गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
दशमः पटलः । ६६
इंयुतां भरणीं देवि दक्षनेत्रे प्रविन्यसेत् ॥ २९ ॥
ईंउंऊंकृत्तिकां चैव विन्यसेद्वामनेत्रके ।
ऋंॠंलूंलूंयुतां देवि रोहिणीं दक्षकर्णके ॥ ३० ॥
एंयुतां मृगशीर्षां च वामकर्णे प्रविन्यसेत् ।
ऐंकारेण तथाद्रां च दक्षनासापुटे न्यसेत् ॥ ३१ ॥
ओंऔंपुनर्वसुं चैव वामनासापुटे न्यसेत् ।
कंयुतं च न्यसेत् पुष्यं कण्ठैदेशे च पार्वति ॥ ३२ ॥
खगाभ्यां च तथाश्लेषां दक्षस्कन्धे प्रविन्यसेत् ।
घङाभ्यां च मघां देवि वामस्कन्धे प्रविन्यसेत् ॥ ३३ ॥
चंपूर्वफाल्गुनीं चैव दक्षकुर्परके न्यसेत् ।
वामकुर्परके देवि छंजंउत्तरफल्गु(णी?नी)म् ॥ ३४ ॥
दक्षिणे मणिबन्धे तु झंझंहस्तं च विन्यसेत् ।
मणिबन्धे तथा वामे टंठंचित्रां प्रविन्यसेत् ॥ ३५ ॥
डंकारेण तथा खातीं दक्षहस्ततले न्यसेत् ।
ढणाभ्यां च विशाखां वै वामहस्ततले तथा ॥ ३६ ॥
तथाभ्यामनुराधां च न्यसेन्नाभौ समाहितः ।
दंधंज्येष्ठां कटौ दक्षे त्रिभिर्मूलां च वामतः ॥ ३७ ॥
पूर्वाषाढां बकारेण दक्षोरौ विन्यसेत् ततः ।
भकारेणोत्तराषाढां वामोरौ तदनन्तरम् ॥ ३८ ॥
दक्षजानुप्रदेशे च मंश्श्रवणं च विन्यसेत् ।
१ 'तां' क पाठ. । २ 'ष्यां' क पाठः । ३ 'ण्ठे' क पाठः । ४ 'स्वां' क. पाठः ।
५ 'ती' क पाठ. । ६ 'या' क. पाठ ।
१०० गन्धर्वतन्त्रे ।
यंरंयुतां धनिष्ठां च वामे जानुनि विन्यसेत् ॥ ३९ ॥
शतभिषां लकारेण दक्षजङ्घाप्रदेशके ।
वंशंवर्णस्थितां वामे पूर्वभाद्रपदां न्यसेत् ॥ ४० ॥
तथैवोत्तरभाद्रां च षसहैर्दक्षपादतः ।
ळक्षाभ्यां बिन्दु(मद्ध्वा?मूर्ध)भ्यां रेवतीं विन्यसेत्ततः ॥४१॥
(४) रक्ताक्षीं च श्वेतवर्णां पशुभीतिकरां शुभाम् ।
खड्गं च चषकं चैव शूलं खट्वाङ्गमेव च ॥ ४२ ॥
अनुग्रामुग्रदंष्ट्रां च एकास्यां रिपुनाशिनीम् ।
पायसान्नप्रसक्तां च खरैः कल्पितविग्रहाम् ॥ ४३ ॥
डाकिनीं भावयेद्देवीं सर्वकामप्रपूरणीम् ।
❀स्वरान् पूर्वं समुद्धृत्य चन्द्रबिन्दुसमन्वितान् ॥ ४४ ॥
ठान्तद्वयं ततः पश्चात् पाशतूरीयभेदितम् ।
नादबिन्दुकलायुक्तं बीजद्वयमुदीरितम् ॥ ४५ ॥
ठान्तं भान्तं महीबीजं वारुणं वह्निवायवौ ।
वामकर्णस्ततो देवि नादबिन्दुकलायुतः ॥ ४६ ॥
डाकिन्यै नम इत्यन्ते संबोध्य डाकिनीं ततः ।
[दुग्धान्न?त्वग्धातु]गत इत्युक्त्वा चतुःषष्टिपदं ततः ॥४७॥
लक्षकोटिपदस्यान्ते योगिनीस्वामिनीति च ।
सर्वसत्त्ववशं ब्रूयात् क(वि?रि)शब्द(मयं?पदं)ततः ॥४८॥
१ 'द्व' क पाठः । २ 'ह' क पाठ । ३ 'श' क. पाठ ।
- अँ आँ इँ ईँ उँ ऊँ ऋँ ॠँ लूँ लूँ एँ ऐँ ओँ औँ अं अँ डाँ डीँ डमलवर
यूँ डाकिन्यै नमः डाकिनि त्वग्धातुगते चतुष्षष्टिलक्षकोटियोगिनी स्वामिनि सर्वसत्त्ववश-
करि आज्ञा मे देहि मम विच्चे । इति स्पष्टम् ।
दशमः पटलः । १०१
आज्ञां मे देहि तत्पश्चान्मम वि(क्रि?चे)पदद्वयम् ।
विशुद्धौ विन्यसेद्देवि राकिनीं चिन्तयेत् ततः ॥ ४६ ॥
हृत्पुण्डरीकमध्यस्थां दंष्ट्राभीममुखीं तथा ।
नवीननीरदश्यामां पीनोन्नतपयोधराम् ॥ ५० ॥
शूलं डमरुकं चैव दधतीं वज्रपद्मकै । १
शुक्ला(श्वाश?श्वास)कचितां च कठवर्णात्मविग्रहाम् ॥५१॥
कठवर्णांस्ततो रेफे पूर्ववत् स्वरभेदिते ।
[चा?ठा]न्तं हित्वाग्निवीजं च पूर्ववत् तदनन्तरम् ॥ ५२॥
