सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 212, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 212

द्वादशः पटलः । १३१
आत्मानमेव सततं पूजयेद् देवताधिया ॥ १४३ ॥
देववद्विहरेन्नित्यं कालयोगपरायणः ।
यत् पश्यति यच्छृणोति गीतनृत्यादिकं च यत् ॥ १४४ ॥
परिदधाति यत्किंचित् स्वयं यदनुलिम्पति ।
हस्त्यश्वरथखट्वादि यदारोहति साधकः ॥ १४५ ॥
यत् करोति यदश्नाति तत् सर्वं देवताधिया ।
विषयान् विषयी भुङ्क्ते यानेव स्वमनोरथान् ॥ १४६ ॥
तत्तत् समग्रमासाद्य तत्सर्वं देवताधिया ।
जाग्रदादि सुषुप्त्यन्तं सर्वं तद्देवताधिया ॥ १४७ ॥
दिव्य एव भवेत्तत्र न चैवान्यः कदाचन ।
तस्माद् दिव्यपरो यस्तु देवीमानन्दरूपिणीम् ॥ १४८ ॥
पूजयेत् सततं भक्त्या महात्रिपुरसुन्दरीम् ।
मोक्षार्थी लभते मोक्षं ध्यानयोगपरायणः ॥ १४६ ॥
तां तु यश्चिन्तयेद्रात्रौ भोगी ध्यानपरायणः ।
कामेश्वराङ्कपर्यङ्कसमासीनां परां कलाम् ॥ १५० ॥
सर्वाङ्गसुन्दरीं हृद्यां प्रसादसुमुखेक्षणाम् ।
सकारेणामभिध्यायेत् सर्वाङ्गेषु मनो दधत् ॥ १५१ ॥
चतुर्वर्गं करे तस्य जीवन्मुक्तः स एव हि ।
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे ध्यानयोगनिरूपणं
द्वादशः पटलः ॥ १२ ॥
१ 'ध्यान' क पाठ. । २ 'करुणा' ख पाठ. ।