सामग्री पर जाएँ
सर्वकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 60, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 60

कण्डिका ] गोभिलगृह्यसूत्रम् — २६
नानवेक्षितम् ॥ १९ ॥
अनवेक्षितं — दृष्ट्वा अपूतम् । हस्तगृहीतमुदकमवेक्ष्येव यथालब्धं दृश्य-
केशकीटादिरहितं नोपस्पृशेत् । “रात्राववलोकितेनापि शुद्धिस्क्ता मनीषिभिः ।”
इति स्मरणाद्रात्रावेष नियमोन । किंतु तत्र ( रात्रौ ) वस्त्रपूतन्तदपेक्षितमिति
द्रष्टव्यम् ॥ १९ ॥
न बाह्यंसः ॥ २० ॥
बाह्यौ जानुभ्यां बहिष्कृतावंसौ स्कन्धौ (१) यस्य तथाभूतः सन् नोपस्पृशेत् ।
“अन्तर्जान्वरत्नी कृत्वा त्रिरपोहादीः(२) पिवेद्”ति हारीतस्मृतिदर्शनात् ॥२०॥
नान्तरीयैकदेशस्य कल्पितोत्तरीयत्वात् ॥ २१ ॥
अधः परिधानवस्त्रमन्तरीयमुच्यते तदेकदेशस्य तदवयवस्य । उत्तरीयता-
ङ्कल्पयित्वा । एकवासा इत्यर्थः । याजुषास्तु तद्विधीयते । (पा०गृ० २।६।२३) २१
नोष्णाभिः ॥ २२ ॥
उष्णाभिर्बहिस्तप्ताभिरद्भिरिति पुनर्घर्मसंतप्ताभिरपीत्यर्थः । भट्टभाष्येतु — अ-
स्यापवादकवचनमुपन्यस्तम् “उदकेगातुरोनाऽथ तथोष्णेनोष्णपायिनाम्” इति२२
न सफेनाभिः ॥ २३ ॥
अद्भिरेव ॥ २३ ॥
न च सोपानत्कः क्वचित् ॥ २४ ॥
चशब्दोऽप्यर्थोभिन्नक्रमश्च । उपानहौ प्रसिद्धे ताभ्यां सहितः सोपानत्कः :
क्वचिच्च क्वचिदपि कस्याञ्चिदप्यवस्थायान्नोपस्पृशेत् । देवलः —
“सोपानत्कोजलस्थोवा मुक्तकेशाऽपि वा द्विजः ।
उष्णीषी वापि नाचामेद्वस्त्रेणाऽऽवेष्ट्य वा शिरः ॥” इति ।
अत्र विशेषोगोभिलीये —
“जानुभ्यामूर्ध्वमाचम्य जले तिष्ठन्न दुष्यती”त्युक्तम् ।
सोपानत्क इत्युपलक्षणम् । पादुकास्थोऽपि नाचामेत् । तथाच मरीचिः —
“न बहिर्जानु न त्वरया नासनस्थोन चोत्थितः ।
न पादुकास्थानन्यचित्तः शुचिः प्रयतमानसः ॥
उपस्पृशेद्द्विजोनित्यं शुद्धः पूतोभवेन्नरः ।
मुक्त्वाऽऽसनस्थोऽप्याचामेन्नान्यकाले कदाचन ॥” इति ॥ २४ ॥
कासक्तिकः ॥ २५ ॥
नोपस्पृशेदित्यनुवर्त्तते । के शिरसि—आसक्तिका—आवेष्टिका (वस्त्रबन्धनं)
( १ ) तत्प्रधानौ बाहू इति तदर्थः ।
( २ ) हृद्गाः । एतच्च विप्रविषयम् । “हृद्गाभिः पूयते विप्रः” इत्याद्यनुपदं ( २९
सूत्रे ) व्यक्तं भविष्यति ॥