचार° । २ क. °लिद्दष्ट° ।

राजीमद्दष्टनागानामेतद्भवति लक्षणम् ॥
इति जङ्गममुद्दिष्टं विषं स्थावरमुच्यते ॥ ३८ ॥
उष्णं रूक्षं तथा चाऽऽम्लं लघु तीक्ष्णं व्यवायि च ॥
विदाहि चाऽऽशु विशदमेवं नवगुणं विषम् ॥ ३९ ॥
पित्तं प्रकोपयत्यौष्ण्याद्रौक्ष्याच्च पवनं कफम् ॥
सौक्ष्म्यादतिविदाहित्वात्सर्वधातुप्रदूषणम् ॥ ४० ॥
( *गच्छत्यूर्ध्वं लघुत्वाच्च तीक्ष्णत्वान्मर्मभेद्यपि ॥
आशु व्याप्नोति शीघ्रत्वाद्वैशद्याच्च विसर्पति ॥ ४१ ॥ )
श्रो(स्रो)तोरौधि व्यवायित्वान्नवधोक्तं प्रभावतः ॥
इति स्थावरमेतस्य शृणु साध्वस्य लक्षणम् ॥ ४२ ॥
पुष्करं मधुसंकाशं शूनं वाऽप्युपलक्षयेत् ॥
दन्ताः श्यावा विवर्णाश्च नखाश्च नयने तथा ॥ ४३ ॥
शीर्यन्ते चास्य रोमाणि देह्यते च

१० सर्पदंशाध्यायः ] हस्त्यायुर्वेदः । १८१
भूम्यां ग्रासे च वक्ष्यामि दूषिते शृणु लक्षणम् ॥
स्वेदेनैव तु जग्धस्य सर्वगात्रेषु हस्तिनः ॥ ५२ ॥
स्फोटाश्चास्योपजायन्ते गात्रकण्डूस्तथैव च ॥
अङ्गानि चाऽस्य सीदन्ति भूमिश्च विषदूषणात् ॥ ५३ ॥
विवर्णो भवति ग्रासे लाळाश्रा(स्रा)वी च वारणः ॥
दुर्गन्धं वमथुं कुर्यान्न चेच्छति तृणाशनम् ॥ ५४ ॥
अनवस्थितचित्तश्च कम्पते च मुहुर्मुहुः ॥
विह्वलीकृतसर्वाङ्गो नागो न लभते सुखम् ॥ ५५ ॥
विषोपसृष्टयवसै रूक्षै रूपमिदं भवेत् ॥
आघातविषवातस्य शृणु रूपं नराधिप ॥ ५६ ॥
विधुनोति शिरोऽत्यर्थं वमथुं च मुहुः सृजेत् ॥
स्पन्दन्ते चास्य वाऽश्रूणि भवेदत्यर्थवेदनः ॥ ५७ ॥
विह्वलाक्षो भवेदाशु लभते शर्म न क्वचित् ॥
तदा संजातवातस्य निद्रा विशति पार्थिव ॥ ५८ ॥
संरक्तनेत्रो लालावान्करवक्रोऽतिविह्वलः ॥
वातेन संप्रदुष्टस्य रूपमेतत्प्रकीर्तितम् ॥ ५९ ॥
तोयस्य विषयुक्तस्य शृणु रूपं नराधिप ॥
मत्स्यकच्छपमण्डूका यावन्तो जलचारिणः ॥ ६० ॥
सर्वे म्रियन्ते राजेन्द्र निर्दग्धा विषतेजसा ॥
प्रज्वरं तैजसं चाऽऽशु यस्तु नागः पिबेज्जलम् ॥ ६१ ॥
पीतमात्रेण तोयेन क्षिप्रं प्राणैर्विमुज्यते ॥
पानीये विषसंसृष्टे रूपमेतत्प्रकीर्तितम् ॥ ६२ ॥
दिग्धविद्धस्य नागस्य शृणु रूपाणि पार्थिव ॥
वर्णव्यापत्तिमवाप्नोति प्रक्लेदश्चास्य जायते ॥ ६३ ॥
केशा वालाश्च शीर्यन्ते त्वक्चैवास्य विधूम्यते ॥
आरोहकमवेज्ञाय जलं क्षिप्रं तु वाञ्छति ॥ ६४ ॥
पीतोदके सुशीतस्य लाला प्रस्यन्दतेऽपि च ॥
कृच्छ्राच्च मूत्रं कुरुते वेदना च मुहुर्मुहुः ॥ ६५ ॥
शय्यां मृगयते गन्तुं स्तम्भमालम्ब्य तिष्ठति ॥
दिग्ध

१८२ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
अभ्यञ्जने प्रदेहे च दूषिते लक्षणं स्विदम् ॥
तीव्रा कण्डूः सपिटका क्षिप्रमस्योपजायते ॥ ६७ ॥
मांसानि चास्य शीर्यन्ते छविः सुपरिपच्यते ॥
शूनो गात्रेण भवति दुर्गन्धश्चोपजायते ॥ ६८ ॥
अभ्यञ्जने प्रदेहे च लक्षणं समुदाहृतम् ॥
भूयोऽङ्गराजः पप्रच्छ विनयादृषिसत्तमम् ॥ ६९ ॥
सर्पदष्टस्य नागस्य किं रूपमुपलक्ष्यते ॥
एतदिच्छामि विज्ञातुं ब्रूहि चात्र चिकित्सितम् ॥ ७० ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
श्रूयतामानुपूर्व्येण यन्मां त्वं परिपृच्छसि ॥ ७१ ॥
दंशो विवर्णो भवति शोणितं च विदह्यते ॥
देहेऽस्य शून्यभावस्तु दाहस्तु परिवर्धते ॥ ७२ ॥
समन्ताच्च प्रतिस्तब्धः समाध्मातश्च लक्ष्यते ॥
उष्णश्च स्पर्शो भवति मृदुभावं च गच्छति ॥ ७३ ॥
विश्रान्तचित्तस्तु गजः शिरः कम्पयते ध्रुवम् ॥
क्रुद्धश्च हस्तमुत्क्षिप्य वारणं प्रपिनष्टि च ॥ ७४ ॥
एतत्तु दर्शनं श्रेष्ठं दंशेषु विषनाशनम् ॥
यदा शुद्धो भवेद्दंशः शोणितं च ध्रुवं भवेत् ॥ ७५ ॥
इन्द्रगोपकवर्णाभं मुक्तदोषमपिच्छलम् ॥
अथास्यौषधसंभारममुमस्य प्रकल्पयेत् ॥ ७६ ॥
द्वे शते द्वे बृहत्यौ च शल्लुकं श्लक्ष्णमेव च ॥
सहाश्वगन्धारोध्रं च पिप्पली मधुकं तिलान् ॥ ७७ ॥
आम्रपत्राणि पक्वानि सूक्ष्मचूर्णानि कारयेत् ॥
द्वौ भागौ च घृतस्याथ तथैको मधुनो भवेत् ॥ ७८ ॥
हरिद्राचूर्णसंयुक्तं दद्याद्व्रणमुखे भिषक् ॥
ततः प्रदेहो देहे स्यादर्जुनं वञ्जुलं नलम् ॥ ७९ ॥
उभे पाठे तथा श्वेता शुकनासा प्रियङ्गु च ॥
सारिवामश्वकर्णं तु सोमवल्कं च दापयेत् ॥ ८० ॥
शीर्षाकं चैव शालूकं श्यामं काश्मर्यमेव च ॥
चतुरः क्षीरिणो वृक्षान्मधुकं चैव पाटलाम् ॥ ८१ ॥
गवेधुकां च कालां च तथा चोभे पुनर्नवे ॥
जम्बू बिल्वं समङ्गां च समभागानि कारयेत् ॥ ८२ ॥

