सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 206, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 206

द्वादशः पटलः । १२५
महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः ॥ ८२ ॥
शिखरेष्विन्द्रनीलेषु हेमकुम्भैरलंकृतम् ।
चक्षुष्मत्पद्मरागाग्रैर्वज्रभित्तिषु निर्गतैः ॥ ८३ ॥
जुष्टं¹ विचित्रवैतानैर्महा[र्घ्यै?र्घै]र्हेमतोरणैः ।
सर्वर्द्धयुपचयैरर्कमणिस्तम्भैर्विराजितम् ॥ ८४ ॥
हेमदण्डशिखालम्बिध्वजावलिपरिष्कृतम्³ ।
स्वस्वस्थान(स्थि?कृ)तावस्थैर्लोकपालैरधिष्ठितम् ॥ ८५ ॥
सिद्धचारणगन्धर्वैर्विद्याधरमहोरगैः ।
किन्नरैरप्सरोभिश्च क्रीडद्भि[र्दु?र्यु²]ष्टदिङ्मुखम् ॥ ८६ ॥
नृत्यसंगीतनिरतैरमरस्त्रीगणैर्युतम् ।
नवरत्नसमाबद्धस्तम्भराजिविराजितम् ॥ ८७ ॥
तप्तहाटकसंक्लृप्तवातायनमनोहरम् ।
नानारत्नांशुकोद्वद्धसुवर्णशतकोटिभिः ॥ ८८ ॥
किंकि(नी?णी)मणिसंनद्धपताकाभिरलंकृतम् ।
महामाणिक्यवैदूर्यरत्नचामरभूषितम् ॥ ८६ ॥
जातरूपमयै रत्नैश्चित्रितैरतिविस्तृतैः ।
माणिक्यरत्नवैदूर्यस्वर्णमालावलीयुतैः ॥ ६० ॥
अन्तरान्तरसंबद्धरत्नैर्दृष्टिमनोहरैः ।
विचित्रितैश्चित्रवर्णैर्वितानैरुपशोभिनम् ॥ ६१ ॥
स्थूलमुक्ताफलोद्दामलम्बमानैरलंकृतम् ।
उपर्युपरि विन्यस्तनिलयेषु पृथक् पृथक् ॥ ६२ ॥

१ 'युष्ट' क पाठ । २ 'यु' क पाठ । ३ 'स्कृतम्' क पाठ ।