राकिन्यै नम आभाष्य संबोध्य च तथा भवेत् ।
असृग्धातुगते पश्चाद् द्वात्रिंशल्लक्षकोटि च ॥ ५३ ॥
योगिनीस्वामिनि प्रान्ते पूर्ववत् तदनन्तरम् ।
रक्तवर्णां त्रिनेत्रां च देवदेवेशसंयुताम् ॥ ५४ ॥
दं[ष्ट्रीं?ष्ट्रिणी]मुग्ररूपाभां वज्रं शक्तिं वराभयौ ।
दधतीं चिन्तयेत् देवीं गुडभक्तोत्सुकां पराम् ॥ ५५ ॥
एवं ध्यात्वा महेशानीं डफवर्णात्मविग्रहाम् ।
डफवर्णांस्ततो देवि भूबीजद्वितयं तथा ॥ ५६ ॥
वह्निं हित्वा म[हा?ही]बीजं पूर्ववदपरं तथा ।
(सा?ला)किन्यै नम उच्चार्य संबोध्य च तथा व्रजेत् ३ ॥५७॥
मांसधातुगते पश्चात् षोडशलक्षकोटितः ।
पूर्ववदपरं सर्वं नाभिपद्मे प्रविन्यसेत् ॥ ५८ ॥
स्वाधिष्ठानाख्यपद्मे च काकिनीं परिचिन्तयेत् ।
१ 'वज्रपद्मे च धारिणीम्' क पाठ । २ 'रुद्रं' क पाठः । ३ 'भवेन्' ख पाठः ।
१०२ गन्धर्वतन्त्रे ।
पीतवर्णां महामत्तां गजकुम्भोपमस्तनीम् ॥ ५६ ॥
दध्यन्ना[श?स]क्तचित्तां च सुरप्रवरवन्दिताम् ।
शूलं डमरुकं चैव पाशं चाभयमेव च ॥ ६० ॥
वहन्तीं परमेशानीं बादिलान्तात्मविग्रहाम् ।
बादिलान्तांस्तथा कांकींकमलवरयूं ततः ॥ ६१ ॥
काकिन्यै नम इत्यन्ते संबोध्य चैव काकिनीम् ।
मेदोधातुगते पश्चात् तथाष्ट(दल?लक्ष)कोटि च ॥ ६२ ॥
योगिनीस्वामिनि प्रोच्य पूर्ववदपरं तथा ।
पञ्चवक्त्रां त्रिनेत्रां च वह्निभानुस्वरूपिणीम् ॥ ६३ ॥
चापं बाणं तथा पाशं स्त्रैणि च पुस्तकं तथा ।
ज्ञानमुद्रां च हस्ताब्जैर्दधतीं परमेश्वरीम् ॥ ६४ ॥
मुद्द्रान्नप्रीतिसंयुक्तां मूलाधारे विचिन्तयेत् ।
वादि[ध?सा]न्तांस्तथा सांर्सींसमलवरयूं तथा ॥ ६५ ॥
[शा?सा]किन्यै नम इत्यन्ते संबोध्य साकिनीं ततः ।
अस्थिधातुगते चैव चतुर्लक्षेति कोटि च ॥ ६६ ॥
योगि(नि?नी) स्वामिनि प्रान्ते वरवरदपदं तथा ।
बिन्दुस्थां शुक्लवर्णां च हक्षवर्णस्वरूपिणीम् ॥ ६७ ॥
डमरुं चाक्षसूत्रं च कपालं खड्गमेव च ।
पुस्तकं ज्ञानमुद्रां च दधतीं बाहुभिः सदा ॥ ६८ ॥
लोचनत्रयसंयुक्तां षड्वक्त्रां सर्वमोहिनीम् ।
१ 'न्त' क पाठः । २ 'नि' क पाठ । ३ 'सृ' क पाठः । ४ 'न्तास्त' क
पाठ । ५ 'शाशी श' क पाठः । ६ 'शा' क पाठ ।
दशमः पटलः । १०३
हरिद्रान्नप्रसक्ता च मधुमदमुदान्विताम् ॥ ६६ ॥
देवेन्द्रवन्दितां देवीं भावयेद्धाकिनीं पराम् ।
हंक्षंहांहीं च देवेशि हमलवरयूं तथा ॥ ७० ॥
हाकिन्यै नम उच्चार्य संबोध्य चैव हाकिनीम् ।
मज्जाधातुगते पश्चाद् द्विलक्षकोटिशब्दतः ॥ ७१ ॥
शेषं पूर्ववदुद्धृत्य भ्रुवोर्मध्ये प्रविन्यसेत् ।
अकारादिक्षकारान्तां मातृकां सर्वमुद्धरेत् ॥ ७२ ॥
यांयीं^२ तु परमेशानि यमलवरयूं तथा ।
याकिन्यै नम इत्यन्ते संबोध्यैव तु याकिनीम् ॥ ७३ ॥
शुक्रधातुगते पश्चाद्दशकोटिपदं ततः ।
पूर्ववच्च प्रविन्यस्य (५) राशिन्यासमतः परम् ॥ ७४ ॥
❀वेदार्णैर्दक्षगुल्फेऽथ मेषं विन्यस्य पार्वति ।
दक्षजानौ वृषं त्र्यर्णैर्वृषणे मिथुनं त्रिभिः ॥ ७५ ॥
द्वाभ्यां कर्कटकं कुक्षौ द्वाभ्यां स्कन्धेऽथ सिंहकम् ।
अनुस्वारविसर्गाभ्यां शवर्गेण च कन्यकाम् ॥ ७६ ॥
दक्षिणे च शिरोभागे विन्यसेद्वीरवन्दिते ।
तथा वामशिरोभागे कवर्गेण तुलां न्यसेत् ॥ ७७ ॥
चवर्गेण तथा स्कन्धे वृश्चिकं विन्यसेत् ततः ।
टवर्गेण तथा कुक्षौ धन्विनं विन्यसेत् ततः ॥ ७८ ॥
