सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

१० परिशिष्टम् [ नाट्यशास्त्रे
धूर्तविटसंप्रयोज्यो नानावस्थान्तरात्मकश्चैव ।
एकाङ्को बहुचेष्टः सततं कार्यो बुधैर्भाणः ॥ १६२ ॥
[ भाणस्यापि हि निखिलं लक्षणमुक्तं तथागमानुगतम् ।
वीथ्याः संप्रति निखिलं कथयामि यथाक्रमं विप्राः ॥ १६३ ॥ ]
अधमोत्तममध्याभिर्युक्ता स्यात् प्रकृतिभिस्तिसृभिः ।
वीथी स्यादेकाङ्का तथैकाहार्या द्विहार्या वा ॥ १६४ ॥
सर्वरसलक्षणाढ्या युक्ता ह्यङ्गैस्त्रयोदशभिः ।
अङ्गानां वक्ष्येऽहं लक्षणमखिलं यथादेशम् ॥ १६५ ॥
उद्घात्यकावलितता (लगिता) वस्यन्दितनाल्पसत्प्रलापाश्च ।
वाक्केल्यथ प्रपञ्चो मृदवाधिवले छलत्रिगते ॥ १६६ ॥
व्याहारो गण्डश्च त्रयोदशाङ्गान्युदाहृतान्यस्याः ।
अथ वीथी संप्रोक्ता लक्षणमेषां प्रवक्ष्यामि ॥ १६७ ॥
पदानि त्वगतार्थानि यत्तरां ( 'ये नराः' ) पुनरादरात् ।
योजयन्ति पदैरन्यैस्तदुद्घात्यकमुच्यते ॥ १६८ ॥
यत्रान्यस्मिन्समावेश्य कार्यमन्यत्प्रसाध्यते ।
तच्चावलगितं नाम विज्ञेयं नाट्ययोक्तृभिः ॥ १६९ ॥
आक्षिप्तार्थे (प्तेऽर्थे) तु कस्मिंश्चिच्छुभाशुभसमुत्थितम् (ते) ।
कौशला्रू(दु)च्यतेऽन्यार्थे (न्योऽर्थः) तदवस्पन्दितं भवेत् ॥
असंबद्धं तु यद्वाक्यमसम्बद्धमथोत्तरम् ।
असत्प्रला(ल ?)पितं चैव वीथ्यां सम्यक् प्रयोजयेत् ॥१७१
मूर्खजनसंनिकर्षे विद्वानन्यत्र भाषते सम्यक् ।
वचनं न गृह्यतेऽस्य संज्ञेयोऽसत्प्रलापस्तु ॥ १७२ ॥
यदसद्भूतं वचनं संस्तवयुक्तं द्वयोः परस्परतः ।
एकस्य चार्थहेतोः सहास्यजननः प्रपञ्चस्तु ॥ १७३ ॥
हास्येनोपगतार्था प्रहेलिका नालिकेति विज्ञेया ।
एकद्विप्रतिवचना वाक्केली स्यात्प्रयोगेऽस्मिन् ॥ १७४ ॥
मूर्खजनसंनिकर्षे हितमपि यत्र प्रभाषते विद्वान् ।
न च गृह्यतेऽस्य वचनं विज्ञेयोऽसत्प्रलापोऽसौ ॥ १७५ ॥
यदतो संभृत(यदसद्भूतं)वचनं
संश्र(स्त)वयुक्तं द्वयोः परस्परं यत् ।
एकस्य चार्थ(र्थे)हेतोः
स हास्यजननः प्रपञ्चः स्यात् ॥ १७६ ॥
यत्कारणाद्गुणानां दोषीकरणं भवेद्विवादकृतम् ।
दोषगुणीकरणं वा तन्मृदवं नामापि विज्ञेयम् ॥ १७७ ॥
परवचनमात्मनश्चोत्तरोत्तरसमुद्भवं द्वयोर्यत्र ।
अन्योन्यार्थविशेषकमधिबलमिति तद्बुधैर्ज्ञेयम् ॥ १७८ ॥

अन्यार्थमेव वाक्यं छलमभिसंधानहास्यरोषकरम् ।
श्रुतिसारूप्यार्थात्मनि बह्वोऽर्था युक्तिभिर्नियुज्यन्ते ॥ १७९ ॥
एतद्द्वास्य(यद्वास्य)महास्यं वा त्रिगतं नामापि विज्ञेयम् ।
प्रत्यक्षवृत्तिरुक्तो व्याहारो हास्यलेशार्थः ॥ १८० ॥
संरम्भसंभ्रमयुतं विवादयुक्तं तथापवादकृतम् ।
बहुवचनाक्षेपकृतं गण्डं प्रवदन्ति तत्त्वज्ञाः ॥ १८१ ॥
( अन्यान्यपि लास्यविधावङ्गानि तु नाटकोपयोगानि ।
अस्माद्विनिःसृतानि तु भाण इवैकप्रयोज्यानि ॥ १८२ ॥
गेयपदं स्थितपाठ्यमासीनं पुष्पगण्डिका ।
प्रच्छेदकस्त्रिमूढाख्यं सैन्धवं च द्विमूढकम् ॥ १८३ ॥
उत्तमोत्तमकं चैव उक्तप्रत्युक्तमेव च ।
लास्ये दशविधं ह्येतदङ्गनिर्देशलक्षणम् ॥ १८४ ॥
आसनेषूपविष्टैर्यत्तन्त्रीभाण्डोपबृंहितम् ।
[L

