सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 198, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 198

१० सर्पदंशाध्यायः ] हस्तिहस्त्याययुर्वेदः । १७९
राजिलानां भुजङ्गानां विषं श्लेष्मणपं भवेत् ॥
अफणास्त्वेकवर्णाश्च पन्नगा ये पताकिनः ॥ २३ ॥
राजिमद्भिः समं तेषां विषं समवतारयेत् ॥
एषामन्योन्यसंसर्गात्प्रविभागाद्विशेषतः ॥ २४ ॥
जायन्ते पन्नगाः सर्वे ते च कृच्छ्रतमाः स्मृताः ॥
आदेशेनैव जानीयात्स्र्पदष्टं मतङ्गजम् ॥ २५ ॥
निमीलयति नेत्रे च व्रजन्गात्राणि कर्षति ॥
अक्षिकूटे च वर्धेते वर्त्मनी चापि दन्तिनः ॥ २६ ॥
चिरं क्षतानि चाप्यस्य स्फुटन्ति सहसा नृप ॥
निषीदत्यपराभ्यां च प्रोहाभ्यां प्रपतत्यपि ॥ २७ ॥
स्तम्भे बद्धस्तु मातङ्ग आलानेन दृढेन च ॥
उद्ध्रान्ति च दुःखार्तो दंशदेशं स्पृशत्यपि ॥ २८ ॥
मन्दं भोजनमश्नाति यवसं मन्दमेव च ॥
अधोगता भवत्यस्य दृष्टिर्नागस्य पार्थिव ॥ २९ ॥
दर्वीकरापदष्टानामेतद्भवति लक्षणम् ॥
अथ मण्डलिदष्टस्य शृणु रूपं नराधिप ॥ ३० ॥
परिशुष्येद्यदा दंशो धूप्यते परिदह्यते ॥
निद्रा बलवती यस्य कम्पते च पुनः पुनः ॥ ३१ ॥
पूतिमूत्रपुरीषश्च श्वयथुश्चाप्युदीर्यते ॥
व्रणाश्चापि विदीर्यन्ते तृष्णा चैनं प्रबाधते ॥ ३२ ॥
तृष्णार्तस्य च नागस्य लक्षणं यत्प्रवर्तते ॥
निर्वाणं नीयते यत्र तं देशं प्रतिजिघ्रति ॥ ३३ ॥
आर्द्रं वा परिशुष्कं वा तृणमिक्षुमथापि वा ॥
पिपासया समाक्रान्त आहारं नाभिनन्दति ॥ ३४ ॥
अनेन विषवीर्येण क्षिप्रमेव विदीर्यते ॥
एवं मण्डलिदष्टस्य लक्षणं च प्रकीर्तितम् ॥ ३५ ॥
राजीमतां विषं घोरं यदा देहे प्रवर्तते ॥
श्वयथुर्हस्तकर्णेऽस्य लाला प्रस्पन्दते तदा ॥ ३६ ॥
आटोपो लक्ष्यते चास्य विह्वल चापि गच्छति ॥
श्वेतमूत्रपुरीषश्च यथा ह्यन्धस्तथा स्खलन् ॥ ३७ ॥
१ क. °वचार° । २ क. °लिद्दष्ट° ।