१० सर्पदंशाध्यायः ] हस्त्यायुर्वेदः [ १८३
एतत्कल्कं सुपिष्टं वै घृतेन सह योजयेत् ॥
कईमेन समालोड्य दंशशोफं प्रकल्पयेत् ॥ ८३ ॥
लभते तेन निर्वाणं विषं चास्योपशाम्यति ॥
लिप्तस्यानेन लेपेन पानमस्याचऽऽरेदिदम् ॥ ८४ ॥
घृतद्रोणं तु पयसो निर्दोषस्याऽऽढकं भवेत् ॥
यष्टीमधुकचूर्णस्य भवेत्तु कुडवद्वयम् ॥ ८५ ॥
पिप्पलीनां च भागः स्यान्मरिचानां तथैव च ॥
श्वेतायाः कुडवः कार्यो मुद्गपर्ण्यस्तथैव च ॥ ८६ ॥
मृणालं च पयस्यां च जीवकर्षभकावुभौ ॥
एलां चैव विडङ्गं च स्वर्जिकां परिपेलवम् ॥ ८७ ॥
सर्वाणि समभागानि सूक्ष्मचूर्णानि कारयेत् ॥
अर्धप्रस्थो विडङ्गस्य सैन्धवस्य तथैव च ॥ ८८ ॥
यवक्षारस्य भागः स्यात्सर्वमेतद्द्रवीकृतम् ॥
पीत्वा सुखमवाप्नोति विषाच्च परिमुच्यते ॥ ८९ ॥
वातिकानां विधिः प्रोक्तः पैत्तिके च प्रवेक्ष्यते १ ॥
अनन्तां च पयस्यां च मुद्गपर्णी तथैव च ॥ ९० ॥
मृणालीं हंसपदीं च जीवकर्षभकावुभौ ॥
काकोलीं क्षीरकाकोलीं मेदां छिन्नरुहां तथा ॥ ९१ ॥
क्षीरशुक्लां विदारीं च श्यामाममतिविषां तथा ॥
दर्भेक्षुवालीपुण्ड्रेक्षु मृद्वीकां च परूषकम् ॥ ९२ ॥
ततः पटोलकं चैव माषपर्णी च दापयेत् ॥
दुरालभां मधुरसां सारिवां श्वेतया सह ॥ ९३ ॥
तथा कर्कटशृङ्गीं च समभागानि कारयेत् ॥
मधुकं मरिचं चैव क्षवकं चैलया सह ॥ ९४ ॥
तथा कर्कटशृङ्गीं च नागरं चैलवालुकम् ॥
पीलुं करञ्जं मञ्जिष्ठामेतद्द्विगुणभागिकाम् ॥ ९५ ॥
गवां मूत्रेण संयोज्य तथा गुप्तं निधापयेत् ॥
एतत्सर्वं समालोड्य घृतद्रोणे समावपेत् ॥ ९६ ॥
माक्षिकस्याऽऽढकं दत्त्वा वारणं पाययेद्भिषक् ॥
एष श्रेष्ठोऽगदः कार्यः पैत्तिके पाययेद्द्विषे ॥ ९७ ॥
१ क. प्रचक्षते ।

१८४ पालकाप्यमुनिविरचितो— [३ क्षुद्ररोगस्थाने-
प्रियङ्गुकांस्तथाऽनन्तां समङ्गां धातकीं तथा ॥
सुवर्णपुष्पीं दद्यात्तु दाडिमद्वयमेव च ॥ ९८ ॥
द्राक्षारोध्रं च शालं च चन्दनं चात्र दापयेत् ॥
एतत्संभृत्य संभारं समांशं तुलया धृतम् ॥ ९९ ॥
अजामूत्रेण संसृष्टं गवां मूत्रेण पेषयेत् ॥
अभयामळकाकाथं काथयेत्ताम्रभाजने ॥ १०० ॥
ततो यूषं परिक्ष्रा( स्त्रा )व्य तांफलकांस्तत्र दापयेत् ॥
ततः क्षौद्रेण संसृज्य पाययेद्दन्तिनं भिषक् ॥ १०१ ॥
पीतोऽयमगदश्रेष्ठो हन्ति राजीमतो विषम् ॥
अथान्यानगदान्कुर्यात्संनिपाते ततो भिषक् ॥ १०२ ॥
संसृष्टं पाययेच्चैनं वातपित्तकफापहम् ॥
तं पीतवन्तमनु च वारिणा सेचयेद्गजम् ॥ १०३ ॥
स्थानं सुशीतलं कुर्याच्छीतैश्च परिषेचनम् ॥
अञ्जनं च ततः कुर्याद्येन चक्षुर्विशुष्यति ॥ १०४ ॥
गिरिकर्णिकां श्वेतां च हरिद्रां सैन्धवं तथा ॥
शिरीषबीजं लशुनं समभागानि कारयेत् ॥ १०५ ॥
कर्पूरं च जले पिष्ट्वा गुटिकां संप्रदापयेत् ॥
दर्वीकरेण दष्टस्य चक्षुषो हितमञ्जनम् ॥ १०६ ॥
कालानुसारी मृद्वीका काश्मर्याऽथ शिरीषकम् ॥
गुडूचीरससंयुक्तमञ्जनं गुटिकीकृतम् ॥ १०७ ॥
एतन्मण्डलिदष्टानां चक्षुषां हितमञ्जनम् ॥
स्थानं शीतं गृहं कुर्याद्गोमयेन प्रलेपयेत् ॥ १०८ ॥
अथ चेत्कुञ्जरो वेगं तृतीयमतिवर्तते ॥
इमं तत्र विधिं कुर्यात्क्षिप्रमेव विचक्षणः ॥ १०९ ॥
तृ( त्रि )वृदन्ती च श्यामा च नागदन्ती प्रियङ्गुवः ॥
उदुम्बरसमान्कल्कान्सर्वाण्येव पृथक्पृथक् ॥ ११० ॥
एतत्संभृत्य संभारं कुञ्जरं पाययेद्भिषक् ॥
लवणाम्बुसमायुक्तं मृत्पात्रे विमले स्थितम् ॥ १११ ॥
१विरेचनं भिषग्दद्याद्दर्वीकरविषापहम् ॥
कषायप्रतिसंयुक्तं राजीमत्सु विधीयते ॥ ११२ ॥
१ क. चिरंतनं ।