१२ परिशिष्टम् [ नाट्यशास्त्रे
एतद्वै लास्यविधौ लक्षणमुक्तं मया तु विस्तरतः ।
तद्(दि)हैव तु यन्नोक्तं प्रसङ्गविनिवृत्तिहेतोस्तु ॥ १९७ ॥ )
इति दशरूपविधानं सर्वं प्रोक्तं मयातिलक्षणतः ।
इतिवृत्तद्विविधानं संधिविधौ लक्षणं वक्ष्ये ॥ १९८ ॥
इति भारतीये नाट्यशास्त्रे दशरूपलक्षणं नामाध्यायोऽष्टादशः ॥
एकोनविंशोऽध्यायः ।
इतिवृत्तं तु नाट्यस्य शरीरं परिकीर्तितम् ।
पञ्चभिः संधिभिस्तस्य विभागः संप्रकल्पितः ॥ १ ॥
इतिवृत्तं द्विधा चैव बुधस्तु परिकल्पयेत् ।
आधिकारिकमेकं तु प्रासङ्गिकमथापरम् ॥ २ ॥
यत् कार्यं हि फलप्राप्त्या समर्थं परिकल्प्यते ।
तदाधिकारिकं ज्ञेयमन्यत् प्रासङ्गिकं विदुः ॥ ३ ॥
कवेः प्रयत्नानेतृणां युक्तानां विध्यपाश्रयात् ।
कल्प्यते हि फलप्राप्तिः समुत्कर्षात् फलस्य च ॥ ४ ॥
कारणात् फलयोगस्य वृत्तं स्याधिकारिकम् ।
तस्योपकरणार्थं तु कीर्त्यते ह्यानुषङ्गिकम् ॥ ५ ॥
[ लौकिकसुखदुःखाख्या यथावस्था रसोद्भवा ।
दशधा मन्मथावस्था व्यवस्था त्रिविधा मता ॥ ६ ॥ ]
संसाध्ये फलयोगे तु व्यापारः साधकस्य यः ।
तस्यानुपूर्व्या विज्ञेयाः पञ्चावस्थाः प्रयोक्तृभिः ॥ ७ ॥
[ नाट्यप्रकरणा भावा अवस्थास्ता मता इह ।
धर्मार्थकामसंबन्धः फलयोगस्तु कथ्यते ॥ ८ ॥ ]
प्रारम्भश्च प्रयत्नश्च तथा प्राप्तेश्च संभवः ।
नियता च फलप्राप्तिः फलयोगश्च पञ्चमः ॥ ९ ॥
औत्सुक्यमात्रं बन्धस्य यद् बीजस्य निबध्यते ।
महतः फलयोगस्य सोऽत्र प्रारम्भ इष्यते ॥ १० ॥
अपश्यतः फलप्राप्तिं यो व्यापारः फलं प्रति ।
परं चौत्सुक्यगमनं प्रयत्नः परिकीर्तितः ॥ ११ ॥
ईषत्प्राप्तिर्यदा काचित्फलस्य परिकल्प्यते ।
भावमात्रेण सं (तं) प्राहुर्विधिज्ञाः प्राप्तिसंभवम् ॥ १२ ॥
नियतां तु फलप्राप्तिं यदा भावेन पश्यति ।
नियतां तां फलप्राप्तिं सगुणाः परिचक्षते ॥ १३ ॥
अभिप्रेतं समग्रं च प्रतिरूपं क्रियाफलम् ।
इतिवृत्ते भवेद्यस्मिन् फलयोगः प्रकीर्तितः ॥ १४ ॥

अध्यायः १९ ] दशरूपकस्य १३
सर्वस्यै( स्य )व हि कार्यस्य प्रारब्धस्य फलार्थिभिः ।
एता अनुक्रमेणैव पञ्चावस्था भवन्ति हि ॥ १५ ॥
तासां स्वभावभिन्नानां परस्परसमागमात् ।
विन्यास एकभावेन फलहेतुः प्रकीर्तितः ॥ १६ ॥
इतिवृत्तं समाख्यातं प्रत्यगेवाधिकारिकम् ।
तदारम्भादि कर्तव्यं फलान्तं च यथा भवेत् ॥ १७ ