गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
१ कण्डिका ] गोभिलगृह्यसूत्रे- १५
पनं तदनु पोषणं (रक्षणं) (१) च कुर्वीत । इदञ्चाधानमग्रजे क्लीबत्वादिदोषरहिते
तदैव कार्यं, यदासौऽनुमन्यते नान्यथा । तथा चोक्तं शङ्खेन--
अग्रजः स्याद्यदाऽनग्निरधिकार्यनुजः कथम् ? ।
अग्रजानुमतः कुर्यादग्निहोत्रं यथाविधि” ।।
इति पितर्य्यनग्नावपि पुत्रस्याधानाधिकारोन विहन्यते तथाचोक्तं तेनैव(श०)
“पितुर्यस्य न चाधानं कथम्पुत्रस्तु कारयेत् ? ।
अग्निहोत्राधिकारोऽस्ति शङ्खस्य वचनं यथा” ।।
आधानपरिपाटी चाचार्य्येणानुक्ताऽपि-
“परिधायाऽहतं वासः प्रावृत्य च यथाविधि” इत्येवमादिकर्म्मप्रदीपवच-
नेभ्य एवावगन्तव्यन्त्रत्वध्वर्य्युभ्योगृहीतव्यम् । परोक्त(२)त्वात् । वा शब्दद्वयं
तुल्यवद्विकल्पार्थम् । इति भाष्यकृतः । वस्तुतस्तु । कालविलम्बस्य सोढुमयो-
ग्यत्वात् यदा तदा वा झटिति समाधान(३)मग्नेः कुर्वीतेति-अनास्थायामप-
रोवाशब्दः ॥ १४ ॥
र्य्याकाङ्क्षायामाह कर्मप्रदीपः--“नैकयाऽपि विना कार्य्यमाधानं भार्यया द्विजैः । अकृत-
न्तद्विजानीयात्सर्वा न त्वारभन्ति यत्” इति । अत्र विशेषमाह-कात्यायनः--
“वर्णज्यैष्ठ्येन बह्वीभिः सवर्णाभिश्च जन्मतः ।
कार्यमग्निच्युते नाभिः साध्वीभिर्मन्थनं पृथक् ।।
नात्र शूद्रां नियुञ्जीत न द्रोहद्वेषकारिणीम् ।
नाशासनस्थां नान्येन पुंसा च सह संगताम् ।।
ततः शक्तिवरा पश्चादासांमान्यतमैव या ।
उपेतानाञ्चान्यतमा मन्थेद्वाग्निं निकामतः ॥” इति ॥
( १ ) दधातेर्द्धारणपोषणोभयार्थत्वस्मरणात् । पोषणमत्र संरक्षणन्दधातेरर्थः ।
( २ ) परोक्तत्वेनाक्रियात्वात् । तथाचच्छन्दोगपरिशिष्टम्-
“अक्रिया त्रिविधा प्रोक्ता विद्वद्भिः कर्म्मकारिणाम् ।
अक्रिया च परोक्ता च तृतीया चायथाक्रिया ।।
स्वशाखाश्रयमुत्सृज्य परशाखाश्रयञ्च यः ।
कर्त्तुमिच्छति दुर्मेधा मोघन्तत्तस्य चेष्टितम् ।।” इति ॥
( ३ ) दश वा पौर्णमासे वा यस्मिन्कस्मिन्नप्येकस्मिन् तु नक्षत्रयोगाद्यपेक्षया
करणविलम्बी स्यात् । “न श्वः श्वरुपासीत कोहि मनुष्यस्य श्वोवेद” इति श्रुतेः । “श्वः
कार्यमद्य कुर्वीत पूर्वाह्ने चापराह्निकम् । नहि प्रतीक्षते मृत्युः कृतं वाऽस्य न वाकृतम्” इति
स्मृतेश्च । कालाऽतिक्रमेऽप्यग्न्याधानस्य प्रायश्चित्तमाहकात्यायनः “यावन्त्यब्दान्यती
तानि निरग्नेर्विप्रजन्मनः । तावन्ति कृच्छ्राणि चरेद्धोम्यन्दद्याद्यथाविधि” ॥ इति । तथा
चातिक्रान्तसंव्वत्सरसंख्यया प्राजापत्यव्रतरूपं प्रायश्चित्तम्मुख्यविधिना चरित्वा तद-
शक्तौ प्रतिप्राजापत्यन्धेनुं तन्मूल्यं वा दत्त्वा द्वादशब्राह्मणभोजनमयुतगायत्रीजपं वा
गायत्र्या तिलाज्यसहस्रहोमं वा शक्त्यपेक्षयाऽन्यतमं विधाय होम्यं-सायम्प्रातर्होमद्रव्यं
प्रत्यहमाहुतिचतुष्टयपर्याप्तमतिक्रान्तदिवसान्गणयित्वा ब्राह्मणेभ्योदद्यात् । अत्र प्रशंसा
१६ अग्न्याधानविधिः । [ १ प्रपाठके-
अथ कुतोऽग्निरुपादेय इत्यग्नियोनयस्त्रिभिः सूत्रैरभिधीयन्ते—
वैश्यकुलाद्वाऽम्बरीषाद्वाऽग्निमाहत्याऽभ्यादध्यात् ॥ १५ ॥
वैश्योद्विजेषु तृतीयोवर्णः शुद्ध एवाभिजनतस्तस्य कुलाद्गृहात् “कुलञ्ज-
नपदे गोत्रे सजातीयगणेष्वपि । भवनेऽपि तनौ क्लीबं कटकटार्यार्बधे कुली”
इति मेदिनी । वा-अथवा । अम्बरीषात्-भ्राष्ट्रात् । (यवादिभर्जनसाधनात्)
“अम्बरीषञ्च भ्राष्ट्रोना”इत्यमरः । अग्निमाहृत्यानीय अभि-आभिमुख्येनादध्या-
त्स्थापयेत् - वा शब्दौ(१) व्याख्यातौ । स खल्वयमग्निर्हुतोच्छिष्टः संस्कृतोवा
गृह्यते । अविशेषादिति कर्कोपाध्यायाः ॥ १५॥
अपिवा बहुयाजिन एवागाराद्ब्राह्मणस्य वा राजन्यस्य वा ॥१६॥
अपिवा-अथवा । इत्यम्बरीषात्पक्षान्तरमुपदिशति । बहुभिः (सोमैः)
येनेष्टं स बहुयायीत्युच्यते । तस्यैवेत्येवकारस्तदितरं व्यवच्छिनत्ति । (२)अगा-
रात्-गृहात् । “गृहङ्गेहोद्वसितं + + + भवनागारमन्दिरम्” इत्यमरः ।
अग्निमाहत्याभ्यादध्यादिति गतेनाभिसम्बध्यते । कस्य बहुयाधिन इत्यपेक्षाया-
माह ब्राह्मणस्य वेत्यादि । तदयमर्थः । बहुयाजिनोऽग्न्याहरणं विधेयम् । स च
त्रयाणामन्यतमोयः कश्चन भवेन्नाम । वाशब्दत्रयं तुल्यवद्विकल्पार्थम् । वैश्य-
कुलादिति सामान्यतोऽभिधाय तस्यैव बहुयाजित्वविशेषेण पुनरुपादानमपुन-
रुक्तिरेव । पूर्वत्रानुपादाने बहुयाजिन एव ततोऽग्निराधेयः स्यान्नाबहुयाजिनो-
पीत्यत उभयत्रोपादानम् ॥ १६ ॥
अपिवाऽन्यं (३) मथित्वाऽभ्यादध्यात् ॥ १७ ॥
अपिवा-अथवा मथित्वा । “अरणिद्वयमि”-ति शेषः । तल्लक्षणन्तु-
“अश्वत्थोत्थः समीगर्भः प्रशस्तोर्वीसमुद्भवः ।
तस्य या प्राङ्मुखी शाखा वोदीची वोर्ध्वगाऽपिवा ।
वाक्यं तत्र गृह्यकाण्डे—
“नावसथ्यात्परोधर्मोनावसथ्यात्परन्तपः ।
नावसथ्यात् परन्दानं नावसथ्यात्परन्धनम् ॥
नावसथ्यात्परं श्रेयोनावसथ्यात्परोयशः ।
नावसथ्यात्परा सिद्धिर्नावसथ्यात्परा गतिः ॥
नावसथ्यात्परं स्थानं नावसथ्यात्परं व्रतम् ।”
इत्यावश्यकत्वाच्चित्यम् । श्रुतिरपि— “यावज्जीवमग्निहोत्रञ्जुहुयादि”ति । तस्मा-
त्तदकरणे प्रत्यवाय इति तत्क्षयार्थम्प्रायश्चित्तमुचितम् ॥
( १ ) अनुपदे १४ सूत्रे ॥
( २ ) कथंनाम यद्योनिकः प्रथमाधानेऽग्निराहितोऽनुगतोऽपि पुनस्तस्या एव योने-
राहार्थ इति । तथाच शाखान्तरम् “पूर्व वाऽनुगतेऽग्नौ योनिः पुनराधेये”-ति ।
( ३ ) परिशिष्टप्रकाशे तु “अपिवाऽरणिम्” इति पाठः ॥
curve, but wait, 'र्द्धु' is on the next letter! Let's transcribe faithfully. It looks like नादूर्धुकः or नानर्द्धुकः. Wait, look closely: it's नादूर्धुकः - wait, the loop goes down, like 'दूर्धुकः'.
Line 29:
आरणेयः स्वनिष्ठद्धिसाधनहोमैः शक्नोति प्रणाल्या ऋद्धिं साधयितुमित्यदोषः । अतए-
Wait, "स्वनिष्ठद्धिसाधनहोमैः" or "स्वनिष्ठर्द्धिसाधनहोमैः"?
स्वनिष्ठ + ऋद्धि = स्वनिष्ठर्द्धि! Look at the text:
'स्व', 'नि', 'ष्ठ', 'र्द्धि'! Yes, "स्वनिष्ठर्द्धिसाधनहोमैः".
Line 30:
वाह कर्म्मप्रदीपः-“पुण्यमेवादधीताग्निं स हि सर्वैः प्रशस्यते । अनर्द्धुकत्वं यत्तस्य का-
Line 31:
म्यैस्तन्नीयते शमम्” इति ॥
Footnote (2):
Line 32:
( २ ) तदेतदनुपदमुक्तं गृह्यान्तरव्याख्यायाम् ।
Footnote (3):
Line 33:
`( ३ ) राजन्यात्तत्कुलादेवमग्रेऽपि व्याख्ये
१८ अग्न्याधानाविधिः । [ १ प्रपाठके-
स-यथोक्तः कर्त्ता। यदेव(१) यस्मिन्नेवाग्नौ-अन्त्यां समिधमादधाति।
यस्मिन्नेव वा जायायाः पाणिञ्जिघृक्षुञ्जुहोति। लाजादिकमित्यर्थवशादुन्नेयम्।
तमग्निमभिसयँच्छेत्-यत्नेनरक्षेत् ॥ २० ॥
स एवास्य गृह्योऽग्निर्भवति ॥ २१ ॥
स यथोक्त एव न पुनरन्य इत्यन्यस्मिन्नग्नावस्य होमस्य प्रतिषेधोगृह्याग्निसं-
पाद्यकर्म्मसु, अन्याहिते गृहेऽपीति विज्ञायते(२)। अस्य-आधातुः गृह्यः गृहाय
हितः। गृहकर्म्मोपयोगी (३)गृहनामा वा ऽग्निर्भवति। सोऽयमग्निरस्याधातुुरेव
गृह्योभवति। न पुनरन्यस्येति वा सूत्रार्थः। तदेतत्सर्वमाह कात्यायनः—
“नह्याहिताग्नेः स्वङ्कर्म्म लौकिकेऽग्नौ विधीयते” इति।
तथा—
“यस्याग्नावन्यहोमः स्यात्स वैश्वानरदैवतम्-
चरूं निरुप्य जुहुयात्प्रायश्चित्तन्तु तस्य तत्॥” इति।
“परेणाग्नौ हुते स्वार्थे परस्याग्नौ हुते स्वयम्”॥
इति चैवमादि। अस्य चापवादः पुरस्तादेवोक्तः(४) ॥ २१ ॥
अपिच—
तेनैवास्य प्रातराहुतिर्हुता भवतीति ॥ २२ ॥
तेनैव अन्त्यसमिदाधानेन लाजहोमेन वा अस्याग्नेराधातुः प्रातरा-
हुतिः हुता दत्ता भवति। तद्दिने अपरा प्रातराहुतिर्नापेक्ष्यते(५) इतिभावः।
अयमर्थः। दिवा रात्रौ वा विवाहे तद्दिनेऽपरदिने वा सायमेवाहुतिर्भवति
नापरेद्युः प्रातरिति। तथाचोक्तम्— “यदा अह्नि विवाहहोमस्तदा सायं काले-
होमारम्भः। यदा तु रात्रौ विवाहहोमस्तदोत्तरेद्युः सायङ्काल एव होमारम्भः”
इति। तथाच स्मृत्यन्तरम्—
“यस्मिन्नह्नि विवाहः स्यात्सायमारभ्य तस्य तु।
परिचर्य्या विवाहाग्नेर्विदधीत स्वयं द्विजः॥
(१) चन्द्रकान्तस्तु—एवकारादितिकर्त्तव्यतान्तरं व्यवच्छिनत्ति। तथाच तमेवा-
ग्निमाभिमुख्येन (पूर्णाहूत्या संस्कृतम्) सयँच्छेद्धारयेत् (रक्षेत्) नान्यामिति कर्त्त-
व्यतामपेक्षेतेति तदर्थः॥ आधानं प्रत्यविलम्बितत्वज्ञापनाय हि पुनर्वचनम्। इति। अत्र
यदितियस्मिन्नर्थेऽव्ययम्॥
(२) एवकारस्वरसात्।
(३) गृहपदमत्र गृहस्थपरं तदाश्रमस्थस्य सायम्प्रातराहुत्यादिसकलश्रौतस्मार्त्त-
कर्म्मोत्र गृहकर्म्माभिधीयते। न लौकिकाग्निसाध्यम्पाकादीति बोध्यम्॥
(४) ब्रह्मचार्यांत्यादिसूत्रे (१।१।७)॥
(५) तत्कार्य्यस्य तेनैव निष्पत्त्यभ्युपगमात्॥
१ कण्डिका ] गोभिलगृह्यसूत्र — १६
यदि रात्रौ विवाहाग्निरुत्पन्नः स्यात्तथा सति ।
उत्पन्नस्योत्तरस्याह्नः सायं परिचरेदमुम्” ॥ इति ।
इति शब्द आधानप्रकरणसमाप्तिद्योतकः ॥ २२ ॥
( इत्यग्न्याधानप्रकरणम् )
उक्तमर्थमनुवद्-नित्यहोमकालारम्भ उच्यते—
सायमाहुत्युपक्रम एवात ऊर्ध्वं गृह्येऽग्नौ होमोविधीयते ॥ २३ ॥
अतः यथोक्ताग्निपरिग्रहात् । ऊर्ध्वम् अनन्तरम् । प्रातराहुत्युपक्रमः । प्रातरा-
हुत्या य उपक्रम्यत आरभ्यते स तथाविध एव होमो(१)गृह्येऽस्मिन् अग्नौ ।
विधीयते-उपदिश्यते(२) । आचार्येण । एवकारेणैतद्दर्शयति यत्केषाञ्चिच्छा-
खिनामग्निहोत्रं यथाप्रातराहुत्याऽऽरभ्यते सायमाहुत्या च सन्तिष्ठते(३) न तथा
कौथुमादीनामिति । तदत्र सायमाहुत्युपक्रमं प्रातराहुत्यन्तमेकङ्कर्मेति विज्ञा-
यते । यथाह कात्यायनः—
“सायमादिप्रातरन्तमेकङ्कर्म प्रचक्षते” इति ॥ २३ ॥
पुरा प्रादुष्करणवेलायाः सायम्प्रातरनुगुप्ता अप
आहरेत्परिचरणीयाः ॥ २४ ॥
प्रादुष्करणवेलायाः “पुरस्तादग्निमप्रादुष्कृत्ये”—( १-१-२२८ )-त्या-
दिसूत्राभ्यां वक्ष्यमाणायाः पुरा पूर्व सायं प्रातश्च(४) अनुगुप्ता अप आहरेत्
काः ? परिचरणीयाः परिचर्यन्ते निर्वर्त्यन्ते आचमनादीनि याभिरिति बाहुल-
कात् ( पा० ३।३।११३ ) करणेऽनीयर् ॥ २४ ॥
अपि वा सायम् ॥ २५ ॥
अपि वा-अथवा सायम् । पुनर्वचनात्सायमेव अप आहरेत्परिचरणीया
इति सम्बध्यते । सायमाहृताभिरेवाद्भिः सायम्प्रातश्च परिचरेदित्यर्थः ॥ २५ ॥
अपि वा कुम्भाद्वा मणिकाद्वा गृह्णीयात् ॥ २६ ॥
( १ ) देवतोद्देशेन समन्त्रं द्रव्यत्यागोहोमः । स च येनैव हविषा कृतेनाकृतेन वा
दध्ना पयसा वा सायं होमः कृतस्तेनैव प्रातर्होमोऽपि समापनीयोऽन्यत्र प्रतिनिधिः । प्रति-
निधिश्च कात्यायनेनोक्तः । “यथोक्तवत्सत्वसम्पत्तौ ग्राह्यन्तदनुकारियत् । यवानामित्र
गोधूमाः व्रीहीणामिव शालयः ॥” इति ॥
( २ ) अत्राऽपवर्गविहितमप्यभिरूपभोजनं प्रातराहुत्यनन्तरमेवेति बोध्यम् ॥ अनु-
पदं प्रदर्शयिष्यमाणकात्यायनवचनात् । उपदेशश्च तत्प्रकारस्यानन्तरसूत्रैः पञ्चभिः ॥
( ३ ) समाप्तिङ्गच्छति । “संस्थाऽऽधारे स्थितौ मृतौ” इत्यमरः ॥
( ४ ) आदिना राणायनीयपरिग्रहः ॥
( ५ ) विनाऽपि चं समुच्चयो द्योत्यते “गामश्वं पुरुषं पशुम्” इत्यत्र यथा ।
२० अग्न्याधानसमयविधिः । [ प्रपाठके १
अपिवा-अथवेत्याहरेदित्यपेक्षया विकल्पार्थः । अपिवा गृह्णीयादिति ।
कुम्भात् घटात् वा मणिरंव माणिकस्तस्मात् अलिञ्जरात् वा “अलिञ्जरः
स्यान्मणिक” इत्यमरः । महतोजलकुम्भाद्वा । वाशब्दद्वयन्तुल्यवदनयोर्विक-
ल्पार्थम् । गृह्णीयात्-प्रकृतत्वादपः परिचरणीयाः । “निर्णिक्तकरचरणमुखी-
पत्नी शिष्योवाऽऽचम्य कुम्भादेरप उद्धृत्याऽऽचमनन्दद्यात्ताभिः परिचरेदि”ति
भट्टभाष्यम् ॥ ६ ॥
पुरास्तमयादग्निं प्रादुष्कृत्यास्तमिते सायमाहुतिञ्जुहुयात् ॥ २७ ॥
पुरा-प्रथमम् । कस्मात् ? अस्तमयाद् अर्थात्सवितुः । कात्यायनोऽप्याह—
“सूर्येऽस्तशैलमप्राप्ते षट्त्रिंशद्भिरथाङ्गुलैः ।
