सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

द्वादशः पटलः । ११६
अन्यदाभरणं चैव यत्र येन विराजते ॥ २० ॥
श्रीरत्नपादुके दत्त्वा चक्रमध्ये समानयेत् ।
गन्धं पुष्पं च धूपं च दीपं नैवेद्यमेव च ॥ २१ ॥
हेमपात्रगतं दिव्यं परमान्नं सुसंस्कृतम् ।
कपिलाघृतसंयुक्तं नानाव्यञ्जनसंयुतम् ॥ २२ ॥
भक्ष्यं भोज्यं तथा लेह्यं पेयं चोष्यं तथैव च ।
क्षीरपानीयसंयुक्तं दधिमधुसमन्वितम् ॥ २३ ॥
सकर्पूरं च ताम्बूलं मानसं परिकल्पयेत् ।
मनसापि महादेव्यै नैवेद्यं दीयते यदि ॥ २४ ॥
यो नरो भक्तिसंयुक्तः स दीर्घायुः सुखी भवेत् ।
माल्यं पद्मसहस्रस्य मनसा यः प्रयच्छति ॥ २५ ॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
स्थित्वा तव पुरे श्रीमान् सार्वभौमो भवेत् क्षितौ ॥ २६ ॥
मनसा तु महादेव्यै यः कुर्याच्च प्रदक्षिणम् ।
स दक्षिणां यमगृहं नरकान्नैव पश्यति ॥ २७ ॥
नमनं मानसं देव्या यो भक्त्या कुरुते नरः ।
सोऽपि लोकान्विजित्यैव नरलोके महीयते ॥ २८ ॥
महामायां महादेवीं समर्पयामि शक्तितः ।
नानाविधैस्तु नैवेद्यैरिति चिन्ताकुलस्तु यः ॥ २९ ॥
नैवेद्यं देहि नितरामिति यो भाषते मुहुः ।
सोऽपि लोकान् विभिद्यैव देवीलोके महीयते ॥ ३० ॥
१ 'पुन श्रीर' क पाठ. । २ 'द्ययं' क पाठ. । ३ 'नि न' क पाठ ।

१२० गन्धर्वतन्त्रे ।
बहिर्ध्वचक्रपूजां च मनसैव समाचरेत् ।
नवावरणशक्तीनां पूजनं मनसैव हि ॥ ३१ ॥
इत्थमन्तः समाराध्य मनसैव जपेन्मनुम् ।
तदा भवति सिद्धीशो देववद्विहरेत् क्षितौ ॥ ३२ ॥
एवमेव महेशानि पूजयामि महेश्वरीम् ।
योगिनो मुनयश्चैव पूजयन्ति सदा प्रिये ॥ ३३ ॥
केवलं मानसेनेव नैव सिद्धो भवेद्गृही ।
सबाह्येन तु तेनैव गृहस्थो मुनिपुङ्गवः ॥ ३४ ॥
पार्वत्युवाच
ध्यानयोगं महादेव श्रोतुमिच्छामि हे प्रभो ।
संपूर्णां कथयेशान येन सिद्धो भवेत् परैः ॥ ३५ ॥
ईश्वर उवाच
विना न्यासैर्विना पूजां विना जप्यैपुरस्क्रियाम् ।
ध्यानयोगाद्भवेत् सिद्धो नान्यथा खलु पार्वति ॥ ३६ ॥
ध्यानयोगादहं सिद्धो विष्णुश्चापि पितामहः ।
ध्यानयोगात् परं सिद्धौ मानवा अपि पापिनः ॥ ३७ ॥
सर्वतन्त्रेषु यद्गुह्यं सर्वसिद्धिप्रदायकम् ।
विना येन न सिध्यन्ति वर्षकोटिशतैरपि ॥ ३८ ॥
ध्यानयोगं प्रवक्ष्यामि सर्वतत्त्वप्रदायकम् ।
एकान्ते विजने रम्ये कृतासनपरिग्रहः ॥ ३६ ॥
निवृत्ताखिलचिद्वृत्तिर्मुद्रामुद्रितविग्रहः ।
कारणानन्दसंदोहैर्बहिरन्तःप्रपूरितः ॥ ४० ॥
१ 'नर' क. पाठ. । २ 'य्ये.' क पाठः । ३ 'द्धो' क पाठः ।

द्वादशः पटलः । १२१
गुरून् नत्वा विधानेन सोऽहमित्युपरोधतः ।
ऐक्यं संभावयेद्धीमाञ्जीवस्य ब्रह्मणोऽपि च ॥ ४१ ॥
कारणे सर्वभूतानां तत्त्वान्यपि च चिन्तयेत् ।
बीजभावेन लीनानि व्युत्क्रमात् परमात्मनि ॥ ४२ ॥
एवं विचिन्त्य देवेशि पार्थिवांशं जले गतम् ।
जलं तेजसि लीनं च तेजो वायौ विचिन्तयेत् ॥ ४३ ॥
आकाशे संहृतं वायुं खं च मनसि लीयते ।
मनोऽहंकारवशगं तथाहं महति स्थितम् ॥ ४४ ॥
महान्तं प्रकृतौ लीनं चिन्तयेत् परमेश्वरि ।
मुमुक्षुश्चिन्तयेल्लीनां प्रकृतिं परमात्मनि ॥ ४५ ॥
नाहो न रात्रिर्न संध्या न सूर्यो नैव चन्द्रमाः ।
इदं तमोमयं सर्वमासीद्भुवनवर्जितम् ॥ ४६ ॥
अप्रज्ञातमलक्ष्यं च प्रसुप्तमिव सर्वतः ।
चिन्तयित्वा महेशानि न किंचिदपि भावयेत् ॥ ४७ ॥
एकमासीत् परं ब्रह्म नित्यं सूक्ष्ममतीन्द्रियम् ।
नित्यानन्दमयं धाम तेजोरूपं सनातनम् ॥ ४८ ॥
तदेव प्रकृतिः सा तु तेजोरूपा सनातनी ।
नित्यानन्दवपुर्देवी तद्रूपा तत्प्रकाशिनी ॥ ४९ ॥
तयोर्योगार्दभूद्वृष्टिः परमामृतरूपिणी ।
परिपूर्णमिदं देवि समस्तं प्लावयेत् तथा ॥ ५० ॥