मकरं तु तवर्गेण वृषणे (दक्षिणे?वामके) न्यसेत् ।
१ 'ष' क पाठः । २ 'यां' क पाठ ।
- ॐ आं ह्रीं ईं मेषाय नमो दक्षगुल्फे इत्यादि ज्ञेयम् । वेदार्णैश्चतुरभिरक्षरैरित्यर्थः ।
१०४ गन्धर्वतन्त्रे ।
पवर्गेण तथा कुम्भं वामजानुनि विन्यसेत् ॥ ७६ ॥
यवर्गेण चकारेण मीनं गुल्फे तु वामके ।
चतुर्थीनतिसंयुक्तं स्थानेष्वेवं क्रमान्न्यसेत् ॥ ८० ॥
(६)अथ [पि?पी]ठानि विधिना यथास्थाने प्रविन्यसेत् ।
परापूर्वं च सर्वेषां मातृकां च पृथक् पृथक् ॥ ८१ ॥
चतुर्थीनतियुक्तानि मातृकावन्न्यसेत् क्रमात् ।
कामरूपं महापीठं वाराणसीं ततः परम् ॥ ८२ ॥
नेपालं१ च महापीठं पौण्ड्रवर्धनमेव चै३ ।
पुरास्थिरं महादेवि चरस्थिरमतः परम् ॥ ८३ ॥
पूर्णशैलं महापीठमर्बुदं च ततः परम् ।
काश्मीरं च तथा पीठं कान्यकुब्जमथो भवेत् ॥ ८४ ॥
आम्रातकेश्वरं पीठमेकाम्रं च ततः शिवे ।
त्रिस्रोतः पीठमुद्दिष्टं कामकोट्ठर्मतः परम् ॥ ८५ ॥
कैलासं भूतगरं केदारं पीठमुत्तमम् ।
श्रीपीठं च तथोंकारं जालन्धरमतः परम् ॥ ८६ ॥
मालवं च कुलान्तं च देवमातृकमेव च ।
गोकर्णं च ततो देवि मारुतेश्वरमेव च ॥ ८७ ॥
अट्टहासं च विरजं राजगृहमतः परम् ।
पीठं कोल्लागिरिं चैव एलापुरमतः प्रिये ॥ ८८ ॥
कालेश्वरमहापीठं प्रणवं च जयन्तिका ।
१ 'व' क पाठ । २ 'मेदान' क पाठ । ३ 'पौगण्डवर्द्धन तथा' ख पाठ । ४ 'दारु-
केश महा' ख पाठ । ५ 'प्र' ख पाठ । ६ 'टि' ख पाठ । ७ 'नव' क पाठ. ।
दशमः पटलः । १०५
पीठमुज्जयिनीं चैव क्षीरिकापीठमेव च ॥ ८६ ॥
हस्तिनापुरकं पीठं पीठमुड्डीशमेव च ।
प्रयागं चैव षष्ठीशं मायापुरजलेश्वरौ ॥ ६० ॥
मलयं च महापीठं श्रीशैलमथवापि वै १ ।
मेरुं गिरिं महेन्द्रं च वामनं चापि विन्यसेत् ॥ ६१ ॥
हिरण्यपुरकं पीठं महालक्ष्मीपुरं च वै ।
उड्डीयानं महापीठं छायापुर २ मतः परम् ॥ ६२ ॥
षोढान्यासस्त्वयं प्रोक्तः सर्वपापहरः सदा ।
षोढान्यासविहीनो यः प्रणमेद्देवि सुन्दरीम् ॥ ६३ ॥
सोऽचिरान्मृत्युमाप्नोति नरकं च प्रपद्यते ।
एवं न्यस्तशरीरस्तु भवेद् गङ्गाधरः स्वयम् ॥ ६४ ॥
मन्त्री नचात्र संदेहो निग्रहानुग्रहक्षमः ।
न तस्य पूज्यो लोकेऽस्मिन् पितृमातृमुखो नरः ॥६५॥
स्वयं च साधकश्रेष्ठो यं कंचन न (विन्दति?वन्दते) ।
स म(र्थो?र्त्यो)मृत्युमाप्नोति नात्र कार्या विचारणा ॥६६॥
नमस्कारं न कुर्वीत ज्येष्ठस्यापि कदाचन ।
गुरोरपि न पश्येतै म्रियते नात्र संशयः ॥ ६७ ॥
तस्मात् सर्वप्रयत्नेन नमस्कारं विवर्जयेत् ।
कामं क्रोधं तथा लोभं मायाहंकारमेव च ॥ ६८ ॥
संकल्पं भोजनालापं न कुर्यात् केनचित्सह ।
भोक्तव्यं योषिता सार्धं यत्किंचित् तत्तैयैव हि ॥ ६६॥
१ 'च तथा प्रिये' ख पाठ. । २ 'पीठ' ख. पाठ । ३ 'वन्देत' क पाठः ।
४ 'म्म' क पाठ. ।
१०६ गन्धर्वतन्त्रे ।
विन्यसेद्देवि युक्तात्मा त्रिकालं च दिवा निशि ।
यथा साभ्यासयोगेन सामर्थ्यं तद्वदाम्यहम् ॥ १०० ॥
यत्रायं निवसेद्देवि षोढान्यासी च साधकः ।
दिव्यं क्षेत्रं भवेत्तत्र समन्ताच्छतयोजनम् ॥ १०१ ॥
देवाः सर्वे नमस्यन्ति तं नमामि न संशयः ।
कृत्वा न्यासमिमं देवि यत्र गच्छति साधकः ॥ १०२ ॥
तत्र यद्विषये चैव यन्मानं¹ पुरुषैः सह ।
द्यावान्तरिक्षभूशैलजललाररायनिवासिनः ॥ १०३ ॥
भूतप्रेतपिशाचाश्च यक्षकूष्माण्डराक्षसाः ।