प्रादुष्करणमग्नीनां पुरा भासाञ्च दर्शनात्” ॥ इति ।
तस्मिन्काले अग्निमाहितं प्रादुष्कृत्य प्रकटीकृत्य प्रज्वाल्य अस्तमिते स-
वितरि ।
“यावत्सम्यङ् न भाव्यन्ते नभस्यृक्षाणि सर्वतः ।
न च लौहित्यमापैति तावत्सायञ्च हूयते” ॥
इति कर्मप्रदीपपरिदर्शिते काले सायमाहुति-मग्निहोत्रलक्षणा ञ्जुहुयात् २७
पुरोदयात्प्रातः प्रादुष्कृत्योदितेऽनुदिते वा प्रातराहुतिञ्जुहुयात् ॥२८॥
इतिगोभिलीये गृह्यसूत्रे प्रथमप्रपाठकस्य प्रथमाकण्डिका ॥ १ ॥ १ ॥ ❀ ॥
पुरा-पूर्व्वमुदयात् सवितुः । तमिमं सामान्येनाभिहितं कालं विशिनष्टि प्रा-
तरिति “चतस्रोधटिकाः प्रातररुणोदय उच्यते” इति स्मृत्युक्तक्षणे इत्य-
र्थः । अत एव कात्यायनोऽपि “प्रातर्भासाञ्च दर्शनात्” इत्याह ।
एतस्मिन्नेव खलु काले प्राचीदिगरुणकिरणारुणीकृता भवति । तदैत-
स्मिन् काले प्रादुष्कृत्य प्रज्वाल्य प्रकृतत्वादग्निम् । उदिते उद्गते रवौ—
“हस्तादूर्ध्वं रविर्यावद्गिरि हित्वा न गच्छति ।
तावद्धोमविधिः पुण्यो नान्योऽभ्युदितहोमिनाम्” ॥
इति कर्म्मप्रदीपस्पष्टीकृते काले अनुदितेऽल्पो(१)दित इति चन्द्रकान्त(२)
( १ ) नञोल्पार्थत्वमनुदराकन्येत्यादौ दृष्टम् । यथाहुः “तत्सादृश्यमभावश्च तद-
न्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्त्तिताः” इति ॥
( २ ) तस्यायमाशयः “रेषामात्रन्तु दृश्येत रश्मिभिश्च समन्वितम् । उदयन्तं विजा-
नीयात् होमङ्कुर्याद्विचक्षणः” इति गृह्यपरिशिष्ट-( गृ० सं० )-वचने उदयमित्यल्पोदयपरं
“अल्पत्वादसत्त्वमुपचर्य्यते” इति न्यायस्याल्पघनोऽधन एकपुत्रोऽपुत्र इत्यादौ दर्शनात् ।
तथाभूत उदयोऽनुदय एव । अत एवोदितहोमिनाङ्कालः कर्म्मप्रदीपेन “हस्तादूर्ध्वं रवि
कण्डिका ] गोभिलगृह्यसूत्रे- २२
भाष्यम्। रात्रेः षोडशमे भागे इति प्रामाणिकाः। तथाच गृह्यसङ्ग्रहे कात्यायनः।
“रात्रेः षोडशमे भागे ग्रहनक्षत्रभूषिते।
अनुदयं विजानीयाद्धोमस्तत्र प्रकल्पयेत्”॥
इति। तथाचानुदित इत्यस्योदयमप्राप्त इत्येवार्थः। प्रातराहुतिमग्निहोत्रल-
क्षणम् जुहुयात्। वाशब्दादुदितानुदितहोमयोर्वैकल्पिकत्वं दर्शयति।
तथाह मनुः-
“उदितेऽनुदिते चैव समयाध्युषिते तथा।
सर्वथा वर्त्तते यज्ञ इतीयं वैदिकी श्रुतिः॥”
इति। सम्पूर्णादित्यमण्डलरूपदर्शनोपलक्षितः काल उदितः। उदयात्पूर्व-
मरुणकिरणवान्प्रविरलतारकोऽनुदितः। सूर्यनक्षत्रवर्जितः कालः सम(१)या-
ध्युषितः। अनयोरनुदित एवान्तर्भावः। तत्र वाजसनेयिनां नियमेनानुदितहो-
मः। “सूर्योह वा अग्निहोत्रम्” इत्यारभ्य “तस्मादुदितहोमिनां विच्छिन्नमग्नि-
होत्रं मन्यामहे” इत्यन्तेन ( श० प० ) श्रुत्याम्नायेनोदितहोमनिन्दापूर्वकम्-
नुदितहोमस्य समर्थितत्वात्। छन्दोगानामुदितानुदितयोर्विकल्पः। आश्वलाय-
नानां पुनरुदितहोमनियमः। तथाच तैत्तिरीयब्राह्मणम्-
“प्रातः प्रातरनृतन्ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम्।
दिवा कीर्त्यमदिवा कीर्त्तयन्तः सूर्योज्योतिर्नच ज्योतिस्तदैषाम्”॥
इति अनुदितनिन्दार्थवादपुरस्सरमुदितहोमस्यैव “उदिते होतव्यम्” इति
श्रुत्या बोधनात्॥
अत्र भट्टभाष्ये—“प्रादुष्करणोपदेशाच्च पृथगग्न्यगारन्दर्शयति पृथक् च
महानसम्। अग्न्यगारात्प्रभृति धूमं शातयन्निति च लिङ्गात्। अन्यथा सदैव
प्रादुष्कृतत्वात् प्रादुष्करणमेव न स्यात्। यत्रार्थयुक्त्या महानसादावग्न्यवयवाः
र्यावदि” त्यादिना स्पष्टीकृतः। व्याख्यातञ्च परिशिष्टप्रकाशकृता “अभ्युदित” इत्यभि-
शब्दस्य सर्वतोभावार्थकस्योपादानात्सम्पूर्णसूर्य्यमण्डलदर्शने उदितहोमो न त्वर्धोदिता-
दावित्यवगन्तव्यमिति। अत एव मन्वर्थमुक्तावल्यां हरिहरभाष्ये च सम्पूर्णसूर्य्यमण्डल-
रूपदर्शनोपलक्षितः कालएवोदितपदेनोक्तः। एवमुक्तलक्षणे रेखामात्रोदितरूपानुदिते
कुतश्चित्प्रतिबन्धाद्धोतुमशक्नुवतामनुदितहोमिनां लोप एव प्रातराहुतेरापद्येतातस्त-
त्राशक्तोऽभ्युदिते जुहुयादिति कर्मप्रदीपवचनार्थः। श्रुतिश्चास्यामेवाशक्तिदशायामुदित-
होमं निन्दति “श्यावोऽस्याहुतिमभ्यवहरति य उदिते जुहोती”ति। “यथाऽति-
थये प्रद्रुतायान्नमाहरेयुस्तादृक् तद्यदुदये जुहोतीति” चैवमादिका॥ श्यावः श्वानविशेषः।
“श्वानौ द्वौ श्यावशबलौ वैवस्वतकुलोद्भवौ। ताभ्यां पिण्डं प्रयच्छामि स्यातामेताव-
हिंसकौ॥ इत्यत्र तथाभिधानात्॥
( १ ) तथाच “ततः प्रभातसमये नष्टे नक्षत्रमण्डले। रविबिम्बं न दृश्येत समयाध्यु-
षितं स्मृतम्” इति॥ मन्वर्थमुक्तावल्यादावप्येवमेव॥
प्रणीयन्ते । तत्र तदर्थनिर्वृत्तौ पुनस्तत्रैवोल्मुकं नयेत् । यत्र तु वचनात्-यथा
'पुरस्ताच्छालाया उपलिप्य शालाग्नेरग्निं प्रणयन्ती'ति तत्र नेति(१) ॥ २८ ॥
इतिश्रीमद्रोमिलीयगृह्यसूत्रव्याख्यायां "मृदुला"ख्यायां मुकुन्दशर्म्मसङ्कलितायां
प्रथमप्रपाठकस्य प्रथमा कण्डिका ॥ १ ॥ १ ॥ * ॥
अथ द्वितीया कण्डिका ।
( अथोपवीतविधिः )
पूर्वं “यज्ञोपवीतिनाऽऽचान्तोदकेन च कृत्यम्” इत्यनेन यज्ञोपवीताचम-
नयोः कर्माङ्गतोक्ता । अथेदानीन्तदुभयमपि क्रमेण व्याचिख्यासुः शिष्यानुजि-
घृक्षया यज्ञोपवीतन्तावदाह—
यज्ञोपवीतकुरुते सूत्रं वस्त्रं वाऽपि वा कुशरज्जुमेव ॥ १ ॥
कुरुत इति विधौ लेट् ( पा० ३।४।७ ) कुर्यात्-धारयेदित्यर्थः । कीदृशन्त-
दित्याह—सूत्रम्—सूत्रनिर्मितम् । तच्च नवभिस्तन्तुभिस्त्रिवृद्भवति ।
तथाच—
“त्रिवृ(२)दूर्ध्ववृतङ्कार्य्यन्तन्तुत्रयमधोवृतम् ।
त्रिवृतञ्चोपवीतं स्यात्तस्यैको ग्रन्थिरिष्यते” ॥
इति कर्म्मप्रदीपोक्तलक्षणमित्यर्थः । अत्र मनुः—
“कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत् ।
शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम्”॥
इति चैवमादि स्मृत्यन्तरेभ्योऽवगन्तव्यम् । त्रिवृदिति नवगुणं सूत्रनवकम-
त्यर्थः । “नवैव त्रिवृदि”ति श्रुतेः । तथाच देवलः “यज्ञोपवीतङ्कुर्वन्ति सूत्रेण