१ ‘तिप’ क पाठ । २ ‘जलं च तेजसो रूपं तेजोरूपं विचिन्तयेत् ।
निर्वाणवायुना वह्नि वायुनात्र विचिन्तयेत् ॥’ इति क पाठः ।
३ ‘तथा वै मनसि’ क पाठ ।

१२८ गन्धर्वतन्त्रे ।
तत्राम्भसि स्वमात्मानं चिन्तयेत् साधकोत्तमः ।
बुद्बुदं चिन्तयेत्तत्र प्रकृतिं चिन्तयेत् पराम् ॥ ५१ ॥
प्रकृतिर्हि महान्तं वै अहं च महतस्तथा ।
अहङ्कारान्मनश्चैव मनसः खं समुत्थितम् ॥ ५२ ॥
आकाशाद्वायुमुत्कृष्य वायोस्तेजः समुत्थितम् ।
तेजसो जलमासाद्य जलाच्च पृथिवीं स्मरेत् ॥ ५३ ॥
बहिष्कृत्य यथास्थानं निवेश्य विधिना ततः ।
हैमं ब्रह्माण्डमेभिः स्याद् भूबीजेन दृढं स्मरेत् ॥ ५४ ॥
प्रणवेन द्विधा कृत्वा जलौघैः परिपूरयेत् ।
ब्रह्माण्डाभ्यन्तरे तोयं तदधो भेकमव्ययम् ॥ ५५ ॥
तस्य पृष्ठे महादेवि कालाग्निरुद्ररूपकम् ।
आधारशक्तिं तत्रैव मूलप्रकृतिरूपिणीम् ॥ ५६ ॥
ब्रह्मशिलांसमारूढां कूर्माकारां शशिप्रभाम् ।
पद्मद्वयधरां देवीं मूर्धनि कूर्मधारिणीम्^२ ॥ ५७ ॥
नीलाभं चिन्तयेत् कूर्ममनन्तं कुन्दसंनिभम् ।
तस्य मूर्ध्नि स्थितं देवि श्वेतं वाराहरूपकम् ॥ ५८ ॥
तमालशामलां दन्ते धारयन्तं वसुन्धराम्^१ ।
तां च संचिन्तयेत्तत्र नीलेन्दीवरधारिणीम् ॥ ५९ ॥
चिन्तयेत् सलिलैः पूर्णां चतुःसागरमेखलाम् ।
तन्मध्ये चिन्तयेद्देवि सुधासागरमद्भुतम् ॥ ६० ॥
रक्ताभममृतं तत्र शुद्धलाक्षारसोपमम् ।
१ 'माकृ ख पाठ । २ 'कूर्मे च मूर्ध्नि धारिणीम्' क पाठ ।

द्वादशः पटलः । १२३
तन्मध्ये चिन्तयेद्देवि द्वीपं विद्रुमसंनिभम् ॥ ६१ ॥
गिरिराजशताकीर्णं परितश्चुवनं महत् ।
गिरौ स्वर्णगिरिं चैव कल्पोद्यानं गिरेस्तटे ॥ ६२ ॥
चम्पकाशोकपुन्नागपाटलैः कुटजैस्तथा ।
लवङ्गमाधवीबिल्व-देवदारुनमेरुभिः ॥ ६३ ॥
मन्दारपारिजाताद्यैः कल्पवृक्षैः सुपुष्पितैः ।
सर्वतोऽलंकृतं दिव्यैर्नित्यपुष्पफलद्रुमैः ॥ ६४ ॥
चन्दनैः कर्णिकारैश्च मातुलुङ्गैः करञ्जकैः ।
द्राक्षेक्षुरम्भाजम्बूभिर्मधुकैराम्रकैरपि ॥ ६५ ॥
दाडिमीचूतपनसैः पूगैः कर्पूरकैरपि ।
कदलीकुन्दखर्जूरनारिकेलैरलंकृतम् ॥ ६६ ॥
कदम्बैः करवीरैश्च तगरैर्नागकेसरैः ।
१सै२वन्तीस्वर्ण३यूथीभिर्वज्रैर्दमनकैरपि ॥ ६७ ॥
मालतीमल्लिकाजातीकेतकीशतपत्रकैः ।
अन्यैः सुगन्धिपुष्पाद्यैः शोभितं यूथिकादिभिः ॥ ६८ ॥
अन्योन्यासक्तवल्लीभिर्वृक्षखण्डैश्च मण्डितम् ।
सर्वर्तुकुसुमोपेतैर्नमद्भिरुपशोभितम् ॥ ६९ ॥
मन्दमारुतसंभिन्नकुसुमामोददिङ्मुखम् ।
उत्फुल्लकुसुमामोदप्रहृष्यद्भृङ्गसंकुलम् ॥ ७० ॥
कूजत्कोकिलसंघेन४ वाचालितदिगन्तरम् ।
कालमेघसमालोकन्नृत्यद्बर्हिकदम्बकम् ॥ ७१ ॥
१ 'ऐश पाठ । २ 'पा' ख पाठ । ३ 'थि' क पाठ । ४ 'हेन' क. पाठ ।