पश्यन्ति पावकारूढं ये चान्ये हिंसका जनाः ॥ १०४ ॥
शत्रुसंहतिसंकीर्णे² संग्रामेऽथापदेषु च ।
न भयं विद्यते तस्य परत्र शिवतां व्रजेत् ॥ १०५ ॥
ये केचित् पापसंघाताः सप्तजन्मान्तरोद्भवाः ।
नश्यन्ति न्यासमात्रेण भास्करेण तमो यथा ॥ १०६ ॥
सतताभ्यासयोगेन षण्मासेन च मानवे³ ।
दह्यते सर्वपापानि ब्रह्महत्यादिकानि च ।
किंचातिबहुनोक्तेन मम तुल्यो भवेद् ध्रुवम् ॥ १०७ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे षोढान्यासक्रमनिरूपणं
दशमः पटलः ॥ १० ॥
१ 'षण्मा' क पाठः । २ 'र्णे' क पाठ । ३ 'व' क पाठ. ।
एकादशः पटलः ।
—०—
ईश्वर उवाच
करशुद्धिर्ऋषिन्यास आसनं च ततः परम्¹ ।
कराङ्गयोः षडङ्गानि वशिन्याद्यमतः परम्³ ॥ १ ॥
न(र? [व])योनिचतुर्व्यूहतत्त्वन्यासादिकं तथा ।
मूलवर्णादिविन्यासः संमोहनाख्य एव च ॥ २ ॥
एतदेव हि नित्यं स्यात् काम्यं चान्यत् प्रकीर्तितम् ।
करशुद्धिकरीपूर्वं ⊛ त्रिपुरेति पदं ततः ॥ ३ ॥
अमृतार्णवशब्देऽपर्यासनाय नमो मनुः ।
पादयोर्विन्यसेत् पश्चाद्धालान्ते त्रिपुरेश्वरी ॥ ४ ॥
पोताम्बुजासनायान्ते नमो जानुनि विन्यसेत् ।
ह्रींक्लींसौस्त्रिपुरेत्युक्त्वा सुन्दरीति पदं ततः ॥ ५ ॥
डेन्तमात्मासनायान्ते नम(उच्चार्य?ऊर्वोः प्र)विन्यसेत् ।
आद्यं मध्यं तथान्तं च(श?कु)मार्याः शिवसंयुक्तम् । ॥६॥
त्रिपुरवासिनीत्युक्त्वा चक्रासनाय हृत्ततः ।
कटिद्वये प्रविन्यस्य शिवं सोमयुतं कुरु ॥ ७ ॥
एतस्या एव विद्याया ‡ त्रिपुरँश्रीपदं ततः ।
सर्वमन्त्रासनायान्ते नमो गुह्ये प्रविन्यसेत् ॥ ८ ॥
१ 'भूत' ख पाठ । २ 'पीठन्यास तथैवच' ख पाठ । ३ 'मातृकान्यासमेव च' ख पाठ । ४ 'द्री' क पाठ । ५ 'दि' क पाठ । ६ 'देशे' क पाठ । ७ '२' क पाठ ।
⊛ अआसौ. इति करशुद्धिकरीविद्या । † बालाया बीजत्रये शिवेनि हकारेण सयुतम् ।
‡ समनन्तरोक्तविद्याया एव बीजत्रये शिवो हकार सकारेण युत ।
१०८ गन्धर्वतन्त्रे ।
† परा च कामबीजं च वारुणां त्विन्द्रसंयुक्तम् ।
योनियुक्तं सबिन्दुं च त्रिपुरमालिनी ततः ॥ ६ ॥
साध्यासनाय मूले च नम इति प्रविन्यसेत् ।
‡ मायाबीजं रमाबीजं कुमार्याश्च तृतीयकम् ॥ १० ॥
तथा त्रिपुरसिद्धान्ते साध्यसिद्धासनं ततः
नाभिदेशे प्रविन्यस्य हृदये च प्रविन्यसेत् ॥ ११ ॥
§ शिवचन्द्रौ वह्निसंस्थौ वाग्भवं तदनन्तरम् ।
कामराजं कुमार्यास्तु शिवचन्द्रान्वितं कुरु ॥ १२ ॥
पृथ्वीबीजात्ततो वह्निं शक्तिबीजे ततः परम् ।
शिववह्नी नियोज्यैव हित्वा सर्गं तु बैन्दवम् ॥ १३ ॥
संयोज्य परमेशानि त्रिपुराम्बापदं ततः ।
प[र्वण?र्यङ्क]शक्तिपीठाय नमो हृदि प्रविन्यसेत् ॥ १४ ॥
- वदन्याशेषबीजान्ते महात्रिपुरभैर[व?वी] ।
सदाशिवमहाप्रेतपद्मासनाय चालिखेत् ॥ १५ ॥
नम इत्यज[बंधे?रन्ध्रे]तु विन्यसेत् साधकोत्तमः ।
‡‡ वह्निर्वरुणशक्रं च षष्ठस्वरविभूषितम् ॥ १६ ॥ -
नादबिन्दुकलायुक्तं वशिनीति पदं ततः ।
१ 'त्रिपुर' क पाठ. । † परा ह्रीं कामबीजं क्लीं । वारुण व इन्द्रः ल योनि
ए सबिन्दु तेन व्ले । ‡ माया ह्रीं रमा श्रीं बालायास्तृतीय सौः । § शिवचन्द्रौ
हकारसकारौ वह्नीति रकारारूढौ वाग्भवं ऐं तेन ह्सरैं । कामराजशक्तिबीजयोरपि उक्त-
वर्णाम्योजनया बीजान्तरे बोध्ये केवलमन्त्यकूटे विसर्गस्थाने बिन्दु स्थाप्य । तेन