नवतन्तुकम्” इति । मुख्यश्चायं पक्षः(३) । इह वाशब्दाभावात् । उत्तरत्र वा-
( १ ) अत्र पांशुतुषारादिनाऽन्तर्हिते रवौ कर्माह कात्यायनः—
"रजोनीहारधूमाभ्रवृक्षाग्रान्तरिते रवौ । सन्ध्यामुद्दिश्य जुहुयाद्व्रतमस्य न लुप्यते”
इति' सन्ध्यासमयमेव सायं प्रातश्च विधेयाम् । तामुद्दिश्य यथा यदा सा समुपास-
नीया तथा तदैव जुहुयादपि । उभयोरेक एव काल इत्यर्थः ॥
(२) “ऊर्ध्वन्तु त्रिवृतङ्कार्य्यमि”ति प्रचुरः पाठः । तत्रायमर्थः । वामावर्त्तवलितसूत्र-
त्रयं त्रिगुणं कृत्वा तदेव त्रिगुणं सकृद् दक्षिणावर्त्तवलितं कार्य्यन्तदेव त्रिवृतं त्रिसरं सदेक-
मुपवीतम् । तस्य चैको ग्रन्थिरेकमेव कौटिल्यं, भ्रमिस्तु प्रवरानुसारेणेति ॥
(३) अत्र संस्कारदीपे निगमे-“कार्पास-क्षौम-गोबाल-शण वल्क-तृणोद्भवम् । सदा
सम्भवतोधार्य्यमुपीतं द्विजातिभिः ।"इति । तृणमुलपादि । सम्भवत इत्यभिधानात्पूर्व्वपू-
र्वाभावे : परोत्तरविधिः । अत्र निगमपरिशिष्टम् "वाससा यज्ञोपवीतकुरुते तदभावे त्रिवृता
सूत्रेण । कुश-मुञ्ज बाल प्रतिसर-रज्जुभिर्वा" इति । बालो गोबालः । प्रतिसर उलपादिः ।
शब्दााम्नानात् । वस्त्रं वा । वाशब्दोऽभावविकल्पार्थः । अरण्यादावुपवीतनाशे
सूत्रलाभासम्भवात् । तद्यज्ञोपवीतङ्कुरुते । अन्यथा व्युपवीतस्य मेहनादावनर्थः
स्यात् । उद्भूतमूत्रपुरीषक्षुत्पिपासादिवेगस्य क्षणमपि स्थातुमशक्यत्वात् ।
“पिबतोमेहतश्चापि भुञ्जतोऽनुपवीतिनः ।
प्राणायामत्रिकं षट्कं नवकञ्च क्रमान्मतम्” ॥
इति स्मरणात् । अपिवा-अथवा ( चौरादिभिररण्यादौ वस्त्रस्याप्यपहारे )
कुशरज्जुमेव यज्ञोपवीतङ्कुरुते । एवकारो(१)ऽत्र सदोपवीतित्वनियमार्थोऽन्यथा
कर्माधिकार एवाम्नानात्कर्म्माङ्गमेव यज्ञोपवीतमिति मन्यमानः कर्म्मण्येवोप-
वीती स्यान्न सदैवति वदेत् । तच्च नो युज्यते तथाचोक्तम्मनुकात्यायनाभ्याम्-
“सदोपवीतिना भाव्यं सदा बद्धशिखेन च ।
विशिखो व्युपवीतश्च यत्करोति न तत्कृतम्” ॥ इति ।
अस्य लम्बत्वप्रमाणमाह मनुः —
“पृष्ठवंशे च नाभ्याञ्च धृतर्य्यद्भिन्दते कटितम् ।
तद्धार्यमुपवीतं स्यान्नातिलम्बं न चोच्छ्रितम्”
इति । इदञ्च वामस्कन्धे धृत्वा परिमेयम् । अत्र स्मृत्यर्थसारे-
“विच्छिन्नं वाप्यधोयातं भुक्त्वा निर्म्मिर्तमुत्सृजेत् ॥ ”
मनुः —
“मेखलामजिनं दण्डमुपवीतं कमण्डलुम् ।
अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत्”
इति । मन्त्रवत्-समन्त्रकम् । मन्त्रश्चात्र उपनयनप्रकरणे प्रदर्शयिष्यते ॥१॥
तस्यैव खल्विदानीं यज्ञोपशीतस्य विन्यासविशेषःपरिभाष्यते विनियोग
विशेषविवक्षया-द्वाभ्याम—
दक्षिणं बाहुमुद्धृत्य शिरोऽवधाय सव्येऽंशे प्रतिष्ठापयति ।
दक्षिणं कक्षमन्ववलम्बं भवत्येवं ज्ञयोपवीती भवति ॥२॥
दक्षिणं बाहुमुद्धृत्य उत्क्षिप्य शिरः मूर्द्धान-मवधाय वेष्टयित्वा सव्ये दक्षि-
णेतरे वामेऽंशे स्कन्धे इत्यर्थः । प्रति विशिष्टेन प्रकारेण स्थापयति । यज्ञोपवी-
तम् (तथासति) दक्षिणं कक्षं बाहुमूलकोटरप्रदेशम् अनुअधः अवलम्बं लम्ब-
मानं भवति यज्ञोपवीतमर्थात् । पुरुषस्तु एवमनेन प्रकारेण यज्ञोपवीती भवति ।
अत्र वस्त्राभावे सूत्रविधानं त्रितन्तुकमात्रपरमतो न प्रकृतसूत्रविरोधः । अत्र वाससा
यज्ञोपवीतार्थः स्त्रीशूद्राणाङ्कृते देवपितृकर्मणोरुपपद्यत इति द्रष्टव्यम् ॥
( १ ) अत्र संस्कारदीपे मैथिलमहामहोपाध्यायहर्षनाथशर्म्माणस्तु—“एवकारोऽयं
वस्त्रकुशरज्ज्वोर्यज्ञोपवीतानुकल्पयोस्त्रिसूत्रत्वादिव्यवच्छेदकः । सूत्रं - सूत्रविशेषः ।
इत्येवमाहुः ॥
२४ उपवीतविधिः । [ १ प्रपाठके-
सेयं परिभाषा कर्माार्था । “उपवीतं देवानामुपव्ययते” इत्यादिशास्त्रशेषभूता
च । विध्येकवाक्यतया खल्वर्थवादानां प्रामाण्यमनुमन्यन्ते तान्त्रिकाः “विधिना
चैकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः-”ति ( जै० सू० १।२।१ ) ॥ २ ॥
सव्यं बाहुमुद्धृत्य शिरोऽवधाय दक्षिणेऽंसे प्रतिष्ठापयति ।
सव्यं कक्षमन्ववलम्बं भवत्येवं प्राचीनावीती भवति ॥३॥
सव्यं वामम् “वामं शरीरं सव्यं स्यादपसव्यन्तु दक्षिणम्” इत्यमरः ।
व्याख्यातमन्यत् । यज्ञोपवीतिना कृत्यमित्येतद्व्याचिख्यासुराचार्यः प्राचीनावी-
तित्वमप्यभिदधानोयज्ञोपवीतमस्यास्तीत्यमुमेवार्थन्तन्त्रावगमयति भाष्यकल्पा-
खल्वेषा काण्डिका यज्ञोपवीतिनेति सूत्रस्य ॥ ३ ॥
यदर्थं विन्यासविशेषः परिभाषितः स विनियोगविशेष इदानीमभिधीयते—
पितृयज्ञे त्वेवं प्राचीनावीती भवति ॥ ४ ॥
पितृभ्यः पितॄणां वा यज्ञः “यजति चोदनाद्रव्यदेवताक्रियं समुदाये कृता-
र्थत्वात्” ( जै० सू० ४।२।२२ ) इत्युक्तलक्षणस्तस्मिन् पितृयज्ञे पितृकर्मणि ।
तु शब्दश्चशब्दार्थोऽन्यदपि सव्यजान्वञ्चनादि समुच्चिनोति । तदाह कात्यायनः–
“दक्षिणं पातयेज्जानु देवान्परिचरन् सदा ।
पातयेदितरज्जानु पितॄन्परिचरन्नपि ॥” इति ।
एवशब्दश्चान्यदैवतकर्ममध्यपातिन्यपि पित्र्ये कर्मणि प्राचीनावीतित्वं निय-
मयति । स्मरति च भगवान्मनुः—
प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा ।
पित्र्यमा निधनात्कार्यं विधिवद्दर्भपाणिना” ॥ इति ।
ऋज्वर्थमन्यत् ॥ ४ ॥
( इत्युपवीतविधिः )
( अथाचमनविधिः )
एवं यज्ञोपवीतिना कृत्यमित्यंशं व्याख्यायाचान्तोदकेन कृत्यमित्येतदिदानीं
व्याख्यायते—
उदगग्नेरुत्सृप्य प्रक्षाल्य पाणी पादौ चोपविश्य त्रिराचामेद्द्विः
परिमृजीत ॥ ५ ॥
अग्निसाध्यस्याग्निहोत्रस्य प्रकृतत्वादगृह्यकर्मणाञ्च प्रायेणाग्निसाध्यत्वादु-
दगग्नेरित्याह । उदगुत्तरतः । कस्य ? अग्नेः । उत्सृप्य-उत्क्रम्य गत्वेत्यर्थः ।
सृपिर्गत्यर्थः (भ्वा. प.) पाणी हस्तौ पादौ चरणौ च प्रक्षाल्य प्रकर्षेणाद्भिः शोध-
यित्वा । “क्षलशौचकर्मणि” ( चु. प. ) तदितिकर्त्तव्यतामाह देवलः !