१२४ गन्धर्वतन्त्रे ।
शारिकाशुकबहुलैः कूजत्कलरवैर्युतम् ।
द्वन्द्वभावं प्रकुर्वद्भिर्मृगैर्नानाविधैरपि ॥ ७२ ॥
सरित्सरोभिरच्छोदैः शोभितं कुमुदोत्पलैः ।
तेषु सरःसु विपुलं महारसरसामृतम् ॥ ७३ ॥
सर्वतोऽलंकृतं दिव्यं लसत्काञ्चनपङ्कजम् ।
मत्तषट्पदनि(र्य्य?र्जु)ष्टं शकुन्तैश्च कलस्वनैः ॥ ७४ ॥
हंसकारण्डवाकीर्णं चक्राह्वैः सारसैरपि ।
तन्महासरःपुलिने रत्नसोपानमण्डिते ॥ ७५ ॥
महारसरसान्दोलवीचिविक्षेपशीतले ।
सर्वकामदुघं दिव्यं सर्वरत्नसमन्वितम् ॥ ७६ ॥
मौक्तिकैः कुसुमैः स्रग्भिर्दु कूलैः स्वर्णतोरणैः ।
स्मरेत् कल्पतरुं तत्र तदधो रत्नभूमिकाम् ॥ ७७ ॥
विस्तीर्णां सुमनोध्यासां तन्मध्ये रत्नमण्डपम् ।
परितः पारिजाताढ्यं भास्वरं शशिशीतलम् ॥ ७८ ॥
उदयदित्यसंकाशं रत्नसोपानमण्डितम् ।
शतयोजनविस्तीर्णं चतुर्द्वारसमन्वितम् । ७६ ॥
द्वार्षु विद्रुमदेहल्याभातं वज्रकवाटकम् ।
रत्नसंक्लृप्तसंशोभिकवाटाष्टकसंयुक्तम् ॥ ८०॥
नानारत्नविशोभाढ्यै३रत्नप्राकारमण्डितम् ।
नवरत्नसमाक्लृप्ततुङ्गप्राकारतोरणम् ॥ ८१ ॥
तत्रतत्र विनिःक्षिप्तनानारत्नोपशोभितम् ।


१ 'श' क पाठ । २ 'महद्रया' क पाठ । ३ 'ड्य' क पाठ ।

द्वादशः पटलः । १२५
महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः ॥ ८२ ॥
शिखरेष्विन्द्रनीलेषु हेमकुम्भैरलंकृतम् ।
चक्षुष्मत्पद्मरागाग्रैर्वज्रभित्तिषु निर्गतैः ॥ ८३ ॥
जुष्टं¹ विचित्रवैतानैर्महा[र्घ्यै?र्घै]र्हेमतोरणैः ।
सर्वर्द्धयुपचयैरर्कमणिस्तम्भैर्विराजितम् ॥ ८४ ॥
हेमदण्डशिखालम्बिध्वजावलिपरिष्कृतम्³ ।
स्वस्वस्थान(स्थि?कृ)तावस्थैर्लोकपालैरधिष्ठितम् ॥ ८५ ॥
सिद्धचारणगन्धर्वैर्विद्याधरमहोरगैः ।
किन्नरैरप्सरोभिश्च क्रीडद्भि[र्दु?र्यु²]ष्टदिङ्मुखम् ॥ ८६ ॥
नृत्यसंगीतनिरतैरमरस्त्रीगणैर्युतम् ।
नवरत्नसमाबद्धस्तम्भराजिविराजितम् ॥ ८७ ॥
तप्तहाटकसंक्लृप्तवातायनमनोहरम् ।
नानारत्नांशुकोद्वद्धसुवर्णशतकोटिभिः ॥ ८८ ॥
किंकि(नी?णी)मणिसंनद्धपताकाभिरलंकृतम् ।
महामाणिक्यवैदूर्यरत्नचामरभूषितम् ॥ ८६ ॥
जातरूपमयै रत्नैश्चित्रितैरतिविस्तृतैः ।
माणिक्यरत्नवैदूर्यस्वर्णमालावलीयुतैः ॥ ६० ॥
अन्तरान्तरसंबद्धरत्नैर्दृष्टिमनोहरैः ।
विचित्रितैश्चित्रवर्णैर्वितानैरुपशोभिनम् ॥ ६१ ॥
स्थूलमुक्ताफलोद्दामलम्बमानैरलंकृतम् ।
उपर्युपरि विन्यस्तनिलयेषु पृथक् पृथक् ॥ ६२ ॥

१ 'युष्ट' क पाठ । २ 'यु' क पाठ । ३ 'स्कृतम्' क पाठ ।

१२६ गन्धर्वतन्त्रे ।
क्लृप्तैः कशि(म्बु?पु)भिः कान्तं पर्यङ्कव्यजनासनैः ।
दिव्योपकरणोपेतं सर्वकालसुखावहम् ॥ ६३ ॥
दुकूलक्षौमकौ(षे?शे)यैर्नानावर्णैर्विराजितम् ।
स्रग्भिर्विचित्रपुष्पाभिर्मञ्जुशिञ्जे^१त्षडङ्घ्रिभिः ॥ ६४ ॥
चन्दनागुरुकर्पूरमृगनाभिविलेपितम् ।
चन्दनागुरुकर्पूरधूपितं^२ सुमनोहरम् ॥ ६५ ॥
नानाकुसुमसौरभ्यवाहिगन्धवहान्वितम् ।
नन्दनोद्यानमध्यस्थमधः कल्पतरोरपि ॥ ६६ ॥
एवं संचिन्त्य मनसा मण्डपं सुमनोहरम् ।
तन्मध्ये स्फुरितं ध्यायेन्महामाणिक्यमण्डपम् ॥ ६७ ॥
शरच्चन्द्रनिभच्छत्रं मुक्तामाणिक्यमण्डितम् ।
हेमदण्डशिखालम्बिश्वेतचामरभूषितम् ॥ ६८ ॥
तदधःस्थां स्मरेद्रक्तां महामाणिक्यवेदिकाम् ।
उद्यदर्केन्दुकिरणां चतुरस्रोपशोभितम् ॥ ६६ ॥
वेदिकां वेदिकास्थाने सिंहासनं ततोपरि^३ ।
तस्याग्नेयादिकोणेषु धर्मादिकांस्तु संस्मरेत् ॥ १०० ॥
दिग्वधर्मादिकांस्तत्र चिन्तयेद्गात्ररूपिणः ।
रक्तश्यामहरिद्रेन्द्रनीलाभान् पादरूपिणः ॥ १०१ ॥
वृषके(शविभृ?सरिभृ) तेभरूपान् धर्मादिकान् स्मरेत् ।
प्रसूनतूलिकां तत्र सिंहासनस्य मध्यमे ॥ १०२ ॥
तन्मध्ये परमं ध्यायेत् सर्वतत्त्वात्मकाम्बुजम् ।
१ 'ञ्ष' क पाठ । २ 'प्रधूपितम' क पाठ । ३ ऐश पाठ ।