१० सर्पदष्टाध्यायः ] हस्त्यायुर्वेदः । १८५
ततो विर(रि)क्तदोषं तु सेचयेद्वारिणं भिषक् ॥
अगदं पाययेच्चैनं पूर्वमुक्तं गजं ततः ॥ ११३ ॥
शिरश्च पीड्यते चास्य कराच्छ्लेष्मा प्रवर्तते ॥
मुखाच्च लाला श्र(स्र)वति वमथुश्च मुहुर्मुहुः ॥ ११४ ॥
इमं तत्र विधिं कुर्यात्क्षिप्रमेव विचक्षणः ॥
*श्वेतां ज्योतिष्मतीं पाठां सुवहामथ वारुणीम् ॥ ११५ ॥
सुनन्दां लावनन्दां च विडङ्गं चाष्टमं भवेत् ॥
एतानि समभागानि कल्कपिष्टानि कारयेत् ॥ ११६ ॥
(†आन्तरिक्षेण पयसा वाससा च परिश्रु(स्रु)तं ॥
द्वयाढकं त्र्याढकं वाऽपि तं रसं पाययेद्भिषक् ॥ ११७ ॥ )
शिरो विरिच्यते तेन विषं चास्योपशाम्यति ॥
द्वयाढकं घृतमण्डस्य विर(रि)क्तशिरसस्तथा ॥ ११८ ॥
अनुषेकं पुनः कुर्यात्ततः स लभते सुखम् ॥
अञ्जनं च ततो दद्याद्येन संपद्यते सुखी ॥ ११९ ॥
मनःशिलां त्रिकटुकं हरितालं रसाञ्जनम् ॥
कतकं सैन्धवं चैव मधुकं च समं घृतम् ॥ १२० ॥
क्षौद्रेण सह संयोज्य श्लक्ष्णं दृषदि २पेषयेत् ॥
राजीमता तु दष्टस्य गजस्य हितमञ्जनम् ॥ १२१ ॥
अश्वकर्णकषायस्य कर्णिकारार्जुनस्य च ॥
तृतीयं बृहतीबीजमेते भागास्त्रयः समाः ॥ १२२ ॥
अर्धभागस्तु रालायाः सुनन्दापास्तथैव च ॥
क्षौद्रेण सह संयोज्य अञ्जनं सांनिपातिके ॥ १२३ ॥
अथवाऽञ्जितमात्रस्य सेचयेद्वारिणा शिरः ॥
कुर्याच्छिरस्यावाक्षोतं प्रदेहैश्च प्रदेहयेत् ॥ १२४ ॥
इत्येतत्सर्पदष्टस्य लक्षणं सचिकित्सितम् ॥
अङ्गराजस्ततो भूपः पालकाप्यं स्म पृच्छति ॥ १२५ ॥
आञ्जते विषपीते च धूपगन्धानुवासिते ॥
४सँविषे कुञ्जरे रूपं भगवन्वक्तुमर्हसि ॥ १२६ ॥
*लावनन्दान्तानां प्रथमान्तत्वं युक्तम् । † धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥
१ ख. ॰तः सुल॰ । २ ख. पीषयेत् । ३ क. ॰तमुत्तमम् । ४ क. सविषं ।
२४

१८६ पालकाप्यमुनिविरचितो- [१ क्षुद्ररोगस्थाने-
एवमुक्तस्तु भगवान्पालकाप्यस्ततोऽब्रवीत् ॥
विषाक्षितस्य नागस्य इदं भवति लक्षणम् ॥ १२७ ॥
वेदना च विषार्तस्य पटलश्चोपजायते ॥
अक्षिणी घर्षयेच्चापि हस्तेन कवलेन वा ॥ १२८ ॥
दोषप्रच्छन्ननेत्रश्च विषवेगमपीडितः ॥
नेत्राभ्यामथ हृन्ना(क्षो)भ्यां नागो न लभते सुखम् ॥ १२९ ॥
हस्तं प्रगृह्य दुःखार्तो क्रोधमारभते मुहुः ॥
वर्त्मानि चास्य शीर्यन्ते वर्त्मशोफश्च जायते ॥ १३० ॥
स्थानेनावस्थितस्यापि बन्धलो भवति द्विपः ॥
प्रवेपते प्रव्यथते लाला चास्य प्रवर्तते ॥ १३१ ॥
तस्य कर्म प्रवक्ष्यामि यथा संपद्यते सुखी ॥
अञ्जनानि विषघ्नानि यानि स्युस्तैस्तथाञ्जनम् ॥ १३२ ॥
सिञ्चेच्छृतेन चैवैनं शीतलेन यथासुखम् ॥
यथोक्तम गदं चैनं सर्पिःक्षीरसमन्वितम् ॥ १३३ ॥
पाययेन्मधुसंयुक्तमनुषेकं च दापयेत् ॥
कुर्याच्चिरस्पवाश्चातं ततः संपद्यते सुखी ॥ १३४ ॥
अयमेतेन संपद्येद्योगेन मनुजाधिप ॥
योगमन्यं प्रवक्ष्यामि येन संपद्यते सुखी ॥ १३५ ॥
गृहीत्वा कृष्णसर्पस्य दुष्टाहैर्वा शिरस्तथा ॥
क्षिप्त्वा श्रो(स्रो)तोञ्जनं वाऽस्य ततो मृद्वग्निना पचेत् ॥१३६॥
तावत्तदञ्जनं यावत्तस्य भागोऽष्टमो भवेत् ॥
*पिप्पली तन्दुला श्वेतां पुराणामथ वारुणीम् ॥ १३७ ॥
सुनन्दां पालनन्दां च विडङ्गं चाष्टमं तथा ॥
बृहत्या रसनिर्यासे कपित्थस्य रसेऽपि वा ॥ १३८ ॥
पिष्ट्वा तु गुटिकां कृत्वा छायायां परिशोषयेत् ॥
सुबद्धमक्षयेन्नागं शनैर्न व्यथते यथा ॥ १३९ ॥
मुहूर्तं स्थापयित्वा च घृतमण्डेन तर्पयेत् ॥
चक्षुर्भ्यां स यदा पश्येत्पटलं विगतं भिषक् ॥ १४० ॥