कण्डिका १ ] गोभिलगृह्यसूत्रे- ३५
“प्रथमं प्राङ्मुखः स्थित्वा पादौ प्रक्षालयेच्छनैः ।
उदङ्मुखो वा दैवत्ये पैतृके दक्षिणामुखः” इति ॥
क्रमश्च पादप्रक्षालने “सव्यं पादमवनेनिजे” इति सव्यं पादं प्रक्षालयेत् ।
“दक्षिणं पादमवनेनिज” इतिदक्षिणम्पादं प्रक्षालयेद्”-( ४-१०-१० ) ति
लिङ्गदर्शनादवगन्तव्यः ।
“सव्यं प्रक्षाल्य दक्षिणं प्रक्षालयती”ति गृह्यान्तरम् । उपविश्य ।
“अन्तर्जानु शुचौ देशे उपविष्ट उदङ्मुखः ।
प्राग्वा ब्राह्मेण तीर्थेन द्विजोनित्यमुपस्पृशेत् ॥”
इतिस्मृत्यन्तरोक्तप्रकारेणेत्यर्थः । त्रिः त्रिवारम् । क्रियाभ्यावृत्तिगणने
“द्वित्रिचतुर्भ्यःसुच्” (पा०५।४।१८) इति सुच्प्रत्यय एवमग्रेऽपि । आचामेत् ।
“आचान्तोदकेन कृत्यम्” इत्यस्य परिदर्शकवतया अप इति वाक्यशेषः । “त्रिः
पिबेदम्बुवीक्षितम्” इति च स्मृत्यन्तरम् । अत्र त्रिराचामेदित्यभिधान आचा-
र्य्यस्त्रिरवभक्षणमाचमनमन्यदितिकर्त्तव्यतेति दर्शयति । मन्वर्थमुक्तावल्यामप्ये-
वम् । द्विः द्विवारम् परिमृजीत(१) “संवृत्याङ्गुष्ठमूलेन द्विःप्रमृज्यात्ततोमुखम्”
इतिदत्तस्मरणात्संवृतं मुखमङ्गुष्ठमूलेन प्रमृज्यादित्यर्थः ॥ ५ ॥
पादावभ्युक्ष्य शिरोऽभ्युक्षेत् ॥ ६ ॥
अद्भििरिति सामर्थ्यात् । ऋज्वन्यत् । विसमासकरणं पादाभ्युक्षणशेषेण शि-
रोऽभ्युक्षणनिषेधार्थमिति भट्टभाष्यम् ॥ ६ ॥
इन्द्रियाण्यद्भिः संस्पृशेत् ॥ ७ ॥
इन्द्रियाणि । इन्द्रियाणाममूर्त्तत्वात्तदायतनानि । अद्भिः करणभूताभिः
उदकार्द्रेण हस्तेन प्रतीन्द्रियमित्यर्थः । संस्पृशेत् । सम्यक् स्मृत्यन्तरोक्त(२)
प्रकारेण स्पृशेत् ॥ ७ ॥
कानि तानीन्द्रियाणीत्याह-
( १ ) “मृजूशौचालङ्कारयोः” ( चु०उ० ) इत्यस्याधृषीयत्वान्णिजभावपक्षे विधा
लिङि रूपम् । प्रमृज्यादिति तु “मृज शुद्धौ” (अ०प०) इत्यस्य । अत्र कात्यायनः “त्रिः
प्राश्यापोद्विरुन्मृज्य मुख, मेतान्युपस्पृशेत् । आस्यनाशाक्षिकर्णांश्चनाभिवक्षः शिरोंऽसकान्”
इति । एतच्चाचान्तोदकेनेति सूत्रांशं स्फुटीकरोति । वारत्रयमपः प्रकर्षेण भक्षयेत् । अक्षेण-
प्रकर्षश्च कर्म्मकरणकर्तृप्रकर्षात् । तत्रकर्म्मप्रकर्षोऽनुष्णत्वादफेनत्वाबुद्बुदत्वहृदयगामित्वा-
दिरूपः । कर्तृप्रकर्षश्च कृतपाणिपादशौचत्वासीनत्वप्राङ्मुखत्वादिरूपः । करणप्रकर्षश्चात्र
ब्राह्मतीर्थत्वादिः । एवमपोभक्षयित्वा मुखं वारद्वयमूर्ध्वं लोमस्थाने मार्जयेत् । नत्वलोमके ।
पुनराचमनेऽनवस्थाप्रसङ्गात् । तथाच परिशिष्टम् “आचान्तःपुनराचामेत् वासश्चपरिधायो-
ष्ठौ संस्पृश्य यन्नालोमकौ” इति ।
( २ ) तथाच मनुः “त्रिराचामेदपः पूर्वं द्विःप्रमृज्यात्ततोमुखम् । खानि चैव स्पृशेद-
द्भिरात्मानं शिर एव च ॥” इति । अस्यार्थः । प्राङ्मुख उदङ्मुख ईशान्याभिमुखोवाऽनु-
४ गो० गृ० सू०
अक्षिणी नासिके कर्णाविति ॥ ८ ॥
संस्पृशेदिति सम्बध्यते । इतिशब्दोऽन्यदपि स्मृत्यन्तरोक्तं समुच्चिनोति ।
आद्यर्थत्त्वात्तस्य । “ज्वलितिकसन्तेभ्योणः” ( पा. ३।१।१४० ) इत्यत्र यथा ।
उपन्यासमात्रमेतत् । क्रमश्च—
“त्रिःप्राश्यापोद्विरुन्मृज्य मुखमेतानुप(१)स्पृशेत् ।
आस्यनासाक्षिकर्णांश्च नाभिवक्षःशिरोऽसकान्” ॥
इति कर्म्मप्रदीपोक्त एव भवति । तमेतं स्पष्टमाह दक्षः—
“प्रक्षाल्य पाणी पादौ च त्रिःपिबेदम्बु वीक्षितम् ।
संवृत्याङ्गुष्ठमूलेन द्विः प्रमृज्यात्ततोमुखम् ॥
संवृत्य तिसृभिः पूर्वमास्यमेवमुपस्पृशेत् ।
अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम् ॥
अङ्गुष्ठानामिकाभ्याञ्च चक्षुःश्रोत्रे पुनःपुनः ।
नाभिं कनिष्ठाङ्गुष्ठेन हृदयन्तु तलेन वै ॥
सर्वाभिश्च शिरः पश्चाद्वाहू चाग्रेण संस्पृशेत्” ।
इति । तिसृभिरित्यङ्गुलीभिस्तर्जनीमध्यमानामिकाभिः । उपस्पृशेत् । ओष्ठौ ।
तदेतच्चोद्यमानविषयम् । तथाचापस्तम्बः-“चोद्यमानस्तु—प्रयतोऽपि द्विराचा-
मेद्द्विः परिमृजेत्सकृदुपस्पृशेत्” इति । एतच्चाङ्गुलित्रयेणेत्याचारचिन्तामणिः ।
मुखमिति-संवृतस्यावान्ताधरोष्ठम् । पुनःपुनरिति चक्षुर्द्वयश्रोत्रद्वयाभिप्रायेण ।
तेनैकं चक्षुः स्पृष्ट्वाऽपरं स्पृशेदक्षिणवामक्रमेण । अत्र प्रमार्जनानन्तरं प्रभूतज-
लेन दक्षिणहस्तं प्रक्षाल्य तत एवम्भूतमेवास्यं मुखमोष्ठौ श्मश्रुतोऽधः स्यावा-
दुपरि द्विरुपस्पृशेत् । ततोदक्षिणपाणिं प्रक्षाल्य वामपाणिं पादौ शिरश्चाभ्यु-
क्ष्या(२)ङ्गुष्ठानामिकाभ्यां सजलाभ्यामक्षिणी स्पृष्ट्वा—तर्जन्यङ्गुष्ठाभ्यां सजला-
ष्णाभिरफेनाभिरद्भिर्ब्राह्मेण कायत्रैदशिकान्यतरेण वा तीर्थेन स्तोकं हृत्कण्ठतालुगाभिरि-
त्यन्यत्राभिधानात् क्रमेण द्विजातिभिस्त्रिरपः प्राशनानन्तरं संवृत्योष्ठाधरौ वारद्वयमङ्गुष्ठ-
मूलेन संमृज्यात् । खानीन्द्रियाणि मुखस्थानि। त्रीणि चाङ्गानि जलेन स्पृशेत् । तत्र तर्ज-
न्यङ्गुष्ठाभ्यां दक्षिणवामक्रमेण नासिकापुटे अङ्गुष्ठमध्यमाभ्यां नेत्रे अङ्गुष्ठानामिकाभ्यां कर्णौ
अङ्गुष्ठकनिष्ठाभ्यां नाभिं स्पृष्ट्वा पुनर्जलं स्पृशेत् । ततस्तलेन हृदयं स्पृष्ट्वा जलं स्पृष्ट्वा सर्वा-
ङ्गुलीभिः शिरश्चाद्भिरेव स्पृशेत् । पादौ शिरश्च पृथग्जलेन स्पृशेत् । इति ॥ अत्रान्ते चका-
राद्बाहुमूले अपीति दक्षस्मृत्याऽनुपदं व्यक्तीभविष्यति ।
(१) एवमादावुपैत्यविवक्षितम् । तेन “उपस्पर्शनंस्त्वाचमनम्” इत्याग्नेयकोशेन समं
न विरोधः ॥
(२) तथाचापस्तम्बः “त्रिरोष्ठौ परिमृजेद्विरित्येके, सकृदुपस्पृशेत् । दक्षिणेन पा-
णिना सव्यं प्रोक्ष्य पादौ शिरश्च इन्द्रियाण्युपस्पृशेत्” इति । सकृदिति ओष्ठावित्यनु-
षङ्गः । उपस्पृशेत्—उपसमीपे स्पृशेत् । तेन स्यावोपरि लोमोदयादधःस्पृशेत् । तदेतन्नि-
बन्धेषु व्यक्तम् ।
१ कण्डिका ] गोभिलगृह्यसूत्र- २७
भ्यां नासापुटद्वयं स्पृष्ट्वाऽङ्गुष्ठकनिष्ठाभ्यां सजलाभ्यां कर्णौ स्पृष्ट्वा कनिष्ठाङ्गुष्ठा-