द्वादशः पटलः । १२७
आनन्दकन्दमेवात्र संविन्नालं तथैव च ॥ १०३ ॥
प्रकृतिविकाररूपद्वात्रिंशत्पत्रकेसरम् ।
पञ्चाशद्वर्णबीजाढ्यकर्णिकापरिमण्डितम् ॥ १०४ ॥
कर्णिकायां स्मरेत् सूर्य तन्मध्ये सोममण्डलम् ।
[सोममण्डलमध्ये तु संस्मरेद्वह्निमण्डलम्] ॥ १०५ ॥
वह्निमण्डलमध्ये तु सत्त्वं च परिचिन्तयेत् ।
रजश्च तत्र संचिन्त्य तमोऽपि च तन्मध्यतः ॥ १०६ ॥
ज्ञानतत्त्वात्मनश्चैव मायातत्त्वात्मनस्तथा ।
विद्यातत्त्वात्मनो देवि कलातत्त्वात्मनो यजेत् ॥ १०७ ॥
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
एते पञ्च महाप्रेताश्चतुर्दिक्ष्वध्यसंस्थिताः ॥ १०८ ॥
सदाशिवोपरिगतं त्रिशृङ्गज्योतिरव्ययम् ।
तस्य मध्ये महापद्मं पीयूषपरिपूरितम् ॥ १०६ ॥
सुधार्णवासने तत्र त्रिपुरां प्रकटेश्वरीम् ।
पोताम्बुजासने तद्वच्चिन्तयेत् त्रिपुरेश्वरीम् ॥ ११० ॥
चिन्तयेत् साधको भक्त्या गुप्तयोगिन्यधीश्र्वरीम् ।
आत्मासनगतां तत्र स्मरेत् त्रिपुरसुन्दरीम् ॥ १११ ॥
गुप्ततरेश्वरीं देवीं, चक्रासने विचिन्तयेत् ।
त्रिपुरवासिनीं देवीं संप्रदायगणेश्वरीम् ॥ ११२ ॥
सर्वमन्त्रासने देवि चिन्तयेत् त्रिपुराश्रियम् ।
कुलकौलेश्वरीं देवीं, साध्यासनगतां ततः ॥ ११३ ॥


१ 'राश्रि' ख पाठ ।

१२८ गन्धर्वतन्त्रे ।
त्रिपुरमालिनीं प्राज्ञे निगर्भयोगिनीश्वरीम् ।
सिंहासने ततः पश्चात् सिद्धां त्रिपुरपूर्विकाम् ॥ ११४ ॥
पर्यङ्कशक्तिपीठे तु त्रिपुरामबां विचिन्तयेत् ।
कामेश्वराङ्कपर्येङ्कंसमासीनां परां कलाम् ॥ ११५॥
रक्तपद्मनिभां देवीं बालार्ककिरणारुणाम् ।
जपाकुसुमसंकाशां दाडिमीकुसुमप्रभाम् ॥ ११६ ॥
पद्मरागप्रतीकाशां कुङ्कुमोदकसंनिभाम् ।
स्फुरन्मुकुटमाणिक्यकिङ्किणीजालमण्डिताम् ॥ ११७ ॥
कालालिकुलसंकाशकुटिलालकपल्लवाम् ।
प्रत्यग्रारुणसंकाशवदनाम्भोजमण्डलाम् ॥ ११८ ॥
किंचिदर्थेन्दुकुटिलललाटमृदुपट्टिकाम् ।
पिनाकधनुराकारसुभ्रुवं परमेश्वरीम् ॥ ११९ ॥
आनन्दमुदितोल्लोललीलान्दोलितैलोचनाम् ।
स्फुरन्मयूखसंघातविलसद्धेमकुण्डलाम् ॥ १२० ॥
सुँगण्डमण्डलाभोगजितेन्द्वमृतमण्डलाम् ।
विश्वकर्मविनिर्माणसूत्रसुँस्पष्टनासिकाम् ॥ १२१ ॥
ताम्रविद्रुमबिम्बाभरक्तोष्ठीममृतोपमाम् ।
दाडिमीबीजवज्राभदन्तपङ्क्तिविराजिताम् ॥ १२२ ॥
रत्नदीपसमुल्लासिजिह्वां मधुरभाषिणीम्
१ 'मोपमाम्' क पाठ । २ 'श्रुलता' क पाठः । ३ 'लङ्घित' ख पाठ । ४ 'ललित'
क. पाठः । ५ 'न्दुसुतलोचनाम्' क पाठ. । ६ 'दिनि' क पाठः । ७ 'वि' ख पाठ. ।
८ 'रक्त' ख. पाठ । ९ 'न्तर्बिम्बोष्ठी ' क पाठः । १० 'सुशोभिताम् ' क पाठ. ।
११ 'स्फुरद्भापजिह्ववामूलविराजिताम्' ख पाठ. । इद पद्यार्ध क पाठे नास्ति ।

