सामग्री पर जाएँ
सर्वकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 28, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 28

गदनिग्रहः । ७
तत्पक्वं वातगुल्मघ्नं कृमिप्लीहज्वरापहम् ।
कासहिकारुचिहरं दशाङ्गं नाम दीपनम् ॥ ४९ ॥
गुल्मे हारीतालशुनघृतम् ।
लशुनाण्डस्य शुद्धस्य तुलार्धं निस्तुषस्य च ।
तदर्धं पञ्चमूलस्य ब्याढकेऽपां विपाचयेत् ॥ ५० ॥
पादशेषे घृतप्रस्थं लशुनस्य रसं तथा ॥
दाडिमाम्लसुरामस्तुकाञ्जिकाम्लैस्तदर्धकैः ॥ ५१ ॥
साधयेत्त्रिफलादारुलवणव्योषदीप्यकैः ।
यवानीचव्यहिङ्ग्वम्लवेतसैश्च पलार्धकैः ॥ ५२ ॥
सिद्धमेतद्धविः कल्कैर्गुल्मार्शोजठरापहम् ।
वर्ध्मपाण्ड्वामयप्लीहयोनिदोषज्वरापहम् ॥ ५३ ॥
वातश्लेष्मामयांश्चान्यान् घृतमेतद्व्यपोहति ।
हारीताद्गुल्मे नाराचकं घृतम् ।
चित्रकं त्रिफला दन्ती त्रिवृता कण्टकारिका ॥ ५४ ॥
स्नुहीक्षीरं विडङ्गानि घृतं दशममुच्यते ।
एकैकस्य च कर्षेण घृतस्य कुडवं पचेत् ॥ ५५ ॥
चतुर्गुणेन तोयेन सम्यगेतत्सुखाग्निना ।
तस्य काले पिबेन्मात्रां पलार्धसंमितां नरः ॥ ५६ ॥
उष्णोदकं चानुपिबेदल्पत्वादस्य सर्पिषः ।
विरिक्ते च यवागूः स्यात्सर्पिषा परिवर्जिता ॥ ५७ ॥
रसेन वा जाङ्गलानां भोजयेन्मतिमान् भिषक् ।
वातगुल्ममुदावर्तं प्लीहार्शोवर्ध्मकुण्डलम् ॥ ५८ ॥
ग्रहणीं दीपयेन्मेहान् कुष्ठदोषांश्च नाशयेत् ।
नाराचमिति विख्यातं सर्पिर्नाराचसंज्ञितम् ॥ ५९ ॥
भैषज्यं संप्रयोक्तव्यं नाराचमिव शत्रवे ।
कुष्ठे नीलिनीघृतम् ।
नीलिनीं त्रिफलां रास्नां वचां कटुकरोहिणीम् ॥ ६० ॥