हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 205, कुल 742 में से
संदर्भ में पढ़ें१८६ पालकाप्यमुनिविरचितो- [१ क्षुद्ररोगस्थाने-
एवमुक्तस्तु भगवान्पालकाप्यस्ततोऽब्रवीत् ॥
विषाक्षितस्य नागस्य इदं भवति लक्षणम् ॥ १२७ ॥
वेदना च विषार्तस्य पटलश्चोपजायते ॥
अक्षिणी घर्षयेच्चापि हस्तेन कवलेन वा ॥ १२८ ॥
दोषप्रच्छन्ननेत्रश्च विषवेगमपीडितः ॥
नेत्राभ्यामथ हृन्ना(क्षो)भ्यां नागो न लभते सुखम् ॥ १२९ ॥
हस्तं प्रगृह्य दुःखार्तो क्रोधमारभते मुहुः ॥
वर्त्मानि चास्य शीर्यन्ते वर्त्मशोफश्च जायते ॥ १३० ॥
स्थानेनावस्थितस्यापि बन्धलो भवति द्विपः ॥
प्रवेपते प्रव्यथते लाला चास्य प्रवर्तते ॥ १३१ ॥
तस्य कर्म प्रवक्ष्यामि यथा संपद्यते सुखी ॥
अञ्जनानि विषघ्नानि यानि स्युस्तैस्तथाञ्जनम् ॥ १३२ ॥
सिञ्चेच्छृतेन चैवैनं शीतलेन यथासुखम् ॥
यथोक्तम गदं चैनं सर्पिःक्षीरसमन्वितम् ॥ १३३ ॥
पाययेन्मधुसंयुक्तमनुषेकं च दापयेत् ॥
कुर्याच्चिरस्पवाश्चातं ततः संपद्यते सुखी ॥ १३४ ॥
अयमेतेन संपद्येद्योगेन मनुजाधिप ॥
योगमन्यं प्रवक्ष्यामि येन संपद्यते सुखी ॥ १३५ ॥
गृहीत्वा कृष्णसर्पस्य दुष्टाहैर्वा शिरस्तथा ॥
क्षिप्त्वा श्रो(स्रो)तोञ्जनं वाऽस्य ततो मृद्वग्निना पचेत् ॥१३६॥
तावत्तदञ्जनं यावत्तस्य भागोऽष्टमो भवेत् ॥
*पिप्पली तन्दुला श्वेतां पुराणामथ वारुणीम् ॥ १३७ ॥
सुनन्दां पालनन्दां च विडङ्गं चाष्टमं तथा ॥
बृहत्या रसनिर्यासे कपित्थस्य रसेऽपि वा ॥ १३८ ॥
पिष्ट्वा तु गुटिकां कृत्वा छायायां परिशोषयेत् ॥
सुबद्धमक्षयेन्नागं शनैर्न व्यथते यथा ॥ १३९ ॥
मुहूर्तं स्थापयित्वा च घृतमण्डेन तर्पयेत् ॥
चक्षुर्भ्यां स यदा पश्येत्पटलं विगतं भिषक् ॥ १४० ॥
- द्वयोर्द्वितीयान्तत्वं युक्तम् ।
१ क. विषाञ्जनस्य। २ क. ०णी वर्धये०। ३ क. वर्ष्माणि। ४ क. वर्ष्मशो०।
५ क. ०सुखम् । ६ ख. ०पश्येद्यो० ।