हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 196, कुल 742 में से
संदर्भ में पढ़ें१० सर्पदष्टाध्यायः ] हस्त्यायुर्वेदः । १७७
व्रणे तु पूतिमांसानि मण्डलाग्रेण शोधयेत् ॥
शुद्धं व्रणमदुर्गन्धमविवर्णमवेदनम् ॥ ३४ ॥
उत्तानं स्थिरमन्तेषु प्रस्तब्धं च नराधिप ॥
शून्यं श्वयथुदाहाभ्यां निर्विकारं विनिर्देशेत् ॥ ३५ ॥
दिग्धेना१भिहते मागे तथोष्ट्रखरवाजिनाम् ॥
व्रणं बुध्येत मेधावी गोषु चाश्वतरेषु च ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥ ३६ ॥ १३१८ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने वृद्धपाठे द्वितीये २क्षुद्ररो-
गस्थाने दिग्धविद्धो नाम नवमोऽध्यायः ॥ ९ ॥
अथ दशमोऽध्यायः ।
अङ्गो हि राजा चम्पायां सुमनस्कं महामुनिम् ॥
विनयेनोपसंगम्य पालकाप्यं स्म पृच्छति ॥ १ ॥
दुष्टाश्च विषपीताश्च दूषिताश्च मतङ्गजाः ॥
संग्रामे दिग्धविद्धाश्च विषवेगप्रपीडिताः ॥ २ ॥
एवंविधाश्च ये केचित्प्रामोच्यन्ते हस्तिनो द्विज ॥
सर्वेषां सविषाणां तु चिकित्सां वक्तुमर्हसि ॥ ३ ॥
तस्प तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥
पञ्चभिः कारणैः सर्पा दशन्ति पृथिवीपते ॥ ४ ॥
वक्ष्याम्युद्देशमात्रेण तद्ग्राह्यमनुमानतः ॥
दशन्ति कुपिताः केचित्केचिदाहारकाङ्क्षया ॥ ५ ॥
भीताः केचिद्दशन्त्याशु केचिदन्ये यदृच्छया ॥
मृत्युभूता दशन्त्यन्ये विधानविहितान्गजान् ॥ ६ ॥
३त्रिविधं दंष्ट्ररूपं तु भुजङ्गेषु प्रकीर्तितम् ॥
दष्टं दष्टनिपीतं चं दष्टोद्धृत्तं तथैव च ॥ ७ ॥
दंष्ट्वा तु कश्चिद्भुजगो व्यपक्रामति वेगतः ॥
संक्रामेद्द्विषभागस्तु दष्टं तत्त विनिर्देशेत् ॥ ८ ॥
१ क. ॰नातिह॰ । २ क. ख. कुक्षिरोगस्थाने । ३ क. दष्टरूपं । ४ क. तु ।
५ क. दष्ट्वा ।
२३