द्वादशः पटलः । १२६
स्मितमाधुर्यविजितमाधुर्यरससागराम् ॥ १२३ ॥
अनौपम्यगुणोपेतचिबुकोद्देशशोभिताम् ।
कम्बुग्रीवां महादेवीं मृणालललितैर्भुजैः ॥ १२४ ॥
मणिकङ्कणकेयूरभारखिन्नैः प्रशोभिताम्¹ ।
रक्तोत्पलदलाकारसुकुमारकराम्बुजाम् ॥ १२५ ॥
कराम्बुजनखज्योत्स्ना²विराजितनभःस्थलाम्³ ।
मुक्ताहारलतोपेतपीनोन्नत⁴पयोधराम् ❊ ।
त्रिवलीवलनायुक्तमध्यदेशसुशोभिताम् ॥ १२६ ॥
लावण्यसरिदावर्त्ताकारनाभिविभूषिताम्⁵ ।
अनर्घ्यरत्न⁶घटितकाञ्चीयुक्तनितम्बिनीम् ॥ १२७ ॥
नितम्बबिम्बद्विरदरोमराजीवराङ्कुशाम् ।
कद्ली⁷ललितस्तम्भसुकुमारोरुमिश्ररीम् ॥ १२८ ॥
लावण्यकन्दलीतुल्यजङ्घायुगलमण्डिताम् ।
गूढगुल्फपदद्वन्द्वप्रपदाजितकच्छपाम् ॥ १२६ ॥
नूपुरैर्विलसत्पादपङ्कजातिमनोहराम् ।
ब्रह्मविष्णुशिरोरत्ननिघृष्टचरणाम्बुजाम् ॥ १३० ॥
तनुदीर्घाङ्गुलीभास्वन्नखचन्द्रविराजिताम् ।
शीतांशुशतसंकाशकान्तिसंतानहासिनीम् ॥ १३१ ॥
लौहित्यजितसिन्दूरजपादाडिमरागिणीम् ।
रक्तवस्त्रपरीधानां रक्ताभरणभूषिताम् १३२

१ 'भूषणै परिशोभिताम्' क पाठः । २ 'तिर्विं' ख पाठः । ३ 'तीम्' क पाठः ।
४ 'समुन्न' क पाठः । ५ 'सुशोभिताम्' क. पाठः । ६ 'र्घ्यं' क. पाठः ।
७ 'कदली' ख पाठः ।

  • पीनोन्नतस्तनकुचा तनुमध्येन शोभितामित्यधिकः पाठः ख ।

१३० गन्धर्वतन्त्र ।
इच्छाशक्तिमयं पाशमङ्कुशं ज्ञानरूपिणीम् ।
क्रियाशक्तिमये बाणधनुषी दधतीं पराम् ॥ १३३ ॥
कर्पूरशकलोन्मिश्रताम्बूलपूरिताननाम् ।
महामृगमदोद्दामकुङ्कुमारुणविग्रहाम् ॥ १३४ ॥
सर्वशृङ्गारवेशाढ्यां सर्वालंकारभूषिताम् ।
जगदाह्लादजननीं जगद्रञ्जनकारिणीम् ॥ १३५ ॥
जगदाकर्षणकरीं जगत्कारणरूपिणीम् ।
सर्वदेवमयीं देवीं सर्वमन्त्रमयीं पराम्३ ॥ १३६ ॥
सर्वलक्ष्मीमयीं साक्षात्परमानन्दरूपिणीम्४ ।
निर्लेपं निर्गुणं शुद्धमात्मानं त्रिपुरामयम् ॥ १३७ ॥
आत्माभेदेन संचिन्त्य याति तन्मयतां नरः ।
साहमित्यस्य सततं चिन्तनात्तन्मयो भवेत् ॥ १३८ ॥
तामेव चिन्तयेद्देवि नान्यत् किंचित्तया विना ।
तत्तेजोभिरिदं सर्वं परिपूर्णं विभावयेत् ॥ १३६ ॥
एवं भावनयाविष्टो६ देववद्विहरेत् क्षितौ ।
ध्यानयोगपरस्यास्य पूज्यो नास्तीह कश्चन ॥ १४० ॥
स एव सुकृती लोके स पूज्यो नतु पूजकः७ ।
योगात्मा योगविज्ज्ञानी स देवो नतु मानुषः ॥ १४१ ॥
संन्यासी स च विन्यासी युक्तात्मा स मुनिर्मतः ।
नासाध्यं वर्तते तस्य स सिद्धो योगिपुङ्गवः ॥ १४२ ॥
इन्द्रियप्रीणनैर्द्रव्यैस्तोषयेद् भूषयेत् सदा ।
१ 'स्थापन' ख पाठः । २ 'मन्त्र' क. पाठः । ३ 'सौभाग्यसुन्दरीम्' ख. पाठः ।
४ 'नित्या' ख. पाठः । ५ 'सुन्दरीम्' ख. पाठ । ६ 'सो' ख पाठः । ७ 'दृष्टो' ख. पाठः ।

द्वादशः पटलः । १३१
आत्मानमेव सततं पूजयेद् देवताधिया ॥ १४३ ॥
देववद्विहरेन्नित्यं कालयोगपरायणः ।
यत् पश्यति यच्छृणोति गीतनृत्यादिकं च यत् ॥ १४४ ॥
परिदधाति यत्किंचित् स्वयं यदनुलिम्पति ।
हस्त्यश्वरथखट्वादि यदारोहति साधकः ॥ १४५ ॥
यत् करोति यदश्नाति तत् सर्वं देवताधिया ।
विषयान् विषयी भुङ्क्ते यानेव स्वमनोरथान् ॥ १४६ ॥
तत्तत् समग्रमासाद्य तत्सर्वं देवताधिया ।
जाग्रदादि सुषुप्त्यन्तं सर्वं तद्देवताधिया ॥ १४७ ॥
दिव्य एव भवेत्तत्र न चैवान्यः कदाचन ।
तस्माद् दिव्यपरो यस्तु देवीमानन्दरूपिणीम् ॥ १४८ ॥
पूजयेत् सततं भक्त्या महात्रिपुरसुन्दरीम् ।
मोक्षार्थी लभते मोक्षं ध्यानयोगपरायणः ॥ १४६ ॥
तां तु यश्चिन्तयेद्रात्रौ भोगी ध्यानपरायणः ।
कामेश्वराङ्कपर्यङ्कसमासीनां परां कलाम् ॥ १५० ॥
सर्वाङ्गसुन्दरीं हृद्यां प्रसादसुमुखेक्षणाम् ।
सकारेणामभिध्यायेत् सर्वाङ्गेषु मनो दधत् ॥ १५१ ॥
चतुर्वर्गं करे तस्य जीवन्मुक्तः स एव हि ।
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे ध्यानयोगनिरूपणं
द्वादशः पटलः ॥ १२ ॥
१ 'ध्यान' क पाठ. । २ 'करुणा' ख पाठ. ।