भ्यां नाभिं स्पृशेत् । प्रकृतसूत्रानुसाराइक्तः क्रमोऽत्र कल्पे न विवक्षितः ।
स हि सर्वशाखिसर्ववर्णसाधारणः कल्प (१) । तत्र तर्जन्यङ्गुष्ठाभ्यां सोदका-
भ्यां नासापुटे स्पृष्ट्वाऽङ्गुष्ठानामिकाभ्यां सोदकाभ्यामक्षिणी स्पृष्ट्वा एवमेव(२)
श्रोत्रे ततः कनिष्ठाङ्गुष्ठाभ्यां नाभिं स्पृशेदिति ।
तथाच शङ्खः—
“तर्जन्यङ्गुष्ठयोगेन स्पृशेन्नासापुटद्वयम् ।
अङ्गुष्ठमध्यायोगेन स्पृशेन्नेत्रद्वयं ततः ॥
अङ्गुष्ठानामिकायोगे श्रवणौ समुपस्पृशेत्” ।
इत्येवं विशेषोदृश्यते । परिगृहीतश्चायमाचारेणापि बहूनाम्—अत्र कर्ण-
स्पर्शो कनिष्ठाङ्गुष्ठयोगः । “कनिष्ठाङ्गुष्ठाभ्याञ्च कर्णावालभते ततः” इत्या-
चारविवेकधृतभविष्यपुराणवचनात् । ततः पाणिं प्रक्षाल्य करतलेन हृदयं स-
र्वाङ्गुलीभिः शिरोऽङ्गुल्यग्रेणांसद्वयं स्पृष्ट्वा शेषं जलञ्चिच्छिदामहस्ते दद्यात् ।
इदमाचमने, द्विराचमने तु पादप्रक्षालनवर्जमखिलमावर्तते । भोजनोपक्रमाच-
मने सकृदेवोष्ठस्पर्श इति निबन्धाराः ॥ ८ ॥
यद्यन्मीमांस्यं स्यात्तत्तदद्भिः संस्पृशेत् ॥ ९ ॥
यद्यत् इन्द्रियमन्यद्वाऽङ्गं मीमांस्यं विचार्य्यं ( विचारार्हं ) स्यात्तत्तदद्भिरु-
दकैः संस्पृशेत् । प्रक्षालयेत् । न तु (३)संशयनिरासाय विचारमेव कुर्य्यादित्यर्थः९
तत्रैतदाहुः ॥ १० ॥
तत्र तस्मिन्नाचमने एतत्—“नोपस्पृशेद्द्रजन्नि”त्यादि—“उच्छिष्टो हैवातोऽन्यथ
भवति” (१।२।३०) इत्येतदन्तं वक्ष्यमाणमाहु“र्ब्राह्मणवाक्यानी”ति वाक्यशेषः१०
नोपस्पृशेद्द्रवजन् ॥ ११ ॥
व्रजन्—गच्छन् । नोपस्पृशेत्-नाचामेत् । “उपस्पर्शस्त्वाचमनम्” इत्य-
मरः ॥ ११ ॥
न तिष्ठन् ॥ १२ ॥
स्थितिरूर्ध्वावस्थानम् । उपस्पृशेदित्यग्रेऽपि यथायथमभिसम्बध्यते ॥१२॥
न हसन् ॥ १३ ॥
न हसन्हासस्यकुर्वन्स्मयमानोवा । तन्मनाः सुमनाश्चेत्यर्थः ॥ १३ ॥
न विलोकयन् ॥ १४ ॥
( १ ) तत्र घ्राणं पश्चादनन्तरं चक्षुरित्येव तदभिमतमिति कश्चित् ॥
( २ ) अङ्गुष्ठानामिकाभ्यां सोदकाभ्याम् ॥
( ३ ) मीमांसा-विचारः इदमङ्गं शुद्धं जातन्न वेति सन्देहनिरासायेत्यर्थः ॥
२९ आचमनविधिः । [ प्रपाठक १
विलोकयन्—इतस्ततः किञ्चित्पश्यन् । अन्यमनस्क इत्यर्थः ॥ १४ ॥
नाप्रणतः ॥ १५ ॥
उपविष्टोऽपि । अप्रणतः अनवनतशरीरः । उच्छिष्टानामपामङ्गेषु पातस-
म्भवादितिभावः । अत्यन्तावनतकायस्तुन “तिष्ठन्नाचामेत्प्रह्वोवे” त्यापस्तम्ब-
सम्वादात् ॥ १५ ॥
नाङ्गुलीभिः ॥ १६ ॥
अङ्गुलीभिरूर्ध्वमुदकमुत्क्षिप्य “कायत्रैदशिकाभ्यां वे”ति मनूक्ताचमनती-
र्थविकल्पपचेऽपि नोत्क्षेपस्तत्र(१) कार्यः किन्तु संहताभिरङ्गुलीभिः सावधानः
शनैराचामेत् । नित्यन्तु ब्राह्मतीर्थमेवाचमने विप्राणाम् । “ब्राह्मेण विप्रस्तीर्थेन
नित्यकालमुपस्पृशेत्” इति मनूक्तेः ॥ १६ ॥
नातीर्थेन ॥ १७ ॥
तीर्थादाचमनार्थं विहितादन्येन प्रकारेण । प्रतिषिद्धतीर्थेन(२) पित्र्येण वा ।
तथाच मनुः—
“ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् ।
कायत्रैदशिकाभ्यां वा न पित्र्येण कदाचन” ॥ इति ।
विप्र इत्याचमनकर्तृमात्रोपलक्षणम् । आचमनोद्देशेन तीर्थविधानात् ।
कायं—प्राजा(३)पत्यम् । त्रैदशिकन्दैवम् । अत्र सम्भवे ब्राह्मतीर्थनैवाचमनम् ।
नित्यकालमितिश्रवणात् । व्रणादिना ब्राह्मतीर्थावरोधे कायत्रैदशिकाभ्यांचेति व्य-
वस्थितोविकल्पः । पित्र्यन्तु सदा निषिद्धं “न पित्र्येण कदाचने”ति निषेधाद्दि-
त्याचारादर्शादयः । पित्र्येण तर्जन्यङ्गुष्ठमध्येन । तान्येतानि तीर्थानि—
‘कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य तु ।
प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् ॥”
इति याज्ञवल्क्योक्तान्यवगन्तव्यानि ॥ १७ ॥
न सशब्दम् ॥ १८ ॥
शब्देन सह यथा भवति तथा नाचामेत् । क्रियाविशेषणमेतत् । “क्रिया-
विशेषाणानाङ्कर्मत्वं नपुंसकत्वञ्चे—”त्यनुशासनप्रसिद्ध्याऽत्र द्वितीयान्तमे-
तत्पदम् ॥ १८ ॥
( १ ) पामरास्तु—अङ्गुलीभिर्मृदादिना दन्तान्प्रक्षाल्याचामन्ति तेऽप्यनेन निराकृता
वेदितव्याः पृथगपि ( दन्तधावनप्रकरणे ) निषिद्धं तदन्यत्रेत्यवगन्तव्यम् ।
( २ ) तथाचात्राप्राशस्त्यार्थे नञ् बोध्यः । “अपशवोऽन्ये गोऽश्वेभ्यः” इत्यत्र यथा ।
( ३ ) को ब्रह्मा देवताऽस्येत्यर्थेऽण् । “कस्येत्” ( पा० ४।२।२५ ) इति—अस्येत्वे
वृद्धिरोयादेशश्च ॥
कण्डिका ] गोभिलगृह्यसूत्रम् — २६
नानवेक्षितम् ॥ १९ ॥
अनवेक्षितं — दृष्ट्वा अपूतम् । हस्तगृहीतमुदकमवेक्ष्येव यथालब्धं दृश्य-
केशकीटादिरहितं नोपस्पृशेत् । “रात्राववलोकितेनापि शुद्धिस्क्ता मनीषिभिः ।”
इति स्मरणाद्रात्रावेष नियमोन । किंतु तत्र ( रात्रौ ) वस्त्रपूतन्तदपेक्षितमिति
द्रष्टव्यम् ॥ १९ ॥
न बाह्यंसः ॥ २० ॥
बाह्यौ जानुभ्यां बहिष्कृतावंसौ स्कन्धौ (१) यस्य तथाभूतः सन् नोपस्पृशेत् ।
“अन्तर्जान्वरत्नी कृत्वा त्रिरपोहादीः(२) पिवेद्”ति हारीतस्मृतिदर्शनात् ॥२०॥
नान्तरीयैकदेशस्य कल्पितोत्तरीयत्वात् ॥ २१ ॥
अधः परिधानवस्त्रमन्तरीयमुच्यते तदेकदेशस्य तदवयवस्य । उत्तरीयता-
ङ्कल्पयित्वा । एकवासा इत्यर्थः । याजुषास्तु तद्विधीयते । (पा०गृ० २।६।२३) २१
नोष्णाभिः ॥ २२ ॥
उष्णाभिर्बहिस्तप्ताभिरद्भिरिति पुनर्घर्मसंतप्ताभिरपीत्यर्थः । भट्टभाष्येतु — अ-
स्यापवादकवचनमुपन्यस्तम् “उदकेगातुरोनाऽथ तथोष्णेनोष्णपायिनाम्” इति२२
न सफेनाभिः ॥ २३ ॥
अद्भिरेव ॥ २३ ॥
न च सोपानत्कः क्वचित् ॥ २४ ॥
चशब्दोऽप्यर्थोभिन्नक्रमश्च । उपानहौ प्रसिद्धे ताभ्यां सहितः सोपानत्कः :
क्वचिच्च क्वचिदपि कस्याञ्चिदप्यवस्थायान्नोपस्पृशेत् । देवलः —
“सोपानत्कोजलस्थोवा मुक्तकेशाऽपि वा द्विजः ।
उष्णीषी वापि नाचामेद्वस्त्रेणाऽऽवेष्ट्य वा शिरः ॥” इति ।
अत्र विशेषोगोभिलीये —