  • द्वयोर्द्वितीयान्तत्वं युक्तम् ।
    १ क. विषाञ्जनस्य। २ क. ०णी वर्धये०। ३ क. वर्ष्माणि। ४ क. वर्ष्मशो०।
    ५ क. ०सुखम् । ६ ख. ०पश्येद्यो० ।

१० सर्पदष्टाध्यायः ] हस्त्यायुर्वेदः । १८७
शर्करां मधुकं चैव घृतेन सह संसृजेत् ॥
अञ्जनं तेन कार्यं स्यात्ततः संपद्यते सुखी ॥ १४१ ॥
आजस्य पयसः प्रस्थं कर्षंश्च मधुकस्य च ॥
कर्षं किंशुकपुष्पाणां पद्मपुष्पं तथैव च ॥ १४२ ॥
शर्करायाः पलं दद्याद्यवानां प्रसृतिं तथा ॥
प्रस्थेन चान्तरिक्षस्य संसृष्टं पाचयेच्छनैः ॥ १४३ ॥
यदा तु परिपक्वं स्यादथैनमवतारयेत् ॥
एतेन शीतलेनास्य चक्षुषोः परिषेचनम् ॥ १४४ ॥
अनेन परिषेकेन नागः संपद्यते सुखी ॥
विषाच्च मुच्यते क्षिप्रं चक्षुश्चास्य विशुध्यति ॥ १४५ ॥
अत ऊर्ध्वं प्रवक्ष्यामि विषपीतस्य लक्षणम् ॥
गण्डौ हस्तस्तथा तालु मुखं च परिशुष्यति ॥ १४६ ॥
प्रतिगृह्णाति वातं च दह्यमानो मुहुर्मुहुः ॥
न शृणोति च कर्णाभ्यां चक्षुषा च न पश्यति ॥ १४७ ॥
मुखतः पुष्कराच्चास्य श्लेष्मा गच्छति पिच्छिलः ॥
न च वेदयते गन्धं विषवेगप्रपीडितः ॥ १४८ ॥
प्रस्थितश्चापि निर्वाणं गजः सत्त्वरजोधकम् ॥
जलं प्रवाञ्छते क्षिप्रं गन्तारमविदन्नयम् ॥ १४९ ॥
उदकस्पर्शनाच्चैव नागः संपद्यते सुखी ॥
तस्य पीतेन शीतेन लाला च स्पन्दते शनैः ॥ १५० ॥
अञ्जनं च प्रदेहश्च तथा चाप्यनुषेचनम् ॥
आदालीनां प्रवालानि तथा कटुकमत्स्यकम् ॥ १५१ ॥
सहदेवीं च तन्मात्रां दद्यात्ससहचरं तथा ॥
यवां क्षुद्रसहां चैव *समांसा तुलपा घृतम् ॥ १५२ ॥
धूपः स्यात्खदिराङ्गारैर्गुडेन च घृतेन च ॥
१घृतेन धूपयेन्नागं विषं तेनोपशाम्यति ॥ १५३ ॥
लोहं विषेण संसृष्टं वारणो यदि जिघ्रति ॥
विषघ्राणकृतं विद्यात्तस्य लिङ्गानि मे शृणु ॥ १५४ ॥

  • 'समांशां तुल्या धृताम्' इति कदाचिद्भवेत् ॥
    १ क. एतेन ।

१८८ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
शिरस्तालु च गृह्णाति दन्ते नेत्रेऽवतिष्ठति ॥
गण्डश्चास्याग्रहस्तश्च प्रतिपा( मा )नं तथैव च ॥ १५५ ॥
विवर्णं विषसंसृष्टं शूनं चैवोपजायते ॥
शोषयत्यपि देहं च नाभिनन्दति भोजनम् ॥ १५६ ॥
करं धुनोति दुःखार्तो लाला चास्य प्रवर्तते ॥
तस्य कर्म प्रवक्ष्यामि येन संपद्यते सुखी ॥ १५७ ॥
कपित्थफलमज्जानां वार्त्ताकानां फलानि च ॥
संसर्गांश्चापि(?) यत्पञ्च पृश्निपर्णी हरीतकीम् ॥ १५८ ॥
सिन्दुवारितमूलं च शैलुं चैव सपाटलाम् ॥
विभीतकं सखदिरं वटं सोदुम्बरं तथा ॥ १५९ ॥
लोध्रं ततः परं दद्यात्ततो देयोऽथ सारिवा ॥
मधुकं च समं कृत्वा सूक्ष्मचूर्णानि कारयेत् ॥ १६० ॥
चूर्णं प्रस्थामिदं कुर्याद्वारिकुम्भे समावपेत् ॥
एतत्तु पाययेन्नागं विषं तेनोपशाम्यति ॥ १६१ ॥
अंजनानि विषघ्नानि पाययेच्चानुषेचनम् ॥
मेहने पेचके चास्य श्वयथुर्दारुणो भृशम् ॥ १६२ ॥
अपानाच्छोणितं चास्य दृष्ट्वा तं वारणोद्भवे ॥
मुहुर्मुहुः संकुचति कृच्छ्रांन्मूत्रं च जायते ॥ १६३ ॥
शय्याभागे च कुड्ये च कटिं स परिघर्षति ॥
भवन्त्येतानि रूपाणि विषयुक्तेषु दन्तिषु ॥ १६४ ॥
त्रिफलां च समां कृत्वा उशीरं चोत्पलानि च ॥
मञ्जिष्ठां चैव रोध्रं च प्रियङ्गुं पद्मकं तथा ॥ १६५ ॥
सिन्दुवारितमूलं च सकरञ्जं रसाञ्जनम् ॥
कैदुमं चेन्द्रगोपांश्च सूक्ष्मचूर्णानि कारयेत् ॥ १६६ ॥
चूर्णान्येतानि संहृत्य घृतद्रोणे समावपेत् ॥
एतेन बस्तयो देयास्ततः संपद्यते सुखम् ॥ १६७ ॥
बस्तिदानं पुरस्ताच्च वक्ष्यते राजसत्तम ॥
प्रदेहैर्घृतसंयुक्तैर्गुदं शूनं प्रलेपयेत् ॥ १६८ ॥
१ क. सिन्धुवा० । २ क. ०या च सा० । ३ ख. ०मिमं कु० । ४ ख. ०च्छ्रान्मूत्रं ।
५ क. कुमुदं ।