त्रयोदशः पटलः ।
—o—
श्रीपार्वत्युवाच
बहिर्यागविधिं ब्रूहि साङ्गेन परमेश्वर ।
विशेषार्घस्य संस्थानं नित्या(ज?य)जनमेव च ॥ १ ॥
ईश्वर उवाच
तादृशीमम्बिकां ध्यात्वा त्रिधात्मानं च तन्मयम् ।
तेनैव मूलमन्त्रेण शिरोदेशे तदेव हि ॥ २ ॥
स्वकीये कुसुमं दद्यादङ्गन्यासं पुनस्तथा ।
चैतन्यं सर्वभूतानां यद् ब्रह्म सोऽहमीश्वरः ॥ ३ ॥
सोऽहमित्यस्य सततं चिन्तनाद् देवरूपता ।
आत्मनो जायते सम्यग्भावनाव्नात्र संशयः ॥ ४ ॥
पूजोपकरणास्यापि देवत्वमिह जायते ।
सर्वेषां देवतादृष्ट्या जायते शुद्धतापि च ॥ ५ ॥
अहं देवोऽथ नैवेद्यं पुष्पगन्धादिकं च यत् ।
देवाधारो ह्यहं देवो न देवो मत्परः क्वचित् ॥ ६ ॥
देवमेव यजे चाहं देवदेवोऽहमेव च ।
यदि बाह्यार्चनैर्द्रव्यसंपत्तिरपि विद्यते ॥ ७ ॥
विशेषार्घ्यादिकं देवि तदा कुर्यादतन्द्रितः ।
पूजार्घ्यपात्रं नैवेद्याद्याधारपानपात्रकम् ॥ ८ ॥
सर्वं ताम्रमयं कुर्याद्यत्किंचिदिह पूजने ।
ताम्रे देवाः प्रमोन्दन्ते ताम्रे देवाः स्थिताः सदा ॥ ६ ॥

१ 'र्घ्यस्य' क. पाठः । २ 'ह्या' क. पाठ । ३ 'ना' क. पाठः ।

त्रयोदशः पटलः । १३३
देवीप्रीतिकरं ताम्रं तस्मात् ताम्रं प्रयोजयेत् ।
शङ्खशुक्तिरजतस्वर्णैर्दिव्यानां पात्रमिष्यते ॥ १०॥
महाशङ्खैस्तु वीराणां फलजं वनवासिनाम् ।
अष्टाङ्गुलस्य न न्यूनं नाधिकं सार्धपाङ्कितः ॥ ११ ॥
सर्वेषामेव पात्राणां मानमेवं विधीयते ।
पञ्चरत्नैर्महादेव्याः पञ्च पात्राणि कारयेत् ॥ १२ ॥
सामान्यं च विशेषं च पाद्यमाचमनीयकम् ।
कुम्भं चापि प्रयत्नेन रत्नैः कुर्याद्विभूतये ॥ १३ ॥
रत्नं गगनसंज्ञं च स्वर्गरत्नं तथैव च ।
मर्त्यपातालरत्ने च नागरत्नं तथैव च ॥ १४ ॥
गारुडं चैव माणिक्यं वज्रं वैदूर्यमेव च ।
नीलं च क्रमतो विद्यात् पञ्च रत्नानि योजयेत् ॥ १५ ॥
बीजपञ्चकमेतेषां क्रमाद्वक्ष्ये सुदुर्लभम् ।
गसौ च (स?प)मनाः पश्चादिन्द्रस्थाः *क्रमतः प्रिये ॥१६॥
नादबिन्दुकलायुक्ता वामकर्णविभूषिताः ।
तर्पणार्थं विशेषेण चक्रपूजानिवेदने ॥ १७ ॥
श्रीपात्रं साधयेद्धीमान् विधिना साधकोत्तमः ।
योनिमुद्रां विधायादौ कुर्यादर्घ्यस्य साधनम् ॥ १८ ॥
आत्मश्रीचक्रयोर्मध्ये चतुरस्रं तु कारयेत् ।
तन्मध्ये चैव षट्कोणं तन्मध्ये वृत्तमुत्तमम् ॥ १६ ॥
त्रिकोणं तत्र संलिख्य चन्दनेन वरानने ।
१ 'जत्स्थ' क पाठः ।