हसकलरीं । ह्सरौ इति । * वदन्त्येति संपत्प्रदामैश्वीविद्या सा यथा ह्सैं हसकलरीं
ह्सौः इति । ‡‡ वह्नि र वरुणो व शक्रं ल षष्ठस्वर. नादादियुक्तः ऊ तेन रव्लूं इति
वशिनीवाग्देवताविद्या इति ।
एकादशः पटलः । १०६
वाग्देवता चतुर्थ्यन्ता नमः स्वरैः प्रविन्यसेत् ॥ १७ ॥
† मादनं शक्रमारूढं महामाया ततः परम् ।
इयं कामेश्वरी ज्ञेया कवर्गॆण ललाटके ॥ १८ ॥
§ धान्तं वरुणमिन्द्रं च चतुर्थस्वरबिन्दुकम् ।
एषैव मोदिनी देवी भ्रुवोर्मध्ये चवर्गेके ॥ १९ ॥
‡ वायुं पुरन्दरं देवि षष्ठस्वरविभूषितम् ।
नादबिन्दुकलायुक्तं विमलेयं समीरिता ॥ २० ॥
न्यस्तव्या कण्ठदेशे तु टवर्गेणैव पार्वति ।
- ष्टान्तं भान्तं च ज्वलनं तुरीयस्वरबिन्दुकम् ॥ २१ ॥
अरुणेयं तु वाग्देवी तवर्गेण हृदि स्मृता ।
जयिनी च ततो देवि ☿ नकुलिः सोमशक्रकम् ॥ २२ ॥
¶ वारुणं वायुबीजं च षष्ठस्वरविभूषितम् ।
नाभिदेशे समाख्याता पवर्गॆण वरानने ॥ २३ ॥
ऽ जान्तं भान्तं ततो रेफं वायुबीजसमन्वितम् ।
षष्ठस्वरसमायुक्तं नादबिन्दुकलायुतम् ॥ २४ ॥
सर्वेश्वरी(ष?य)वर्गेण स्वाधिष्ठानाख्यपङ्कजे ।
∥ संवर्तकं महेशानि कालबीजोपरिस्थितम् ॥ २५ ॥
वह्निबीजं ततो माया नादबिन्दुकलान्विता ।
† मादन क शक्रोति लकारारूढ महामाया ह्री इति कामेश्वरी । § धान्तं न
वरुण व इन्द्र ल चतुर्थस्वर ई तेत नवली । ‡ वायुः य पुरन्दर ल तेन ल्यूँ । - ष्टान्त ज भान्त म ज्वलन र तुरीयेति चतुर्थस्वर. ईं तेन ज्रीं । ☿ नकुलि ह
सोमशक्रोति सकारल्लकारौ । ¶ वारुण व वायु. य तथा षष्ठस्वर. तेन हसलवयूँ इति ।
ऽ जान्त क भान्त म रेफ र वायु य तथा षष्ठः स्वरः तेत क्ष्मर्यू इति । ∥ संव-
र्तक क्ष कालो म वह्नि र माया ईं तेन क्ष्मीं इति ।
११० गन्धर्वतन्त्रे ।
मूलाधारे शवर्गेण कौलिनी परिकीर्तिता ॥ २६ ॥
एता वाग्देवता देवि वशिनीवत् प्रविन्यसेत् ।
मूलविद्याद्विरावृत्त्या सर्वाङ्गुलितलेषु च ॥ २७ ॥
ङेन्तेषु परमेशानि न्यसेदङ्गानि षट् क्रमात् ।
नमः स्वाहा वषड् वौषड् हुं फडिति षडङ्गकम् ॥ २८ ॥
करयोरथ विन्यस्य षडङ्गेषु तथा न्यसेत् ।
नमोऽन्तं हृदयं ङेन्तं स्वाहान्तं च तथा शिरः ॥ २६ ॥
शि[खरे?खा व]षट् चतुर्थ्यन्ता हुं ङेन्तं कवचं ततः ।
नेत्रत्रयं च वौषट् च अस्त्रं फडन्तमीश्वरि ॥ ३० ॥
*हृदयं मध्यमानामातर्जनीभिः स्मृतं शिरः ।
मध्यमातर्जनीभ्यां स्यादङ्गुष्ठेन शिखा प्रिये ॥ ३१ ॥
दशभिः कवचं प्रोक्तं तिसृभिर्नेत्रमीरितम् ।
तथैवोक्ताङ्गुलीभ्यां च सशब्दमस्त्रमीरितम् ॥ ३२ ॥
पूजा तपोऽर्चनं होमः सिद्धमन्त्रकृता अपि ।
अङ्गविन्यासविधुरा न दास्यन्ति फलान्यमी ॥ ३३ ॥
वशिनीप्रमुखान् देवि विन्यसेत्तदनन्तरम् । १
मूलकूटत्रयेणैवं स्थानेष्वेष्ठु क्रमान्न्यसेत् ॥ ३४ ॥
§ कर्णयोश्चिबुके चैव शङ्खयोर्वदने पुनः ।
नेत्रयोर्नासि विन्यस्य अंसयोर्जठरे ततः ॥ ३५ ॥
पुनः कुर्परयोः कुचौ जानुनोर्लिङ्गमूर्धनि ।
१ 'ये' क पाठः । २ 'त शिव' क पाठः । ३ 'अश' क पाठः ।
- हृदयमित्यादिना षडङ्गन्यासमुद्रा निर्देशति । § नवयोनिन्यासमाह कर्ण-
योरिति । मूलबीजत्रयेणैवाय कार्य ।
एकादशः पटलः । १११
पादयोर्गुह्यदेशे च पार्श्वयोर्हृदयाम्बुजे ॥ ६३ ॥
स्तनयोः कण्ठदेशे च न्यसेदेवं विधानतः ।
चतुर्व्यूहं ततो देवि न्यसेत् पीठसमन्वितम् ॥ ३७ ॥
