सामग्री पर जाएँ
सर्वकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 202, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 202

द्वादशः पटलः । १२१
गुरून् नत्वा विधानेन सोऽहमित्युपरोधतः ।
ऐक्यं संभावयेद्धीमाञ्जीवस्य ब्रह्मणोऽपि च ॥ ४१ ॥
कारणे सर्वभूतानां तत्त्वान्यपि च चिन्तयेत् ।
बीजभावेन लीनानि व्युत्क्रमात् परमात्मनि ॥ ४२ ॥
एवं विचिन्त्य देवेशि पार्थिवांशं जले गतम् ।
जलं तेजसि लीनं च तेजो वायौ विचिन्तयेत् ॥ ४३ ॥
आकाशे संहृतं वायुं खं च मनसि लीयते ।
मनोऽहंकारवशगं तथाहं महति स्थितम् ॥ ४४ ॥
महान्तं प्रकृतौ लीनं चिन्तयेत् परमेश्वरि ।
मुमुक्षुश्चिन्तयेल्लीनां प्रकृतिं परमात्मनि ॥ ४५ ॥
नाहो न रात्रिर्न संध्या न सूर्यो नैव चन्द्रमाः ।
इदं तमोमयं सर्वमासीद्भुवनवर्जितम् ॥ ४६ ॥
अप्रज्ञातमलक्ष्यं च प्रसुप्तमिव सर्वतः ।
चिन्तयित्वा महेशानि न किंचिदपि भावयेत् ॥ ४७ ॥
एकमासीत् परं ब्रह्म नित्यं सूक्ष्ममतीन्द्रियम् ।
नित्यानन्दमयं धाम तेजोरूपं सनातनम् ॥ ४८ ॥
तदेव प्रकृतिः सा तु तेजोरूपा सनातनी ।
नित्यानन्दवपुर्देवी तद्रूपा तत्प्रकाशिनी ॥ ४९ ॥
तयोर्योगार्दभूद्वृष्टिः परमामृतरूपिणी ।
परिपूर्णमिदं देवि समस्तं प्लावयेत् तथा ॥ ५० ॥


१ ‘तिप’ क पाठ । २ ‘जलं च तेजसो रूपं तेजोरूपं विचिन्तयेत् ।
निर्वाणवायुना वह्नि वायुनात्र विचिन्तयेत् ॥’ इति क पाठः ।
३ ‘तथा वै मनसि’ क पाठ ।