  • 'इन्द्रस्था इति लकारस्था' तेन ग्लूं स्लू प्नूं म्लू न्हूँ इति ।

१३४ गन्धर्वतन्त्रे ।
मण्डलं तं समभ्यर्च्य साधयेदासनं ततः ॥ २० ॥
बालाबीजत्रयं देवि ततस्त्रिपुरसुन्दरी ।
अर्घ्यपात्रासनं चैव साधयामीति साधयेत् ॥ २१ ॥
तथैवास्त्रेण तु तथा१ सामान्यार्घ्योदकेन तु ।
प्रक्षाल्य परमेशानि मण्डले स्थापयेत्ततः ॥ २२ ॥
वह्निमण्डलरूपं तं कलाभिः सह पूजयेत् ।
पूर्ववत् परमेशानि पात्रं प्रक्षाल्य साधकः ॥ २३ ॥
विशेषार्घ्यपदात् पात्रं प्रतिशब्दादनन्तरम् ।
स्थापयामीति मनुना संस्थाप्य तदनन्तरम् ॥ २४ ॥
सूर्यमण्डलरूपं तं कलाभिः सह पूजयेत् ।
पूजयेत्तं विधानेन बिन्दु[श्रु?स्रु]तसुधामयैः ॥ २५ ॥
मातृकां प्रतिलोमेन मूलाभिमन्त्रितामृतैः ।
आदिमैः पूरयेद्वापि तथा पुष्पासवैरपि ॥ २६ ॥
कपिलायास्तथा क्षीरैर्नारिकेलामृतैरपि ।
इक्षुरसैः सुगन्धैश्च मधुरत्रितयेन वा ॥ २७ ॥
पूरयेत् तन्महापात्रं नानाद्रव्यैः कदाचन ।
अधिकारिप्रभेदेन द्रव्यभेदा भवन्ति हि ॥ २२८ ॥
स्वयंभूकुसुमं तत्र कर्पूरागुरुचन्दनैः ।
रोचनाकुङ्कुमैर्मिश्रं कस्तूरीपरिभावितम् ॥ २६ ॥
निक्षिपेत् परमेशानि शर्करां मधुसंयुताम् ।
पूर्वोक्रमण्डलं तत्र संचिन्त्य साधकोत्तमः ॥ ३० ॥
१ 'युतया' इति क पाठ । २ 'काप्रति' क पाठ ।

त्रयोदशः पटलः । १३५
अङ्कुशमुद्रया पश्चात् तीर्थं वै प्रार्थयेत् ततः ।
ऋजुमध्यमामध्यपर्वाक्रान्ता तर्जन्यधोमुखी ॥ ३१ ॥
विज्ञेयाङ्कुशमुद्रेयं कुञ्चिता मध्यपर्वतः ।
सौरमण्डलतः पश्चात् तीर्थमावाहयेत् तथा ॥ ३२ ॥
गङ्गावतारमन्त्रेण सर्वैस्तीर्थगणैः सह ।
गङ्गापि यमुनायाति पूजापात्रजलं प्रति ॥ ३३ ॥
मीनमुद्रां विधायाथ हस्ताभ्यां पात्रमुत्तमम् ।
आच्छाद्य परमेशानि चिन्मयं तीर्थमागतम् ॥ ३४ ॥
अधोमुखावुभौ हस्तौ स्वस्वोपरि च संस्थितौ ।
पार्श्वद्वयगताङ्गुष्ठौ मीनमुद्रेयमीरिता ॥ ३५ ॥
माणिक्यं मौक्तिकं देवि विद्रुमं गारुडं तथा ।
पुष्परागं तथा वज्रं नीलं गोमेदकं शुभम् ॥ ३६ ॥
वैडूर्यं नवरत्नानि तत्राम्भसि नियोजयेत् ।
रत्नेशीं पूजयेत्तत्र सर्वपापप्रणाशिनीम् ॥ ३७ ॥
श्रीबीजं च पराबीजं तथैव बीजपञ्चकम् ।
पूर्वबीजे विलोमेन तत्पश्चाद्विनियोजयेत् ॥ ३८ ॥
द्रव्यदोषहरा देवी रत्नेशीयं नवाक्षरी ।
षडङ्गानि च षट्कोणे पूर्वोक्तानि प्रपूजयेत् ॥ ३६ ॥
तन्मध्ये च परेशानि वृत्तं पूर्णेन्दुसंनिभम् ।
चन्द्रमण्डलरूपं तममृतं परिचिन्तयेत् ॥ ४० ॥
कलाभिस्तं प्रपूज्याथ चिन्तयेन्मध्यमण्डलम् ।
१ 'तु' ख. पाठः । २ 'परमेशानि' ग्व पाठः ।

१३६ गन्धर्वतन्त्रे ।
अकथादितिरेखाढ्यं हेद्वाभ्यन्तरमध्यगम् ॥ ४१ ॥
तदग्रे कामरूप च जालन्धरं च वामतः ।
दक्षे पूर्णगिरिं चैव मध्ये चैवोड्डियानकम् ॥ ४२ ॥
तत्र तत्र यजेद् देवीं चतुर्व्यूहस्वरूपिणीम् ।
सूर्यकोटिप्रतीकाशं चन्द्रकोट्ययुतप्रभम् ॥ ४३ ॥
तथा दशभुजं देवं पञ्चवक्त्रं त्रिलोचनम् ।
खड्गखट्वाङ्गे¹पट्टिशमुद्गरं शूलकुन्तकम्³ ॥ ४४ ॥
बिभ्रतं खेटकं² शक्तिं वरदाभयपाणि(न?क)म् ।
तस्योत्सङ्गे (स्वधां?सुरां)देवीं चन्द्रकोट्ययुतप्रभाम् । ४५॥
हिमकुन्देन्दुधवलां पूर्वायुधकरोद्यताम् ।
प्रहसन्तीं विशालाक्षीं देवदेवस्य संमुखीम्⁴ ॥ ४६ ॥
एवं ध्यात्वा समावाह्य कुलाकुलमयीं विभुः ।
अमृतीकरणं कुर्यान्मुद्रया धेनुसंज्ञया ॥ ४७ ॥
अवगुण्ठ्य ततो मन्त्री नीरजायतलोचने ।
सकलीकरणं कुर्यात् षडङ्गेन च पूर्ववत् ॥ ४८ ॥
परमीकरणं कुर्यान्महामुद्रिकया ततः ।
मु(ष?स)लमुद्रिकां योनिं गालिनीं च प्रदर्शयेत् ॥ ४६ ॥
वाममुष्ट्यन्तरेऽङ्गुष्ठे दक्षिणे स(वशा?रला)ङ्गुलीः ।
वामाङ्गुष्ठं स्पृशेदग्रे योजिना दक्षिणादधः (?) ॥ ५० ॥
मुष्टी कृत्वा तु हस्ताभ्यां वामस्योपरि दक्षिणम् ।
कुर्यान्मु(ष?स)लमुद्रेयं सर्वविघ्नविनाशिनी ॥ ५१ ॥
१ 'इङ्गा' क पाठ । २ 'खेटक' क पाठ. । ३ 'दन्तकम्' क पाठ. ।
४ 'खे' क पाठ ।