*मूलवाग्भवमुच्चार्य अग्निचक्रेपदं ततः ।
कामगिर्यालये पश्चान्मित्रेशपदमुद्धरेत् ॥ ३८ ॥
नाथात्मकेपदं पश्चात् कामेश्वरी पदं ततः ।
रुद्रात्मशक्तिशब्दाच्छ्रीपादुकायै नमो न्यसेत् ॥ ३६ ॥
आधारे परमेशानि हृदये च ततः परम् ।
मूलद्वि[त?ती] यमुच्चार्य सूर्यचक्रेपदं ततः ॥ ४० ॥
जालन्धरपदात् पीठे षष्ठीशनाथशब्दतः ।
आत्मकेपदमाभाष्य वज्रेश्वरीपदं ततः ॥ ४१ ॥
विष्ण्वात्मशक्तिशब्दान्ते पूर्ववच्च तदीरितम् ।
शक्तिकूटं समुच्चार्य सोमचक्रेपदं ततः ॥ ४२ ॥
पूर्णगिरिपदान्ते च पीठेपदमतः परम् ।
उड्डीशपरतो देवि नाथात्मकेपदं ततः ॥ ४३ ॥
तदन्ते योजयेद्देवि भगपूर्वा च मालिनी ।
ब्रह्मात्मशक्तिशब्दान्ते पूर्ववद् द्विद्ले न्यसेत् ॥ ४४ ॥
तुर्यबीजमथोच्चार्य ब्रह्मचक्रेपदात् ततः ।
तथैवोड्रयानपीठे तु [व?च]र्यानाथात्मकेपदम् ॥ ४५ ॥
तदन्ते परमेशानि महात्रिपुरसुन्दरी ।
१ 'श्री' क पाठ । २ 'मी' क पाठ ।
- स्पष्टं यथा ऐं अग्निचक्रे कामगिर्यालये मित्रेशनाथात्मके कामेश्वरीरुद्रात्मशक्ति-
श्रीपादुकायै नम आधारे । एवमग्रेऽपि बोध्यम् ।
११२ गन्धर्वतन्त्रे ।
परंब्रह्मात्मशक्त्यन्ते पूर्ववद् ब्रह्मरन्ध्रके ॥ ४६ ॥
विन्यस्यैवं महेशानि तत्त्वन्यासं समाचरेत् ।
मूलादिब्रह्मरन्ध्रान्तं मूलान्तं पुनरेव हि ॥ ४७ ॥
मूलवाग्भवमुच्चार्य आत्मतत्त्वपदं ततः ।
[स्वा?ख्या]पिकायै चतुर्थ्यन्ता महात्रिपुरसुन्दरी ॥ ४८ ॥
नम इति प्रविन्यस्य कामराजमतः परम् ।
विद्यातत्त्वपदात् पूर्वं पूर्ववद् हृदयावधि ॥ ४६ ॥
न्यसे(त्वात्मी?त्तार्ती)यबीजान्ते शिवतत्त्वस्वरूपिणीम् ।
मूलादिब्रह्मरन्ध्रान्तं तदादिभ्रूलतावधि ॥ ५० ॥
ततो न्यसेन्महादेवि विद्याकूटत्रयं पृथक् ।
करयोर्मूलमध्याग्रमूलहृद्गुह्युगान्तरे ॥ ५१ ॥
मूलविद्यात्रयावृत्त्या स्थानेष्वेषु क्रमान्न्यसेत् ।
ब्रह्मरन्ध्रे तुरीयं च तेनैव व्यापकं न्यसेत् ॥ ५२ ॥
ब्रह्मरन्ध्रे तथाधारे हृदि नेत्रत्रये तथा ।
कर्णयोर्मुखवृत्ते च भुजयोः पृष्ठदेशके ॥ ५३ ॥
जानुद्वये तथा नाभौ मूलवर्णान् प्रविन्यसेत् ।
स्वयं मन्त्रतनुर्भूत्वा देवीं मन्त्रमयीं यजेत् ॥ ५४ ॥
त्रैलोक्यमरुणं ध्यायञ् श्रीविद्यां मनसि स्मरेत् ।
योनिमुद्रां महेशानि ब्रह्मरन्ध्रे प्रविन्यसेत् ॥ ५५ ॥
ललाटे च प्रविन्यस्य भ्रुवोर्मध्ये च विन्यसेत् ।
मुखे कण्ठप्रदेशे तु हृदये तामनुक्रमात् ॥ ५६ ॥
१ 'र' क पाठ । २ 'प्र' क पाठ ।
एकादशः पटलः । ११३
न्यासः संमोहनाख्योऽयं त्रैलोक्यमोहनक्षमः ।
श्रीदेव्युवाच
अन्तर्यागविधिं ब्रूहि बहिर्यागविधिं तथा ॥ ५७ ॥
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यजनं चान्तरं महत् ।
मनोजीवात्म(नः?नोः)शुद्धिः प्राणायामेन जायते ॥५८॥
अन्तर्गतं यच्च मलं तच्च शुद्धं प्रजायते ।
प्राणायामैर्विना देवि कृतं कर्म निरर्थकम् ॥ ५६ ॥
प्राणायामात्परं तत्त्वं प्राणायामात् परं तपः ।
प्राणायामात् परं ज्ञानं प्राणायामात् परं पदम् ॥ ६० ॥
प्राणायामात्परं योगं प्राणायामात्परं धनम् ।
नास्ति नास्ति पुनर्नास्ति कथितं तव सुव्रते ॥ ६१ ॥
वत्सराभ्यासयोगेन ब्रह्म साक्षाद्द्भवेद् ध्रुवम् ।
चैतन्यावरणं यद्भूत् क्षीयते नात्र संशयः ॥ ६२ ॥
प्राणायामं विना मुक्तिमार्गो नास्ति मयोदितम् ।