“जानुभ्यामूर्ध्वमाचम्य जले तिष्ठन्न दुष्यती”त्युक्तम् ।
सोपानत्क इत्युपलक्षणम् । पादुकास्थोऽपि नाचामेत् । तथाच मरीचिः —
“न बहिर्जानु न त्वरया नासनस्थोन चोत्थितः ।
न पादुकास्थानन्यचित्तः शुचिः प्रयतमानसः ॥
उपस्पृशेद्द्विजोनित्यं शुद्धः पूतोभवेन्नरः ।
मुक्त्वाऽऽसनस्थोऽप्याचामेन्नान्यकाले कदाचन ॥” इति ॥ २४ ॥
कासक्तिकः ॥ २५ ॥
नोपस्पृशेदित्यनुवर्त्तते । के शिरसि—आसक्तिका—आवेष्टिका (वस्त्रबन्धनं)
( १ ) तत्प्रधानौ बाहू इति तदर्थः ।
( २ ) हृद्गाः । एतच्च विप्रविषयम् । “हृद्गाभिः पूयते विप्रः” इत्याद्यनुपदं ( २९
सूत्रे ) व्यक्तं भविष्यति ॥
३० आचमनविधिः । [ प्रपाठके १
कृता येन सोऽयं काम्क्तिकः । कृतशिरोवेष्टनः । उपलक्षणमेतत् । बद्धपरिकरः
कञ्चुकीचैवमुच्यत इत्यन्ये ॥ २५ ॥
एवम्—
गले बद्धः ॥ २६ ॥
गलावम्बितवासाः । प्रावृतोत्तरासङ्गः । नोपस्पृशेत् ॥ २६ ॥
चरणौ न प्रसार्यच ॥ २७ ॥
उपस्पृशेदित्यनुवर्त्तते । चरणौ-पादौ । प्रसार्य-वितत्य । .चशब्दः- “आ-
सनारूढचरणोनाचामेन्न जपेत्क्वचित्” इति स्मृत्यन्तरोक्तं समुच्चिनोति ॥ २७ ॥
अन्ततः प्रत्युपस्पृश्य शुचिर्भवति ॥ २८ ॥
अन्ततः । अन्ते । सार्वविभक्तिकस्तसिः । ( पा० ५।४।४४ वा० ) आर-
ब्धवैधककर्म्मणाम् अनुपदवक्ष्यमाणशयनादीनाञ्चान्तेऽवसाने प्रत्युपस्पृश्य—
पुनराचम्य शुचिः शुद्धोभवति । अत्र “सावधारणं सर्वं वाक्यमब्भक्षोवायु-
भक्ष” इति वदुपस्पृश्यैव शुचिर्भवति नान्यथेत्यर्थः । अत्र प्रत्युपस्पृश्येत्यस्य
स्पृष्ट्वोदकम्पाणिनेति भट्टभाष्यसम्मतार्थः । सचायं जलस्पर्शः पूर्व[८]सूत्र-
व्याख्याने स्पष्टमभिहितः । अन्येत्त्वाहुः—अन्ततोमध्यत इन्द्रियायतनानि
उपस्पृश्य(१) शुचिर्भवति न पार्श्वत इति ॥ २८ ॥
हृदयस्पृशस्त्वेवापआचामेत् ॥ २९ ॥
हृदयस्य स्पृशः(२) । क्विबन्तमेतत्पदम् । अपः । ब्राह्मणविषयमेतत्(३) ।
( १ ) उपस्पर्शयित्वा । “जलेने”ति शेषः । अत्राचमनविध्यनन्तरं देवलः—
“रेतोमूत्रशकृन्मोक्षे भोजनेऽध्वपरिश्रमे ।
शौचमेवं विधम्परोक्तमीषच्चान्यत्र वर्त्तते ॥” इति ।
एवं विधं—यथोक्तसकलाङ्गसम्पन्नम् । ईषत्—आचमनमात्रमपि । इन्द्रियस्पर्शादिर-
हितम् । त्वरादिवशादन्यत्र शुद्धये भवतीत्यर्थ इत्याचारचिन्तामणौ वाचस्पतिमिश्राः
प्राहुः । अन्यत्रेत्युक्तिकर्म्मव्यतिरिक्तविषया । तत्र विशिष्य तद्विधानात् । अत्र
( आचमने ) प्रौढपादत्वं निषेधति कात्यायनः— “स्नानमाचमनं होमं भोजनं देवता-
र्चनम् । प्रौढपादो न कुर्वीत स्वाध्यायं पितृतर्पणम् ॥ तल्लक्षणं यथा—
“आसनारुढपादस्तु जानुनोर्जङ्घयोस्तथा ।
कृतावसक्थिकोप्यस्तु प्रौढपादः स उच्यते ॥” इति ।
आसनारुढपाद आसनारुढपादतलः । जानुनोर्जङ्घयोः कृतावसक्थिकः, कृतजानुज-
ङ्घाबन्धः । तुद्वयेन भेदप्रतीतेः । अत्रचा—“नेकोद्वाह्ये दारुशिले भूमिसमे । इष्टकाश्च सङ्की-
र्णीभूता” इति बौधायनवचनात्तथाविधापादपि तन्न कुर्यात् । इति बोध्यम् ॥
( २ ) षष्ठी समासः । यत्तु हृदयं स्पृशन्तीति विजगृाह कश्चित्तन्न तथासति "कर्म्म-
ण्यण्” ( पा० ३।२।१ ) इत्यगोपधागुणे हृदयस्पर्शीरिति प्रसज्येत ॥
( ३ ) भट्टभाष्ये तु हृदयस्पृश एव यथा भवन्ति तथाचामेन्नान्यथेति । तथा च त्रिः
१ कण्डिका ] गोभिलगृह्यसूत्रे- ३१
यद्वा चार्थेतु शब्दो—
“हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः ।
वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः” ॥
इति मनूक्तं समुच्चिनोति । प्राशिताभिरन्तरास्यप्रविष्टाभिः कण्ठमप्रा-
प्ताभिरपि । शूद्रस्तु जिह्वौष्ठान्तेनापि स्पृष्टाभिरद्भिः पूतोभवति । अन्तत इति
तृतीयान्तात्तसिः । ( पा० ५।४।४४ वा० ) ॥ २९ ॥
उच्छिष्टो हैवातोऽन्यथा भवति ॥ ३० ॥
हेत्यैतिहास्याख्यापकमव्ययम् । अतोऽस्माद्यथोक्ताचमनादन्यथाऽन्येन प्रका-
रेण कृताचमनोऽपि उच्छिष्ट एव भवतीतिवृद्धैराम्नायते । इतिर्ब्राह्मणवाक्यस-
माप्तिं द्योतयति ॥ ३० ॥
अथ प्रत्युपस्पर्शनानि ॥ ३१ ॥
अथ-उपस्पर्शनकथनानन्तरं प्रति-पुनरुपस्पृश्यन्ते येषु ( निमित्तेषु ) तानि
प्रत्युपस्पर्शनानि । द्विराचमाननिमित्तानि “वक्ष्यन्ते” इति शेषः(१) ॥ ३१ ॥
सुप्त्वा, भुक्त्वा, क्षुत्त्वा, स्नात्वा, पीत्वा विपरिधायच, रथ्या-
माक्रम्य, श्मशानञ्चान्ततः पुनराचामेत् ॥ ३२ ॥
इति गोभिलीये गृह्यसूत्रे प्रथमप्रपाठकस्य द्वितीया कण्डिका ॥ १ ॥ २ ॥ ꕤ
सुप्त्वा-निद्रामासेव्य । भुक्त्वा-अन्नादि भक्षयित्वा । क्षुत्त्वा-क्षुतं कृत्वा ।
स्नात्वा-आप्लुत्य । पीत्वा-पेयमुदकादि । विपरिधाय वासः। चः समुच्चये-
“होमे भोजनकाले च सन्ध्ययोरुभयोरपि ।
आचान्तः पुनराचामेद्व़ासोविपरिधाय च ॥”
इत्येवमादि स्मृत्यन्तरोक्तनिमित्तान्तरं समुच्चिनोति । रथ्या-प्रतोली-वि-
शिखेति समानाऽभिधानम्। तामाक्रम्य श्मशानं (२) चकारादाक्रम्येत्यनुषज्यते ।
प्राशिता आपोयदि हृदयङ्गमा न भवन्ति तदा चतुः प्राशयेत् । तथाच गौतमः—“त्रिश्च-
तुर्वाऽपआचामेदि”ति । तुशब्दात्क्षत्रियस्तु कण्ठगाभिरेव शुद्ध्येत । वैश्योभक्षितमात्राभि-
रेव । शूद्रोमुखप्रविष्टाभिरेवेत्युक्तम् ॥
( १ ) एतान्येव प्रत्युपस्पर्शनपदाऽभिधेयानि पुनराचमननिमित्तान्यष्टौ सांख्यातानी-
ति सत्यव्रतसामश्रमिणः ॥
( २ ) शवानां शयनम् । इति चन्द्रकान्तः । निरुक्ते तु श्मशयनं श्मशानम् । श्मश-
रीरम्” (३।५।३) इति । तच्चशवस्यैव । तथाचोक्तं स्कान्दे काशीखण्डे--“श्मशब्देनशवः
प्रोक्तः शाने शयनमुच्यते । निर्वचन्ति श्मशानार्थं मुने शब्दार्थकोविदाः” इति ।
( अ० ३० श्लो० १०३ ) ।
३२ आचमनविधिः। [ १ प्रपाठके-
आचान्तः कृताचमनोऽपि पुनराचामेत् । तथाच (१) द्विराचमनेषु निमित्तेषु
कर्त्तव्यमन्यत्र कर्मकालात् । तथाच पराशरः-
"क्षुते निष्ठीविते सुप्ते परिधानेऽश्रुपातने ।
कर्मस्थ एषुनाचानेद्दक्षिणं श्रवणं स्पृशेत्( २ )” ॥ इति ।