१० सर्पदष्टाध्यायः ] हस्त्यायुर्वेदः । १८९
अगदं पाययेच्चैनं सर्पिःक्षौद्रसमन्वितम् ॥
अनया क्रियया नागः क्षिप्रं संपद्यते सुखी ॥ १६९ ॥
यवसानि विषघ्नानि रसं दुग्धं तथैव च ॥
भोजनं च विषघ्नं स्याद्यथोक्तं तस्य दापयेत् ॥ १७० ॥
विमुक्तं विषदोषाभ्यां बललब्धं च वारणम् ॥
स्नापयेन्मन्त्रपूर्वेण औषधैश्च विषापहैः ॥ १७१ ॥
उत्तरस्या दिशो भागे धनदो यत्र देवता ॥
मण्डलं पूर्वमालिख्य चतुर्हस्तं समन्ततः ॥ १७२ ॥
नागपुष्पमतं नागं नागराजान्समालिखेत् ॥
अग्निं प्रज्वाल्य विधिना *इमान्मन्त्रमु(आनु)पाहरेत् ॥ १७३ ॥
भारद्वाजीये स्वाहा स्वाहा स्वाहेति ।
निवेदयेद्बलिं चापि यथालाभेन बुद्धिमान् ॥
मन्त्रयुक्ताश्च औषध्यो नवकुम्भे विनिक्षिपेत् ॥ १७४ ॥
+सिद्धार्थकास्त्वचं कुष्ठं विदारी शतपत्रिका ॥
कटंकटा मित्रहस्ता सरलं देवदारु च ॥ १७५०॥
प्रियङ्गुं च समङ्गां च पतङ्गं रोचनावचाम् ॥
मर्कटीं चापि वाराहीं सारिवां समनःशिलाम् ॥ १७६ ॥
एतत्संभृत्य संभारं पञ्चगव्यसमन्वितम् ॥
कुम्भैर्नवैर्न कृष्णाङ्गैः सर्वबीजैरलंकृतैः ॥ १७७ ॥
लाजान्नानि विशुद्धानि सुवर्णं रजतं तथा ॥
स्नापयेत्सर्वसंभारैर्वैद्यो गत्वा जलाशयम् ॥ १७८ ॥
कुम्भैरुत्क्षिप्यमाणैश्च इमान्मन्त्रानुदाहरेत् ॥
ब्रह्मप्रोक्तादृषिप्रोक्तानाग्नेयांथ वार(रु)णान् ॥ १७९ ॥
नमो ब्रह्मणे, नमो रुद्राय, नमो विष्णवे, नमः स्कन्दाय, नम आदित्येभ्यः,
नमोऽग्नये, नमो वरुणाय, नम इन्द्राय, नमो देववारणऋषिभ्यः, नमो देवेभ्यः,
नमस्तेजःपतिभ्यः, नमो नागराजेभ्यः, नमः स्कन्देभ्यः, नमो नागमातृभ्यः ॥
एतेभ्यो हि नमस्कृत्या इमां विद्यां प्रयोजयेत् ॥
तां ब्रह्मानुमन्यताम् । आगच्छेश्वररूप सहस्रबाहो सहस्रशीर्षो ब्रह्म

  • 'इमं मन्त्रमुपाहरेत्' इति पाठो भवेत् ॥ + प्रथमान्तत्वेन द्वितीयान्तत्वेन
    वा सारूप्येणैव पाठो योग्यः । † 'नमस्कृत्य' इति भवेत् ।
    १ ख. काराहीं । २ क. ०र्नस्र्नै ।

१९० पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
भक्षर पुर पुर दह दह इमं विषं हन हन लिहि मिलि मिलं द्रुपदेयं कम्पं करे
उद्धरे हर हर चल चल वल वल चुलु चुलु स्वाहा। सिध्यन्तु मे मन्त्राः । पदा—
स्नातं हुताग्निर्नागेन्द्रं कृतमण्डल(*मुत्तमम् ।
अगदैस्तं प्रलिम्पेत्तु प्रशस्तैर्विषनाशनैः ॥ १८० ॥
नवैर्वस्त्रैः सुसंवीतं स्रग्दामभिरलंकृतम् ॥
पूजितं स्रग्विणं नागं ब्राह्मणान्स्वस्ति वाचयेत् ॥ १८१॥१४९९॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे(*महाप्रवचने महापाठे द्वितीये
क्षुद्ररोगस्थाने सर्पदष्टो नाम दशमोऽध्यायः ॥ १० ॥
अथैकादशोऽध्यायः ।
अतः परं प्रवक्ष्यामि) स्फोटिकासंभवोद्भवः ॥
आगन्तुदोषसंपातादिदं यत्तत्प्रकीर्तितम् ॥ १ ॥
विसर्पाः स्फोटिकाकाराः शरावाकृतयस्तथा ॥
शिरास्त्वङ्मांसरक्तानि दूषयित्वा यदैव हि ॥ २ ॥
पिटकाः श्वयथुः कुष्ठः सविसर्पविसर्पणः ॥
विसर्पवत्ससंसर्पन्सर्वेष्वङ्गेषु वर्तते ॥ ३ ॥
हस्तिनस्तद्विसर्पोऽयमुच्यतेऽग्निविषोपमः ॥
कृष्णरक्तारुणा धूम्नाः कठिनाः पिच्छिला व्रणाः ॥ ४ ॥
अग्निदग्धनिभाः स्फोटा जायन्ते रूक्षदारुणाः ॥
बीजपूरकसंस्थानाः शरावाकृतयस्तथा ॥ ५ ॥
वल्मीकाकृतयश्चैव नानासंस्थानचारिणः ॥
मण्डलैर्मन्दगैः कृष्णेर्दण्ड्याकारैः सुसंस्थिताः ॥ ६ ॥
गम्भीरमध्यश्रा(स्रा)विण्यो दाहकर्यो रुजात्मिकाः ॥
जिह्वाक्षिनाभिपृष्ठान्तःकण्ठकोष्ठाशिराः स्रुताः ॥ ७ ॥
मर्मश्रो(स्रो)तस्सु धमनीबस्तिसंधिषु चैव हि ॥
असाध्यान्निर्दिशेत्तांस्तु सर्वाङ्गेषु विचक्षणः ॥ ८ ॥
अन्यवर्णांस्तु मर्मस्था व्रणवत्तांस्तु साधयेत् ॥
पिटिका सविषा जाता कृच्छ्रेणेव प्रशाम्यति ॥ ९ ॥

  • धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥
    १ क. ०पाययित्वा य० । २ ख. सुसंस्थितिः ।

