गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 52, कुल 332 में से
संदर्भ में पढ़ेंकण्डिका ] गोभिलगृह्यसूत्रे- २२
भाष्यम्। रात्रेः षोडशमे भागे इति प्रामाणिकाः। तथाच गृह्यसङ्ग्रहे कात्यायनः।
“रात्रेः षोडशमे भागे ग्रहनक्षत्रभूषिते।
अनुदयं विजानीयाद्धोमस्तत्र प्रकल्पयेत्”॥
इति। तथाचानुदित इत्यस्योदयमप्राप्त इत्येवार्थः। प्रातराहुतिमग्निहोत्रल-
क्षणम् जुहुयात्। वाशब्दादुदितानुदितहोमयोर्वैकल्पिकत्वं दर्शयति।
तथाह मनुः-
“उदितेऽनुदिते चैव समयाध्युषिते तथा।
सर्वथा वर्त्तते यज्ञ इतीयं वैदिकी श्रुतिः॥”
इति। सम्पूर्णादित्यमण्डलरूपदर्शनोपलक्षितः काल उदितः। उदयात्पूर्व-
मरुणकिरणवान्प्रविरलतारकोऽनुदितः। सूर्यनक्षत्रवर्जितः कालः सम(१)या-
ध्युषितः। अनयोरनुदित एवान्तर्भावः। तत्र वाजसनेयिनां नियमेनानुदितहो-
मः। “सूर्योह वा अग्निहोत्रम्” इत्यारभ्य “तस्मादुदितहोमिनां विच्छिन्नमग्नि-
होत्रं मन्यामहे” इत्यन्तेन ( श० प० ) श्रुत्याम्नायेनोदितहोमनिन्दापूर्वकम्-
नुदितहोमस्य समर्थितत्वात्। छन्दोगानामुदितानुदितयोर्विकल्पः। आश्वलाय-
नानां पुनरुदितहोमनियमः। तथाच तैत्तिरीयब्राह्मणम्-
“प्रातः प्रातरनृतन्ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम्।
दिवा कीर्त्यमदिवा कीर्त्तयन्तः सूर्योज्योतिर्नच ज्योतिस्तदैषाम्”॥
इति अनुदितनिन्दार्थवादपुरस्सरमुदितहोमस्यैव “उदिते होतव्यम्” इति
श्रुत्या बोधनात्॥
अत्र भट्टभाष्ये—“प्रादुष्करणोपदेशाच्च पृथगग्न्यगारन्दर्शयति पृथक् च
महानसम्। अग्न्यगारात्प्रभृति धूमं शातयन्निति च लिङ्गात्। अन्यथा सदैव
प्रादुष्कृतत्वात् प्रादुष्करणमेव न स्यात्। यत्रार्थयुक्त्या महानसादावग्न्यवयवाः
र्यावदि” त्यादिना स्पष्टीकृतः। व्याख्यातञ्च परिशिष्टप्रकाशकृता “अभ्युदित” इत्यभि-
शब्दस्य सर्वतोभावार्थकस्योपादानात्सम्पूर्णसूर्य्यमण्डलदर्शने उदितहोमो न त्वर्धोदिता-
दावित्यवगन्तव्यमिति। अत एव मन्वर्थमुक्तावल्यां हरिहरभाष्ये च सम्पूर्णसूर्य्यमण्डल-
रूपदर्शनोपलक्षितः कालएवोदितपदेनोक्तः। एवमुक्तलक्षणे रेखामात्रोदितरूपानुदिते
कुतश्चित्प्रतिबन्धाद्धोतुमशक्नुवतामनुदितहोमिनां लोप एव प्रातराहुतेरापद्येतातस्त-
त्राशक्तोऽभ्युदिते जुहुयादिति कर्मप्रदीपवचनार्थः। श्रुतिश्चास्यामेवाशक्तिदशायामुदित-
होमं निन्दति “श्यावोऽस्याहुतिमभ्यवहरति य उदिते जुहोती”ति। “यथाऽति-
थये प्रद्रुतायान्नमाहरेयुस्तादृक् तद्यदुदये जुहोतीति” चैवमादिका॥ श्यावः श्वानविशेषः।
“श्वानौ द्वौ श्यावशबलौ वैवस्वतकुलोद्भवौ। ताभ्यां पिण्डं प्रयच्छामि स्यातामेताव-
हिंसकौ॥ इत्यत्र तथाभिधानात्॥
( १ ) तथाच “ततः प्रभातसमये नष्टे नक्षत्रमण्डले। रविबिम्बं न दृश्येत समयाध्यु-
षितं स्मृतम्” इति॥ मन्वर्थमुक्तावल्यादावप्येवमेव॥