गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
DevanagariHindipublished446 पृष्ठ
पृष्ठ 210, कुल 446 में से
संदर्भ में पढ़ेंपृष्ठ 210द्वादशः पटलः । १२६
द्वादशः पटलः । १२६
स्मितमाधुर्यविजितमाधुर्यरससागराम् ॥ १२३ ॥
अनौपम्यगुणोपेतचिबुकोद्देशशोभिताम् ।
कम्बुग्रीवां महादेवीं मृणालललितैर्भुजैः ॥ १२४ ॥
मणिकङ्कणकेयूरभारखिन्नैः प्रशोभिताम्¹ ।
रक्तोत्पलदलाकारसुकुमारकराम्बुजाम् ॥ १२५ ॥
कराम्बुजनखज्योत्स्ना²विराजितनभःस्थलाम्³ ।
मुक्ताहारलतोपेतपीनोन्नत⁴पयोधराम् ❊ ।
त्रिवलीवलनायुक्तमध्यदेशसुशोभिताम् ॥ १२६ ॥
लावण्यसरिदावर्त्ताकारनाभिविभूषिताम्⁵ ।
अनर्घ्यरत्न⁶घटितकाञ्चीयुक्तनितम्बिनीम् ॥ १२७ ॥
नितम्बबिम्बद्विरदरोमराजीवराङ्कुशाम् ।
कद्ली⁷ललितस्तम्भसुकुमारोरुमिश्ररीम् ॥ १२८ ॥
लावण्यकन्दलीतुल्यजङ्घायुगलमण्डिताम् ।
गूढगुल्फपदद्वन्द्वप्रपदाजितकच्छपाम् ॥ १२६ ॥
नूपुरैर्विलसत्पादपङ्कजातिमनोहराम् ।
ब्रह्मविष्णुशिरोरत्ननिघृष्टचरणाम्बुजाम् ॥ १३० ॥
तनुदीर्घाङ्गुलीभास्वन्नखचन्द्रविराजिताम् ।
शीतांशुशतसंकाशकान्तिसंतानहासिनीम् ॥ १३१ ॥
लौहित्यजितसिन्दूरजपादाडिमरागिणीम् ।
रक्तवस्त्रपरीधानां रक्ताभरणभूषिताम् १३२
१ 'भूषणै परिशोभिताम्' क पाठः । २ 'तिर्विं' ख पाठः । ३ 'तीम्' क पाठः ।
४ 'समुन्न' क पाठः । ५ 'सुशोभिताम्' क. पाठः । ६ 'र्घ्यं' क. पाठः ।
७ 'कदली' ख पाठः ।
- पीनोन्नतस्तनकुचा तनुमध्येन शोभितामित्यधिकः पाठः ख ।