२१ स्फोटिकाध्यायः ] हस्त्यायुर्वेदः । १९१
तथा तिथिषु गुर्वीषु जाता कृच्छ्रेण सिध्यति ॥
उत्थिता सा तु सप्ताहान्त्रिसप्ताहान्तरेण वा ॥ १० ॥
विमथ्य सर्वगात्राणि गजं प्राणैर्विमोचयेत् ॥
लूताश्वानेन संस्थाना विसर्पस्फोटिकास्तथा ॥ ११ ॥
काश्यपस्य मतं बुद्ध्वा मम चैव मतं तथा ॥
मतिमान्कुशलो वैद्यो यथाशास्त्रमुपाचरेत् ॥ १२ ॥
सर्पदष्टविकारोऽस्मात्प्रायेण न विशिष्यते ॥
सर्पदष्टक्रियां सर्वां तस्मात्तत्रापि कारयेत् ॥ १३ ॥
भृशं विक्रियते नागो विकारैर्विषद्ष्टवत् ॥
हर्षहीनश्च भवति समुद्विग्नश्च वारणः ॥ १४ ॥
तथाऽक्षिभ्यां विचित्तश्च विषार्त इव गच्छति ॥
दुर्मना ध्यानभूयिष्ठः परिमूत्री भवत्यपि ॥ १५ ॥
क्षिपत्यङ्गानि च मुहुः कदाचिदुरमक्षिकः ॥
स्रस्तलाङ्गूलहस्तश्च नखवैवर्ण्यमृच्छति ॥ १६ ॥
ग्रासद्वेषी च भवति स्तिमितो गुरुविक्रमः ॥
रसादयो धातवो हि दोषाश्च पवनादयः ॥ १७ ॥
पञ्चभूतात्मके देहे सर्वत्र रसपोषणाः ॥
एवं विद्याद्विषक्तस्माद्धातुदोषाश्रयं विषम् ॥ १८ ॥
दोषधातुषु दुष्टेषु गजः प्राणैर्वियुज्यते ॥
विषोपयुक्तो दष्टश्च दिग्धविद्धोऽन्नपानतः ॥ १९ ॥
शारीरागन्तुकोपान्ता हेतवः संप्रकीर्तिताः ॥
धूपाञ्जनैस्तथा केचिद्व्यालसंस्पर्शदर्शनैः ॥ २० ॥
दशधा बहुधा केचिद्बुद्धिभेदैः पृथग्विधैः ॥
त्रिविधं शत्रुरिच्छामि तस्योत्पातांश्चतुर्विधाः ॥ २१ ॥
तस्य सामान्यतो दृष्टाः क्रियाः शास्त्रविशारदैः ॥
विषस्य कारयेत्प्राज्ञः सम्यक्शस्त्रैस्तथौषधैः ॥ २२ ॥
वशिष्टेनाभयं दत्तं पशूनां च विषात्किल ॥
स्फोटिकासंभवात्प्रायश्चतुश्चरणगामिनाम् ॥ २३ ॥
तस्मात्कदाचिद्दृश्यन्ते स्फोटिका द्विरदेष्वपि ॥
विषघ्नैस्ताः प्रशमयेत्तस्माच्चोगैर्भिषग्वरः ॥ २४ ॥
१ क. विमर्द्य । २ क. रणपो° । ३ क. °म्यक्शास्त्रै° ।

... [१ क्षुद्ररोगस्थाने-
लूताविषं कषायाभिः क्षारणस्योपजायते ॥
तस्य काश्यपनिर्दिष्टां चिकित्सामथ कारयेत् ॥ २५ ॥
ऊर्ध्वामादौ प्रभिन्नायां श्रुतिरुष्णा प्रवर्तते ॥
द्वितीयायां प्रभिन्नायां श्रोतोक्तं प्रवर्तते ॥ २६ ॥
पिटिका च भवेद्व्यक्ता मध्ये कृष्णं च मण्डलम् ॥
विषं च प्रवलं भूत्वा तृतीयां गच्छति त्वचम् ॥ २७ ॥
तत्र तन्दूरिवाऽऽभाति संतापश्चोपजायते ॥
मा गाम्भीर्य(?) भवेन्मध्ये दृष्टे नास्त्यत्र संशयः ॥ २८ ॥
चतुर्थीं तु त्वचं प्राप्य जायते तत्र कर्णिका ॥
तत्र रक्तं च मांसं च समन्ताद्व्यङ्गुलान्तरम् ॥ २९ ॥
उष्णं शूनमनुप्राप्तं विदूषयति वा त्वचम् ॥
पञ्चमीं तु त्वचं प्राप्य अस्थिसंस्थं विषं नृप ॥ ३० ॥
कर्णिकां कठिनां कृत्वा मेदस्त्व भजते विषम् ॥
षष्ठीं त्वचमनुप्राप्य कार्यं संदूषयेद्विषम् ॥ ३१ ॥
सप्तमीं तु त्वचं प्राप्य लूतानामुत्तमं विषम् ॥
कार्यं प्रविशति क्षिप्रं वायुना समुदीरितम् ॥ ३२ ॥
व्यथाभिर्वायुसंयुक्तः फेनो वाऽपि यथा भवेत् ॥
दर्शयत्याशु वेगेन गात्रेषु श्वयथुं यदा ॥ ३३ ॥
दृश्यते श्वपथुर्यस्य काकटिट्टिभसंनिभः ॥
श्रा( स्रा )वश्च जायते तीव्रो न स सिध्यति तादृशः ॥ ३४ ॥
भिन्नाञ्जनाभः प्रस्त्रावः प्रियङ्गुसदृशोऽपि वा ॥
वायसाङ्गारवर्णो वा सर्पिस्तैलनिभोऽपि वा ॥ ३५ ॥
निस्रवेद्यस्य गात्रेभ्यो न स शक्यश्चिकित्सितुम् ॥
काकाण्डा जलजा चैव लाँजा कर्णी सरोहिणी ॥ ३६ ॥
सलाङ्गूला तीक्ष्णविषा कुमुदिनी परं तथा ॥
वैदेही चेति व्याख्याताः सर्वा ह्येता महाविषाः ॥ ३७ ॥
सर्वेषु संभवन्त्येताः प्रदेशेषु नराधिप ॥
विशेषान्मस्तकेष्टीकास्तनगण्डकटाक्षिषु ॥ ३८ ॥
१ क. लूतादोषं । २ ख. प्रस्तावः । ३ ख. काकाण्डी । ४ क. लाजकेणी
स° । ५ क. °हीति च व्या° ।

