हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 206, कुल 742 में से
संदर्भ में पढ़ें१० सर्पदष्टाध्यायः ] हस्त्यायुर्वेदः । १८७
शर्करां मधुकं चैव घृतेन सह संसृजेत् ॥
अञ्जनं तेन कार्यं स्यात्ततः संपद्यते सुखी ॥ १४१ ॥
आजस्य पयसः प्रस्थं कर्षंश्च मधुकस्य च ॥
कर्षं किंशुकपुष्पाणां पद्मपुष्पं तथैव च ॥ १४२ ॥
शर्करायाः पलं दद्याद्यवानां प्रसृतिं तथा ॥
प्रस्थेन चान्तरिक्षस्य संसृष्टं पाचयेच्छनैः ॥ १४३ ॥
यदा तु परिपक्वं स्यादथैनमवतारयेत् ॥
एतेन शीतलेनास्य चक्षुषोः परिषेचनम् ॥ १४४ ॥
अनेन परिषेकेन नागः संपद्यते सुखी ॥
विषाच्च मुच्यते क्षिप्रं चक्षुश्चास्य विशुध्यति ॥ १४५ ॥
अत ऊर्ध्वं प्रवक्ष्यामि विषपीतस्य लक्षणम् ॥
गण्डौ हस्तस्तथा तालु मुखं च परिशुष्यति ॥ १४६ ॥
प्रतिगृह्णाति वातं च दह्यमानो मुहुर्मुहुः ॥
न शृणोति च कर्णाभ्यां चक्षुषा च न पश्यति ॥ १४७ ॥
मुखतः पुष्कराच्चास्य श्लेष्मा गच्छति पिच्छिलः ॥
न च वेदयते गन्धं विषवेगप्रपीडितः ॥ १४८ ॥
प्रस्थितश्चापि निर्वाणं गजः सत्त्वरजोधकम् ॥
जलं प्रवाञ्छते क्षिप्रं गन्तारमविदन्नयम् ॥ १४९ ॥
उदकस्पर्शनाच्चैव नागः संपद्यते सुखी ॥
तस्य पीतेन शीतेन लाला च स्पन्दते शनैः ॥ १५० ॥
अञ्जनं च प्रदेहश्च तथा चाप्यनुषेचनम् ॥
आदालीनां प्रवालानि तथा कटुकमत्स्यकम् ॥ १५१ ॥
सहदेवीं च तन्मात्रां दद्यात्ससहचरं तथा ॥
यवां क्षुद्रसहां चैव *समांसा तुलपा घृतम् ॥ १५२ ॥
धूपः स्यात्खदिराङ्गारैर्गुडेन च घृतेन च ॥
१घृतेन धूपयेन्नागं विषं तेनोपशाम्यति ॥ १५३ ॥
लोहं विषेण संसृष्टं वारणो यदि जिघ्रति ॥
विषघ्राणकृतं विद्यात्तस्य लिङ्गानि मे शृणु ॥ १५४ ॥
- 'समांशां तुल्या धृताम्' इति कदाचिद्भवेत् ॥
१ क. एतेन ।