गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 200, कुल 446 में से
संदर्भ में पढ़ेंद्वादशः पटलः । ११६
अन्यदाभरणं चैव यत्र येन विराजते ॥ २० ॥
श्रीरत्नपादुके दत्त्वा चक्रमध्ये समानयेत् ।
गन्धं पुष्पं च धूपं च दीपं नैवेद्यमेव च ॥ २१ ॥
हेमपात्रगतं दिव्यं परमान्नं सुसंस्कृतम् ।
कपिलाघृतसंयुक्तं नानाव्यञ्जनसंयुतम् ॥ २२ ॥
भक्ष्यं भोज्यं तथा लेह्यं पेयं चोष्यं तथैव च ।
क्षीरपानीयसंयुक्तं दधिमधुसमन्वितम् ॥ २३ ॥
सकर्पूरं च ताम्बूलं मानसं परिकल्पयेत् ।
मनसापि महादेव्यै नैवेद्यं दीयते यदि ॥ २४ ॥
यो नरो भक्तिसंयुक्तः स दीर्घायुः सुखी भवेत् ।
माल्यं पद्मसहस्रस्य मनसा यः प्रयच्छति ॥ २५ ॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
स्थित्वा तव पुरे श्रीमान् सार्वभौमो भवेत् क्षितौ ॥ २६ ॥
मनसा तु महादेव्यै यः कुर्याच्च प्रदक्षिणम् ।
स दक्षिणां यमगृहं नरकान्नैव पश्यति ॥ २७ ॥
नमनं मानसं देव्या यो भक्त्या कुरुते नरः ।
सोऽपि लोकान्विजित्यैव नरलोके महीयते ॥ २८ ॥
महामायां महादेवीं समर्पयामि शक्तितः ।
नानाविधैस्तु नैवेद्यैरिति चिन्ताकुलस्तु यः ॥ २९ ॥
नैवेद्यं देहि नितरामिति यो भाषते मुहुः ।
सोऽपि लोकान् विभिद्यैव देवीलोके महीयते ॥ ३० ॥
१ 'पुन श्रीर' क पाठ. । २ 'द्ययं' क पाठ. । ३ 'नि न' क पाठ ।