१२ अपवादबद्धाध्यायः ] हस्त्यायुर्वेदः । १९३
स्तनान्तरेऽण्डकोशेषु तल्पेषु च प्रतिक्रिया ॥
मर्मसंधींश्च संत्यज्य दंशं छिन्द्यादसंशयः ॥ ३९ ॥
न तु दंशं भिषग्यस्तु नोद्धरेन्न च तं दहेत् ॥
अज्ञानात्स भिषग्राजन्दन्तिनो विनिपातयेत् ॥ ४० ॥
एता महाविषा लूतास्तूर्णं प्राणान्हरन्त्यपि ॥
कामं मन्दविषाश्चापि तस्माच्छीघ्रमुपाचरेत् ॥ ४१ ॥
यस्तु * मांसमतिक्रान्तदंशो नोत्कृत्यते प्रभो ॥
विशेषमाश्रिते चापि सा निहन्तीह हस्तिनः ॥ ४२ ॥ १५४१ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररो-
गस्थान एकादशः स्फोटिकाध्यायः ॥ ११ ॥
अथ द्वादशोऽध्यायः ।
अथातोऽपवादबद्धमध्यायं व्याख्यास्यामः—
इति ह स्माऽऽह भगवान्पालकाप्यः ॥
अथ खलु भो दारुणेषु तिथिमुहूर्तेषु नक्षत्रेषु वा बद्धः 'अपवादबद्धः' इत्युच्यते ॥
स भवति नीलवर्णः संरब्धो गुरुगात्रापरो दुर्मनाः किंचिद्भक्ष्यमादत्ते । तम-
साध्यं विद्यात् ॥
तस्मात्—उग्रदारुणेषु तिथिमुहूर्तनक्षत्रेषु न ग्राह्याः । प्रशस्तेष्वपि ग्रहोप-
सृष्टेषु पक्षच्छिद्रेषु सर्वकालं च संध्यासु हस्तिनो न ग्राह्याः । किं कारणम्—
लक्षणव्यञ्जनोपपन्ना अपि प्राणवन्तो व्यापद्यन्त इति ॥
तत्र श्लोकौ—
स्तिमितो गुरुहस्तश्च संरब्धो वर्णतो भवेत् ।
नीलः श्यावो ह्यबलवानेष नागो विपद्यते ॥
मुहूर्ते तिथिनक्षत्रे प्रशस्ते ग्राहिता गजाः ।
भवन्ति कर्मणां योग्या बलवन्तो निरामयाः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थानेऽ-
पवादबद्धो नाम द्वादशोऽध्यायः ॥ १२ ॥

  • मासमतिक्रान्त इति पाठो भवेत् ।
    १ ख. तल्पलेषु श्व(य)थुं प्र° । २ क. ख. °न्तिनां वि° । ३ ख. °हूर्तन° ।
    २५

१९४ पालकाप्यमुनिविरचितो— [ १ क्षुद्ररोगस्थाने ]
अथ त्रयोदशोऽध्यायः।
अथाङ्गपतिरमरपतिसदृशं कनकेन्द्रनीलवज्रवैदूर्यविविधविमलमणिरुचिरवि-
चित्रप्रभाभिरुद्द्योतितरुचिरगात्रोऽभिगम्यानिलबलाभिधूतरुचिरकुसुमनिकररु-
चितोपहारे बहुविधमृगविहगगणनिषेविते सर्वसत्त्वाभिगमनीये सुखोपविष्टमाश्र-
मेऽतिरमणीयेऽसितमृगाजिनवसनं तडिदनलदिनकरकिरणसदृशवपुषं भगवन्त-
मभिवाद्य पालकाप्यं विनयेन कृताञ्जलिरिदं पप्रच्छ रोमपादः—'कथमयं पूर्वबद्धो
नाम व्याधिरुत्पद्यते, किं लक्षणम्, किं चास्य चिकित्सितम्' इति ॥
ततः—प्रोवाच भगवान्पालकाप्यः—'श्रूयतां महाराज यथा पूर्वबद्धः,
यच्चास्य चिकित्सितम् ॥
पूर्वबद्धो नाम 'अबद्धः पूर्वे वयसि' इति 'पूर्वबद्धः' इत्युच्यते । अयं तु
मानसो व्याधिरूपः प्राणहरो गजस्य, ऋते मोक्षात्, अरण्यगमनाद्वाऽसाध्यः॥
स तु मनस्वी प्राप्तैश्वर्यः प्रमाथी यदृच्छाचारी वनसुखानां रसज्ञः ॥
अथ वसन्ते—परमान्तरितविविधसुरभिरुचिरकुसुमेषु सहकारबकुलतिलकवि-
दुलशालवञ्जुलतमालतालीशप्रियालाङ्कोल्लशिरीषकर्णिकारपाटलाकुरुबक-
करवीरकिंशुकाशोकनवमालिकाकुन्देन्दीवरकिंकिराततिन्दुकपुंनागनागचम्प-
कातिमुक्तशोभाञ्जनपारिजातकाम्रातकाशमन्तकप्रियङ्गुवरुणककदम्बविविधतरु-
कुसुमनिकरसुगन्धाधिवासितेषु मत्तभ्रमन्मधुकरशुकसारिकापरिवृतबर्हिणविवि-
धविहगगणनिनादितेषु करिवरकरचरणदशनविधृतबहुविधतरुकुसुमफलेषु
विकचपुष्पमन्दारुतोपगीतनृत्यमानलतामण्डितवनांवरभवनेषु बहुविधकुसु-
मगन्धाधिवासितेन दक्षिणपवनेनोदीर्यमाणमदना द्विरदवरा अलिकुलपटलाञ्जुना-
दितकपोलाः करेणुसहिताः स्वच्छन्दतः स्थानशय्यासनसहिता रसितप्रक्ष्वेलित-
विघट्टतर्लितालिङ्गितचुम्बितोद्विग्नकुपितप्रैसारितानेकरसा विविधतरुपत्रपुष्पफ-
लभृङ्गकवलकुवलयपल्लवकन्दमूलपवसफलोपभोगा नानाविधानां नदीसरस्तडा-
गानां च विमलविपुलरुचिरसलिलप्रतिपूर्णानां सूर्याशुबोधितसारसानां हंसकुर-
रकारण्डवचक्रवाकसारसबकलावकामद्गुमल्लिकारुयानुनादैरुपशोभितानां क-
मलकुमुदकुवलपालंकृतानां कचिद्वनानां वसन्ते सुखमनुभवन्ति । स तेषामनु-
स्मरेत् ॥
तत्र श्लोकाः—


  • 'प्रसादित' इति भवेत् ॥

१ ख. ॰नस्यो वाऽऽधि॰ । २ क. ॰मन्दारमा॰ । ३ ख. ॰ङ्ककप॰ । ४ ख.
॰कुव॰ । ५ क. ॰नुसेवेत् ।

