गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 203, कुल 446 में से
संदर्भ में पढ़ें१२८ गन्धर्वतन्त्रे ।
तत्राम्भसि स्वमात्मानं चिन्तयेत् साधकोत्तमः ।
बुद्बुदं चिन्तयेत्तत्र प्रकृतिं चिन्तयेत् पराम् ॥ ५१ ॥
प्रकृतिर्हि महान्तं वै अहं च महतस्तथा ।
अहङ्कारान्मनश्चैव मनसः खं समुत्थितम् ॥ ५२ ॥
आकाशाद्वायुमुत्कृष्य वायोस्तेजः समुत्थितम् ।
तेजसो जलमासाद्य जलाच्च पृथिवीं स्मरेत् ॥ ५३ ॥
बहिष्कृत्य यथास्थानं निवेश्य विधिना ततः ।
हैमं ब्रह्माण्डमेभिः स्याद् भूबीजेन दृढं स्मरेत् ॥ ५४ ॥
प्रणवेन द्विधा कृत्वा जलौघैः परिपूरयेत् ।
ब्रह्माण्डाभ्यन्तरे तोयं तदधो भेकमव्ययम् ॥ ५५ ॥
तस्य पृष्ठे महादेवि कालाग्निरुद्ररूपकम् ।
आधारशक्तिं तत्रैव मूलप्रकृतिरूपिणीम् ॥ ५६ ॥
ब्रह्मशिलांसमारूढां कूर्माकारां शशिप्रभाम् ।
पद्मद्वयधरां देवीं मूर्धनि कूर्मधारिणीम्^२ ॥ ५७ ॥
नीलाभं चिन्तयेत् कूर्ममनन्तं कुन्दसंनिभम् ।
तस्य मूर्ध्नि स्थितं देवि श्वेतं वाराहरूपकम् ॥ ५८ ॥
तमालशामलां दन्ते धारयन्तं वसुन्धराम्^१ ।
तां च संचिन्तयेत्तत्र नीलेन्दीवरधारिणीम् ॥ ५९ ॥
चिन्तयेत् सलिलैः पूर्णां चतुःसागरमेखलाम् ।
तन्मध्ये चिन्तयेद्देवि सुधासागरमद्भुतम् ॥ ६० ॥
रक्ताभममृतं तत्र शुद्धलाक्षारसोपमम् ।
१ 'माकृ ख पाठ । २ 'कूर्मे च मूर्ध्नि धारिणीम्' क पाठ ।