प्राणायामेन मुनयः सिद्धिमापुर्नचान्यथा ॥ ६३ ॥
प्राणायामपरो योगी न योगी शिव एव सः ।
गमनागमनं वायोः प्राणस्य धारणं तथा ॥ ६४ ॥
प्राणायाम इति प्रोक्तो योगशास्त्रविशारदैः ।
प्राणो वायुरिति ख्यात आयामस्तन्निरोधनम् ॥ ६५ ॥
प्राणायाम इति प्रोक्तो योगिनां योगसाधनम् ।
बाह्यादापूरणं वायोरुदरे पूरको भवेत् ॥ ६६ ॥
१ 'हु' क पाठ ।
११४ गन्धर्वतन्त्रे ।
संपूर्णकुम्भवद्वायोर्धारणं कुम्भको भवेत् ।
बहिर्यद्रेचनं वायोरुदराद्रेचको भवेत् ॥ ६७ ॥
पूरकं च यथाशक्त्या कुम्भकं तच्चतुर्गुणम् ।
कुम्भकार्धं भवेद्रचेः प्राणायामोऽयमीरितः ॥ ६८ ॥
☸ कनिष्ठानमिकाङ्गुष्ठैर्यन्नासापुटधारणम् ।
प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना ॥ ६६ ॥
वामया पूरयेद्वायुं शनैः शनैस्तु मध्यया ।
धारयेद्दक्षया³ मुञ्चेदपरं तत् क्रमोत्क्रमात् ॥ ७० ॥
यावच्छक्यं नियम्यासून् मनसैव स्मरन् पराम् ।
मन्त्रस्य मुखबीजं वा समस्तं वा जपन् प्रिये ॥ ७१ ॥
मूलाधारे त्रिकोणाख्ये कोटिसूर्यसमप्रभे ।
ध्यायेत् कुण्डलिनीं नित्यं कालानलँशिखोपमाम् ॥ ७२ ॥
रक्तां सूक्ष्मां च विश्वस्य सृष्टिस्थितिलयात्मिकाम् ।
विश्वातीतां ज्ञानरूपां चिन्तयेदूर्ध्ववाहिनीम् ॥ ७३ ॥
हूङ्कारोच्चारणेनैव समुत्था(य?प्य)परां शिवे ।
षट्चक्रं च विनिर्भिद्य प्रापयित्वा परं शिवम् ॥ ७४ ॥
परानन्देन⁴ संयोज्य परमानन्दरूपिणीम् ।
तदभेदसमापन्नामनाकुलमनाः स्मरेत् ॥ ७५ ॥
[श्रा?स्त्रा]वयित्वा सु[रा?धा]धारां प्रापयेच्छक्तिमण्डलम् ।
तेनैव चक्रभेदेन मूलाधारं समानयेत् ॥ ७६ ॥
१ 'क' क पाठ । २ 'म' क पाठ । ३ 'वामया' क पाठ ।
४ 'कामानन्द' क पाठ । ५ 'रमा' क पाठ ।
☸ प्राणायाममुद्रा निर्दिशति कनिष्ठेयादिना ।
एकादशः पटलः । ११५
मूलाद्ब्रह्मरन्ध्रान्तं बिसतन्तुस्वरूपिणीम् ।
उद्यत्सूर्यसहस्राभां ध्यायेन्मन्त्रात्मदेवताम् ॥ ७७ ॥
कुण्डलीं त्रिविधां तत्र तथा बीजत्रयं त्रिधा ।
तुरीयां कुण्डलीं मूर्ध्नि महात्रिपुरसुन्दरीम् ॥ ७८ ॥
वाग्भवं मूलदेशे च द्रुतस्वर्णनिभं स्मरेत् ।
मूलादिहृदयं यावद् वह्निकुण्डलिनीं तथा ॥ ७९ ॥
हृदये कामराजं च सूर्यकोटिसमप्रभम् ।
सूर्यकुण्डलिनीं तत्र सूर्यकोटिसमप्रभाम् ॥ ८० ॥
हृदयाद्गलपर्यन्तं ध्यायेदनाकुलः शिवे ।
भ्रूमध्ये शक्तिबीजं तु चन्द्रकोटिसमप्रभम् ॥ ८१ ॥
भ्रूमध्याद् ब्रह्मरन्ध्रान्तं चन्द्रकुण्डलिनीं शिवे ।
चन्द्रकोटिसमप्रख्यां (भ्र?स्र)वदमृतविग्रहाम् ॥ ८२ ॥
बीजत्रयमयीं बिन्दौ तुर्यां बिन्दुत्रयात्मिकाम् ।
देशकालानवच्छिन्नां सर्वतेजोमयीं स्मरेत् ॥ ८३ ॥
तुर्यकुण्डलिनीं तद्वत्केवलं ज्ञानविग्रहाम् ।
एवं ध्यात्वा पुनर्विद्यां संपूर्णां मनसा स्मरेत् ॥ ८४ ॥
चिदानन्दमयीं स्वच्छामेकात्मकतया प्रिये ।
सुधावृष्ट्याभिपतन्त्या तर्पयेत् परदेवताम् ॥ ८५ ॥
ध्यात्वा ध्यात्वा पुनर्ध्यात्वा सहजानन्दविग्रहाम् ।
बिन्दु(श्रु?स्रु)तसुधाभिस्तुं तर्पयेच्च पुनः पुनः ॥ ८६ ॥
अन्तर्याग इति प्रोक्तो जीवतो मुक्तिदायकः ।
१ 'रीया' क पाठ । २ 'द्भिस्तु' ख पाठ ।
११६ गन्धर्वतन्त्रे ।
मुनीनां च मुमुक्षूणामधिकारोऽत्र केवलम् ॥ ८७ ॥
प्रातः सायं चरेन्नित्यं षोडश प्राणसंयमान् ।
नाशयेत् सर्वपापानि तृणराशिमिवानलः ॥ ८८ ॥