१२ पूर्वोक्ताध्यायः ] हस्त्यायुर्वेदः १९५
वृक्षवल्लीलतागुल्मान्वारणैः परिघट्टितान् ।
मन्दगन्धमलोभेन नैवं मुञ्चन्ति षट्पदाः ॥
तच्च नागवनं नागाङ्गनानागवनं च तत् ।
पुष्पैश्च मदगन्धैश्च वासयन्तीतरेतरम् ॥
काचित्करेण संवेष्ट्य दन्तं नागस्य दन्तिनी ।
आत्मनो मन्मथावस्थां शंसतीव सुविह्वलाम् ॥
आदाय करिणी काचित्करेण करिणः करम् ।
हस्तिनः क्ष्वेडितैर्भावान्कुरुते मदनातुरा ॥
कामाग्निपरितप्तानि तान्यङ्गानि च वारणः ।
प्रियासंगमतोयेन निवारयितुमिच्छति ॥
काचिन्नागस्य मातङ्गी पुरः स्थित्वा समन्मथा ।
करोति करनिक्षेपं करिणः कामदीपनम् ॥
चिरकालप्रनष्टस्य कोकिलस्य नवं रुतम् ।
श्रुत्वा करेणुभिः सार्धं स्मरन्नागो न जीवति ॥
वसन्ते चित्रपुष्पाणां सुगन्धानां नराधिप ॥
वनानां संस्मरन्नागः प्राणांस्त्यजति दुःखितः ॥
भ्रमद्भ्रमरसंघेषु कोकिलाकुलशालिषु ।
लतागृहेषु रम्येषु वनानां विवरेषु च ॥
रतं यत्प्रियया सार्धं विहितं च पृथग्विधम् ।
एतेषां संस्मरन्नागः प्राणांस्त्यजति दुःखितः ॥
अथ ( ग्रीष्मे — ) क्वचिद्दिनकरकिरणाभिसंतप्तमेदिन्यां निष्पीतरसास्वौष-
धिषु गुरुशपदहनपरिगतमृगतृष्णिकाप्रतितप्तेष्वरण्येषु, अनेकभृङ्गोरावानादित-
मूलेष्वनेककोटरार्धनिःसृतभुजङ्गलेलिह्यमानशोषेषु तरुषु, धूपायमानास्विवाति-
रौद्ररूपं बिभ्रतीषु दिक्षु, पिपासोपहारहेतोर्गिरिगुहाकृतावस्थितिषु ( ✽ तरुषु )
कुरङ्गशावकेषु, वृक्षशालावलीनेषु नैकशो धर्माभितापसंभ्रमसंतप्तश्वापदेषु तरुबर्हि-
णपरभृतशुकसारिकाविविधविहंगगणसंघेषु शाखामृगखड्गवराहमहिषरुरुहरिण-
चमरवृषभरभमवयेषु, अङ्गारचूर्णनिकरोपमैर्दिनकरकिरणैर्दह्यमानशरीरेषूदक-
✽ पश्चात्पतित इव भाति ॥
१ क. ॰रेणः सं॰ । २ क. ॰ङ्गारावनादोन्ना॰ । ख. ॰ङ्गारीनादोन्ना॰ ।
३ ख. ॰मूल्येष्व॰ । ४ क. ॰निःश्रित॰ । ५ क. ॰शाखिषु । ६ ख. ॰लीलेषु ।
७ क. ॰हगतगते सं॰ । ८ ॰खङ्गिव॰ ।

१९६ पालकाप्यमुनिविरचितो- [ १ क्षुद्ररोगस्थाने-
मभिलषत्सु, सिंहव्याघ्रद्वीपिवरक्षक्षनेकश्वापद्दिनावितासु सपटहासिव गिरि-
वरदरीषु, परिशुष्यमाणोदरासु गिरिनदीषु, प्रियवियोगदुःखक्षीणास्विव कामि-
नीषु, तदाऽतिरोद्रे काले हस्तिनो महानदीनां हिमस्पर्शविमलसुरभिसलिलनि-
चयपरिपूर्णेषु महाह्रदेषु सरःस्वपि च विविधकुसुमबिसमृणालपुष्करबीजसंव-
र्तकोपभोगाः स्वच्छन्दतः करेणुकलभविष्कपोतकैरनेकधा परिचर्यमाणा आकर्ष-
णविक्षोभणोन्मज्जनपरिप्लवनतरणसलिलपङ्कहरि(र)णप्राभिघातक्रीडनविमर्द-
नरमणीयं विविधसुखमन्वभवन्ति सलिलेषु, सूर्यरश्मिप्रबोधितेषु(?)मीनजा-
लसंघट्टितेषु मारुतेन कंपितेषु षट्पदोपगुञ्जितेषु रुचिरकनकचूर्णसदृशरजो-
विकीर्णेषु हरितमणिवर्णकर्कशनालेषु बालसूर्यवर्णपर्णेषु पद्मषण्डेषु करेणुकल-
भपोतिकाभिः सह विहरणक्रीडनपांसुहरणाहारशपनानां(?) चन्द्रप्रभदीपिकासु
च शर्वरीषु सुरभिकुसुमगन्धवहैर्मृदुशिशिरपवनैरनुवीज्यमानाः प्रत्यूषप्रदोषार्ध-
रात्रिषु विचरन्ति । स तेषामनुस्मरन् ॥
तत्र श्लोकाः—
क्षोभयन्ति नदीमन्ये वप्रानिन्भन्दन्तं चापरे ।
प्रियाभिः सहिताश्चान्ये चरन्ति कलभैः सह ॥
पङ्कचन्दनदिग्धाङ्गाः शाखाप्यजनवीजिताः ।
सरःसु शीततोयेषु चरन्ति सह धेनुभिः ॥
धौतमुक्तफलोद्गारैः करैः शीकरवारिभिः ।
धेनुभिस्तेऽभिषिच्यन्ते कामार्तांस्तु मतङ्गजाः ॥
सूर्यरश्मिप्रतीकारं तेषां कुर्वन्ति धेनुकाः ।
उद्दण्डैः सहसोद्भूतविशालोत्फुल्लपङ्कजैः ॥
एवं निदाघकालेषु क्रीडितानामनुस्मरन् ।
ग्रामे बद्धो महाराज न जीवति मतङ्गजः ॥
प्रावृषि च परमसुरभिसलिलुलुलितपृषतधरणीतलगन्धानां कदम्बकेतकस-
र्जार्जुननीपवकुलशिलीन्ध्राजकर्णाभीरुकन्दलाधिवासितानां कुटजकुसुमप्रहसित-
प्रदीपितवनषण्ड़ानाम्, असितघनपटलसंछन्ने गगनतले चातकदर्दुरपरभृत-
शिखिगगनानुनादिते, हरितशिष्ये(?)न्द्रगोपकालंकृतायां वसुमत्यों कन्या-
यामिव शुकपत्रसदृशवसनायाम्, उद्योतिततपनीयभूषणायाम्, खद्योतप्रदीपि-

  • हरितशष्पेन्द्रगोप—इति पाठो भवेत् ।
    १ क. ख. ॰झण्डे॰ । २ क. ॰मुक्तं फ॰ । ३ क. ॰छन्नग॰ । ४ क. ॰पदाय॰ ।