निष्ठीविते-मुखेन कठिनश्लेष्मत्यागे । नासानिसृते कठिनश्लेष्मणि च ।
पतितानाञ्चसम्भाषेऽधोवायुसमुत्सर्गेऽनृतभाषणे । एवमन्येष्वपि निमित्तेषु स-
त्सु कर्मस्थोऽसमर्थः समर्थोऽपि नाचामेत् किन्तु-दक्षिणं कर्णमेव स्पृशेत् ।
इति स्मृतिदीपिकायां महामहो० वामदेवोपाध्यायाः । तथा च वृद्धशातातपः-
“वातकर्मणि निष्ठीव्य दन्तश्लिष्टे तथाऽनृते ।
क्षुते पतितसम्भाषे दक्षिणं श्रवणं स्पृशेत् ॥” इति ॥ ३२ ॥
( इति सर्ववर्णसाधारणप्रकरणम )
इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायां "मृदुला"ख्यायां मुकुन्दशर्म्मसङ्कलिता-
याम्प्रथमप्रपाठकस्य द्वितीया कण्डिका ॥ १ ॥ २ ॥ * ॥
( १ ) द्विराचमनानन्तरं-विष्णुस्मरणमाह-आचारचिन्तामणिवृतं ब्रह्मपुराणम्-
“द्विराचम्य ततः शुद्धः स्मृत्वा विष्णुं सनातनम्” इति ।
( २ ) एतच्च विप्रस्यैव । "विप्रस्य दक्षिणे कर्णे सर्वास्तिष्ठन्ति देवताः" इति परा-
शरवचनात् । विप्रान्यस्तु-भूपृष्ठादिस्पर्शनमनुकल्पान्तरं कुर्यात् । तथा च वामदेवोपा-
ध्यायकृतस्मृतिदीपिकाधृत-मार्कण्डेयपुराणम् ।
“कुर्यादाचमने स्पर्शं गोपृष्ठस्यार्कदर्शनम् ।
कुर्वीताऽऽलम्भनञ्चापि दक्षिणश्रवणस्य च ॥
यथाविभवतोह्येतत्पूर्वाभावे ततःपरम् ।
न विद्यमाने पूर्वस्मिन्नुत्तराप्राप्तिरिष्यते ॥” इति ॥
गोपृष्ठस्य-भूतलस्य । "गौरिला कुम्भिर्नी क्ष्मा” इति भूमिपर्यायेऽमराभिधानात् ।
उपक्रान्तवचने एष्वित्युक्त्या एकदेशानुमत्या तुल्ययुक्त्या चान्यत्राप्येतत्कर्मस्थस्यानु
जानाति । भूतलमार्द्रमित्याचारदीपिकाकाराः । "आर्द्रन्तृणम्भूमिङ्गोमयञ्चोपस्पृशेत्”
इति बौधायनस्मरणात् । आचमननिमित्तानि विशेषतोनित्यकृत्यार्णवे द्रष्टव्यानि । तत्र
कर्मस्थस्य रौद्रादिमन्त्रजपादौ-आचमनमाह-योगियाज्ञवल्क्यः-
“रौद्रपैत्रासुरान्मन्त्रांस्तथा चैवाऽभिचारिकान् ।
व्याहृत्यालभ्य चात्मानमपःस्पृष्ट्वाऽन्यदाचरेत् ॥”
आत्मानमालभ्य-हृदयं स्पृष्ट्वा । स्वं स्तुत्त्वा वा । अपःस्पृष्ट्वा-आचम्येत्याचारचि-
न्तामण्यादयः । एतेनात्मस्तुतिरात्मवधतुल्येति महाभारतोक्तं समर्थितम्भवति । अप्रा-
शस्त्यस्मरणात् ॥
दि! It has ”त्यादि! Now look at line 13: It has ”and then—त्यादिor-त्यादि? Wait, look at line 21: “तपश्च तेजश्चे”त्यादि-In line 13: Wait, is that a dash between”andत्यादि? Look at line 13: “इमंस्तोमम्”or“इमंस्तोमम्ति”? Wait, look at the glyph before —: It is ति! Wait, why would it be ति? Wait, is it: “इमंस्तोमम्” इति? Wait, if it is इति, where is इ? Wait, look at the character before त्यादि: Could it be “इमंस्तोमम्” इत्या-? Wait, is that character an इ? Let's look at the character before त्यादि: Wait! Between “इमंस्तोमandत्यादि: Let's look at the letters very closely: “ इ मं स्तो मThen: Wait! Is itम स्मि? मस्ति`?
Wait, what if the mantra is:
"इमं स्तोम
१४ आचमनविधिः । [ १ प्रपाठके-
नु-अक्तं भूमिगतं यस्य सः । “अञ्जव्यक्तिम्रक्षणकान्तिगतिषु” ( रु० प० )
इत्यस्माद् “गत्यर्थाकर्म्मके”— (पा० ३।४।७२) त्यादिना कर्त्तरि क्तः । कुत्वं,
भूततद्दक्षिणजानुः । दक्षिणेनाग्निम् । दक्षिणस्यामदूरवर्त्तिन्यां दिश्यग्नेः । अत्र
“एनबन्यतरस्यामदूरेऽपञ्चम्या” (पा० ५।३।३५) इति विहितेनबन्तयोगे “एनपा
द्वितीया” (पा० २।३।३१) इति द्वितीया षष्ठ्यर्थे । “उपपदविभक्तित्वात् । “उप-
पदविभक्तीनां सम्बन्धोऽर्थः षष्ठ्यपवादत्वात् । “उत्सर्गसमानदेशा ह्यपवादा भव-
न्ती”ति महाभाष्योक्तेः । एवमग्रेऽपि यथायथमूह्यम् । “अदिते अनुमन्यस्व”
इति अनेन मन्त्रेण करणभूतेन । तेन मन्त्रं पठित्वेत्यर्थः । “मन्त्रान्ते कर्म्मादी-
न्सन्निपातयेत्” ( जै०सू० १२।३।१२ ) इत्यधिकरणसिद्धान्तात् । मन्त्रार्थस्तु-
हे अदिते ! देवि ! मामनुमन्यस्व अनुजानीहि । त्वयाऽनुमतः कर्म्मफलं
लब्धास्मीति । एवमग्रेतनयोरपि । एताभिस्तिसृभिरनुमतः कर्म्म कुर्वाणस्तत्फ-
लभाग्भवतीति आम्नायते । उदकाञ्जलिम्-उदकपूरितमञ्जलिम् । वस्तुतस्तु—
अञ्जलावुदकमिति सप्तमीसमासे “राजदन्तादित्वात्” ( पा० २।२।३१ ) उद-
कस्य पूर्वनिपातः । अवच्छेदकत्वरूपविषयता सप्तम्यर्थः । “गृहीत्वाचाऽऽस्य-
केशेष्वि”तिवत् । अञ्जल्यवच्छिन्नमुदकमिति तदर्थः । प्रसिञ्चेत्-प्रा(१)गग्रं
सिञ्चेत् ॥ १ ॥
“अनुमतेऽनुमन्यस्वे”तिपश्चात् ॥ २ ॥
पश्चात्—पश्चिमायां दिशि अग्नेः । उदकाञ्जलिं प्रसिञ्चेत् । इत्यनुवर्त्तते ।
उदगग्रमित्यर्थः ॥ २ ॥
“सरस्वत्यनुमन्यस्वे”त्युत्तरतः ॥ ३ ॥
उत्तरतः । उत्तरस्यान्दिशि । अग्नेः । उदकाञ्जलिं प्रसिञ्चेत्पूर्वाग्रम् ॥ ३ ॥
“देवसवितः प्रसुवे”ति प्रदक्षिणमग्निम्पर्युक्षेत्सकृद्वा त्रिर्वा । ॥ ४ ॥
“देवसवितःप्रसुवे”त्येवमादिना मन्त्रेण करणभूतेन । तथाच मन्त्रः “देव-
सवितःप्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय । दिव्यो गन्धर्व्वः केतपूः केतन्नः पुनातु
वाचस्पतिर्वाचं नःस्वदतु ।” इति । अस्यार्थः—हेदेव ! सवितः ! यज्ञंप्रसुव, क-
र्त्तव्यतयाऽनुजानीहि । यज्ञपतिं-यजमानंमाञ्च भगाय भजनीयाय कर्म्मफलाय
प्रसुव कर्म्मभागिनं कुर्व्वित्यर्थः । दिव्यो-दिविभवोगन्धर्व्वः रसानां धारयिता ।
केतपूः प्रज्ञाप्रदः । ( निघं० ३।९।१ ) स केतं प्रज्ञां नः पुनातु । (२)निर्मलाङ्क-
( १ ) अग्नेःखलु दक्षिणस्यामदूरवर्त्तिन्यां दिशि अयं प्रसेकः । पूर्वाभिमुखश्च कर्त्ता
भवति । “प्राञ्च्युदञ्चि वा कर्म्माण्यानुतिष्ठेरन्नि”ति च ब्राह्मणम् ।
( २ ) अत्रैक एवादित्यो गन्धर्व्वरूपेण प्राणरूपेण च स्तूयते । तत्र प्रथमं प्रत्यक्षकृतः ।
पश्चात्परोक्षकृत,इत्येवं निगमवाक्यशैली बहुत्रोपलभ्यत इतिद्रष्टव्यम् ।