हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 204, कुल 742 में से
संदर्भ में पढ़ें१० सर्पदष्टाध्यायः ] हस्त्यायुर्वेदः । १८५
ततो विर(रि)क्तदोषं तु सेचयेद्वारिणं भिषक् ॥
अगदं पाययेच्चैनं पूर्वमुक्तं गजं ततः ॥ ११३ ॥
शिरश्च पीड्यते चास्य कराच्छ्लेष्मा प्रवर्तते ॥
मुखाच्च लाला श्र(स्र)वति वमथुश्च मुहुर्मुहुः ॥ ११४ ॥
इमं तत्र विधिं कुर्यात्क्षिप्रमेव विचक्षणः ॥
*श्वेतां ज्योतिष्मतीं पाठां सुवहामथ वारुणीम् ॥ ११५ ॥
सुनन्दां लावनन्दां च विडङ्गं चाष्टमं भवेत् ॥
एतानि समभागानि कल्कपिष्टानि कारयेत् ॥ ११६ ॥
(†आन्तरिक्षेण पयसा वाससा च परिश्रु(स्रु)तं ॥
द्वयाढकं त्र्याढकं वाऽपि तं रसं पाययेद्भिषक् ॥ ११७ ॥ )
शिरो विरिच्यते तेन विषं चास्योपशाम्यति ॥
द्वयाढकं घृतमण्डस्य विर(रि)क्तशिरसस्तथा ॥ ११८ ॥
अनुषेकं पुनः कुर्यात्ततः स लभते सुखम् ॥
अञ्जनं च ततो दद्याद्येन संपद्यते सुखी ॥ ११९ ॥
मनःशिलां त्रिकटुकं हरितालं रसाञ्जनम् ॥
कतकं सैन्धवं चैव मधुकं च समं घृतम् ॥ १२० ॥
क्षौद्रेण सह संयोज्य श्लक्ष्णं दृषदि २पेषयेत् ॥
राजीमता तु दष्टस्य गजस्य हितमञ्जनम् ॥ १२१ ॥
अश्वकर्णकषायस्य कर्णिकारार्जुनस्य च ॥
तृतीयं बृहतीबीजमेते भागास्त्रयः समाः ॥ १२२ ॥
अर्धभागस्तु रालायाः सुनन्दापास्तथैव च ॥
क्षौद्रेण सह संयोज्य अञ्जनं सांनिपातिके ॥ १२३ ॥
अथवाऽञ्जितमात्रस्य सेचयेद्वारिणा शिरः ॥
कुर्याच्छिरस्यावाक्षोतं प्रदेहैश्च प्रदेहयेत् ॥ १२४ ॥
इत्येतत्सर्पदष्टस्य लक्षणं सचिकित्सितम् ॥
अङ्गराजस्ततो भूपः पालकाप्यं स्म पृच्छति ॥ १२५ ॥
आञ्जते विषपीते च धूपगन्धानुवासिते ॥
४सँविषे कुञ्जरे रूपं भगवन्वक्तुमर्हसि ॥ १२६ ॥
*लावनन्दान्तानां प्रथमान्तत्वं युक्तम् । † धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥
१ ख. ॰तः सुल॰ । २ ख. पीषयेत् । ३ क. ॰तमुत्तमम् । ४ क. सविषं ।
२४