सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 197, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 197

३७८ पालकाप्यमुनिविरचितो— [१ क्षुद्ररोगस्थाने-
दंष्ट्वा तु सर्पो यस्तत्रे पिवेदङ्गनिपीडितम् ॥
दष्टं तच्चानुबोद्धव्यं विषभागस्तु संचरेत् ॥ ९ ॥
दष्ट्वा यदि विलम्बी स्यान्निपीतमिति तत्स्मृतम् ॥
विषस्य भागौ द्वावत्र अर्धभागश्च संचरेत् ॥ १० ॥
दष्ट्वा भृशं तु यः सर्पः क्षिप्रमेव प्रवर्तते ॥
दंष्ट्रापातनिषेकेण कुरुते यत्र मोक्षणम् ॥ ११ ॥
दष्टमुद्धर्तितं विद्यात्तत्र भागत्रयं व्रजेत् ॥
मात्राणां शतमात्रं तु तिष्ठन्त्यादंशमाश्रितम् ॥ १२ ॥
ततः शरीरे क्रमते विषं वायुरिवाम्बरे ॥
न ह्यत्र विहितं किंचित्सुखं दुःखं शरीरिणाम् ॥ १३ ॥
तेषां तु खलु सर्वेषामुपसर्गः पृथग्विधः ॥
वक्ष्याम्युद्देशमात्रेण तद्ग्राह्यमनुमानतः ॥ १४ ॥
चतुर्विधास्तु निर्दिष्टाः पँन्नगा मुनिना पुरा ॥
दर्वीकरा मण्डलिनो राजिलास्तु पताकिनः ॥ १५ ॥
तेषां रूपाणि वक्ष्यामि वीर्यं चैव पृथक्पृथक् ॥
दर्वीकरा महाभोगा दीप्ताग्निसमतेजसः ॥ १६ ॥
शीघ्राः फणकराश्चण्डाः कृष्णसर्पादयः स्मृताः ॥
क्षिप्रमेषां विषं काये कक्षाग्निरिव वर्धते ॥ १७ ॥
वातिकं तु विजानीयाद्विषं दंष्ट्राश्रितं भिषक् ॥
प्रशाम्यति तु तत्क्षिप्तं मन्त्रैरन्यैस्तथौषधैः ॥ १८ ॥
तद्धि सत्यं विषं प्राहुः समर्यादं मनीषिणः ॥
अफणा मण्डलैश्र्चित्रैर्ये तु केचिद्भुजंगमाः ॥
एणीपदादयः सर्वे ते तु·मण्डलिनः स्मृताः ॥
तेषां मन्दं विषं भूत्वा ततो भवति दारुणम् ॥ २० ॥
तत्र मन्त्रौषधैर्यत्नात्पैत्तिकं बाध्यते विषम् ॥
अफणा दर्शनीयाश्च दीर्घराजिभिरावृताः ॥ २१ ॥
श्वेतगन्धादयः सर्वे राजिलाः कीर्तिता नृप ॥
विषं न वर्धते तेषां विषमं चोपलभ्यते ॥ २२ ॥


१ क. दृष्ट्वा । २ क. ॰त्र यं पिवेदङ्गपी॰ । ३ क. तत्त्वं तु बो॰ । ४ क.
यन्नगा । ख. पन्नगा । ५ क. ख. शीघ्रा फणाक॰ ।