सर्वेषामेव पापानां प्रायश्चित्तमिदं स्मृतम् ।
स्वदेहस्थं यथा सर्पश्वर्मोत्सृज्य निरामयः ॥ ८६ ॥
प्राणायामात्तथा मुञ्चेदविद्याकामकर्मकम् ।
परोपपापजं पापं परद्रव्यापहारजम् ॥ ६० ॥
परस्त्रीमैथुनोत्पन्नं प्राणायामशतं दहेत् ।
महापातकजातानि ब्रह्महत्यादिकानि च ॥ ६१ ॥
सर्वाण्येतानि दह्यन्ते प्राणायामचतुःशतैः ।
(नमः१मनः)शक्तिः समाख्याता पञ्चास्योः२ पञ्च देहगाः ६२
एकरूपं शिवं कृत्वा तदङ्के तां निवेशयेत् ।
शून्यरूपे परे स्थाप्य तावुभौ सममास्थितौ ॥ ६३ ॥
चिन्तयेत् साधको नत्वा नादरूपं तयोः क्रमात् ।
तदन्तर्मनसात्मानं ज्योतीरूपं सनातनम् ॥
समाधिना समागत्य त्यजेत् संसारबन्धनम् ॥ ६४ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे नित्यन्यासान्तर्यागविधिनिरूपण-
मेकादशः पटलः ॥ ११ ॥
१ 'मम्' क पाठ । २ 'स्या पञ्च गे' क पाठः ।
द्वादशः पटलः।
—०—
ईश्वर उवाच
अथवा परमेशानीं लीलाकलितविग्रहाम् ।
हृत्पुण्डरीकमध्यस्थां निगृह्येन्द्रियमान(सः१सम् ) ॥ १ ॥
तन्मनाः साधकवरो मनसा पूजयेच्छिवाम् ।
वामकरस्य तर्जन्यां दक्षिणस्य कनिष्ठया ॥ २ ॥
तथा दक्षिणतर्जन्यां वामाङ्गुष्ठेन योजयेत् ।
उन्नतं दक्षिणाङ्गुष्ठं वामस्य मध्यमादिकाः ॥ ३ ॥
अङ्गुलीर्योजयेत् पृष्ठे दक्षिणस्य करस्य च ।
वामस्यै पितृतीर्थेन मध्यमानामिके तथा ॥ ४ ॥
अधोमुखे तु ते कुर्याद्दक्षिणस्य करस्य च ।
रक्तपुष्पं गृहीत्वैवं विधाय पाणिकच्छपम् ॥ ५ ॥
कुर्यात्तद् हृदयासन्नं निमील्यै नयनद्वयम् ।
समकायशिरोग्रीवं कृतासनपरिग्रहः ॥ ६ ॥
पश्यन्निव ततो देवीमेकाग्रमनसा ततः ।
प्रत्यक्षीकृ[त?त्य,!हृदये मानसैरुपचारकैः ॥ ७ ॥
षोडशानां प्रकारैस्तु हृदिस्थां पूजयेच्छिवाम् ।
आसनं प्रथमं दद्याद्रत्नसिंहासनं शुभम् ॥ ८ ॥
पाद्यं चरणयोर्दद्याच्छिरस्यर्घ्यं निवेदयेत् ।
परमामृतपानीयं भावपुष्पैः सुवासितम् ॥ ६ ॥
१ 'न्या' क पाठ । २ 'श्या' क पाठ । ३ 'लि' क पाठ ।
११८ गन्धर्वतन्त्रे ।
स्वर्णपात्रे जलं कृत्वा दद्यादाचमनं मुखे ।
मधुपर्कं ततो दद्यात् पुनराचमनं ततः ॥ १० ॥
स्ववामे मण्डलं कृत्वा पर्यङ्कं परिभावयेत् ।
श्रीरत्नपादुके दत्त्वा नीत्वा तां स्नानमन्दिरे ॥ ११ ॥
भद्रासनोपविष्टाया उद्वर्तनं समाचरेत् ।
घृतेनोद्वर्तनं कृत्वा मनसा परिभावयेत् ॥ १२ ॥
कर्पूरागुरुकस्तूर्या¹ तथा मृगमदेन च ।
रोचनाकुङ्कुमैर्मिश्रैर्नानागन्धसमन्वितैः ॥ १३ ॥
सुगन्धिदिव्यतैलैश्च स्नापयेत् परमेश्वरीम् ।
देवकन्यासहस्रैस्तु स्वर्णकुम्भसहस्रकैः ॥ १४ ॥
नदीभिर्नदराजैश्च अप्सरोगणपन्नगैः ।
सिञ्चता वारिणा स्नातां चिन्तयेत् परदेवताम् ॥ १५ ॥
दुकूलैर्मार्जितं गात्रं दुकूले परि(धेतथा?धाप्य च) ।
कंकतीकेशसंस्कारो विधिवद्बन्धनं तथा ॥ १६ ॥
सूत्रावलीं² केशपाशे सिन्दूरं केशमध्यमे ।
ललाटे तिलकं दद्यादलक्तं रदनच्छदे ॥ १७ ॥
नेत्रेषु ह्यञ्जनं³ कृत्वा गन्धैर्गात्रानुलेपनम् ।
काञ्चनाञ्चितकञ्चुलीशोभनं हृदयोपरि ॥ १८ ॥
विभूषणं ततो दद्यात् सुवर्णरजतादिना ।
शिरःकर्णग्रीवादोषसूज्ज्वैलाभरणानि⁴ च ॥ १९ ॥
नूपुरौ च ततो दद्यान्मुकहारं समुज्ज्वलम् ।
१ 'स्तर्या' क पाठ । २ ली०' क पाठ । ३ 'रञ्जन' क पाठ । ४ 'दीतिउज्ज्व'
क पाठः । ५ 'नूपुरौ ततो दद्यादानन्दहार' क पाठ ।