त्रयोदशः पटलः । १३७
कनिष्ठाङ्गुष्ठकौ भुग्नौ करयोरितरेतरम् ।
तर्जनीमध्यमानामाः संहता भुग्नवर्जिताः ॥ ५२॥
मुद्रेयं गालिनी प्रोक्ता परमामृतदायिनी ।
*शिवचन्द्रौ मातृकान्तं कालशक्रा(द्यु?म्बु)वह्वयः ॥ ५३ ॥
वायुश्च वामकर्णेन योजिता बिन्दुनादिनः ।
बीजमेतत् समुच्चार्य तथा चानन्दभैरवम् ॥ ५४ ॥
ङेन्तं शिखामन्त्रयुतं पुनर्बीजानि संलिखेत् ।
§ चन्द्रं हित्वाँदि (न?तः)कुर्यात्कर्णो वामाक्षि योजयेत् ॥५५॥
(स्वधा?सुरा)देव्यै ततो वौषट् इयमानन्दभैरवी ।
अनेन तौ तु संयोज्य परमानन्दनन्दितौ ॥ ५६ ॥
तदामृते तयोर्योगादमृतं क्षरतेऽचिरम् ।
तयोः पञ्चोपचारेषु ऋचः पञ्च नियोजयेत् ॥ ५७ ॥
प्रथमं¹प्रकृतेर्हंसः प्र तद्विष्णुरनन्तरम् ।
त्रैयम्बकस्तृतीयः स्याच्चतुर्थस्तत्पदादिकः ॥ ५८ ॥
विष्णुर्योनिं-पदादिस्तु पञ्चमः परिकीर्तितः ।
दशधा प्रजपेद्विद्यां संस्पृश्यामृतमद्रिजे ॥ ५९ ॥
वाग्भवं कामबीजं च सर्गवान् मनुयुग् भृगुः ।
तथामृतेपदं ब्रूयात् पश्चादमृतोद्भवे तथा ॥ ६० ॥

  • १ 'शक्तौ' क पाठ । २ 'दिन' ख पाठ. । ३ 'म' क पाठ ।
    ॐ शिवचन्द्रौ हसौ मातृकान्तं च कालो म शक्रो ल अम्बु व वह्नि र वायु य वाम-
    कर्ण ऊ तेन हसक्षमलवरयू आनन्दभैरवाय वौषट् । इति
    § उक्तमन्त्रस्यादौ सकार हित्वा वामकर्णस्थाने वामाक्षि ईमिति योज्यम् । तेन सहक्षमल-
    वरयी सुरादेव्यै वौषट् इति । वस्तुतस्तु हित्वेति स्थाने कृत्वेति स्पष्टः पाठो गुरुसम्प्रदायाद-
    नुमन्तव्य. तेन सकारमादित कृत्वेति ज्ञेय तत सहक्षमेल्यादिमन्त्र. ।

१३८ गन्धर्वतन्त्रे ।
अमृतेश्वरि तथेत्युक्त्वा पश्चादमृतवर्षिणि ।
अमृतं(श्रा?स्रा)वययुगं वह्निजायावधिर्मनुः* ॥ ६१ ॥
वाग्भवं वद्युग्मं च वाग्वादिनि चै१ वाग्भवम् ।
कामबीजं क्लिन्ने२ चोक्त्वा क्लेदिनि क्लेदयेति च ॥ ६२ ॥
महाक्षोभं कुरुयुगं कामबीजमतः परम् ।
तार्तीयं मोक्षमृत्युक्त्वा कुरुयुग्मं वदेत्ततः ६३
शक्तिबीजं पुनश्चान्ते संदीपनमनुः† प्रिये ।
संदीपनादिकं कृत्वा बोधिन्या बोधयेत् ततः ॥ ६४ ॥
कृताञ्जलिपुटो भूत्वा स्मरेन्मन्त्रं§ वरानने ।
एवं पात्रचतुष्कं च वटुकादेः पुनर्भवैत् ॥ ६५ ॥
गुरूणां च त्रयं चैकमेकमेवात्मनो भवेत् ।
एवं भवन्ति पात्राणि नवैव ह्युत्तमानि च ॥ ६६ ॥
पञ्चपात्रं भवेन्मध्ये मध्यमं त्वेकपात्रकम् ।
गुरवे गुरु(पा?पु)त्राय तत्पत्त्यै तत् समर्पयेत् ॥ ६७ ॥
(व?वी)रशक्त्यै (वरं?वीर) पात्रं निवेद्यात्मनि योजयेत् ।
एवमेवार्चनाद् देवि भवेदमृतमुत्तमम् ॥ ६८ ॥
कुशाग्रेण समादाय अमृतं सर्वपावनम् ।


१ 'तु' ख पाठ । २ 'क्लीन्नेत्यु' क पाठ. ।
* स्पष्ट यथा ऐंक्लींसौ अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृत स्रवय २ स्वाहा ।
† ऐ वदवद वाग्वादिनि ऐंक्ली क्लेन्ने क्लेदिनि क्लेदय महाक्षोभ कुरु२ क्लींसौ. मोक्ष कुरु २
सौ इति सदीपिनीविद्या ।
§ 'पूर्वल्लिखित ब्रह्माण्डखण्डमश्रुतमित्यादि मयि चित्स्फुरणा कुरु इत्यन्तम्' इति पर्याय-
रूपेणाधिक पाठो दृश्यते ।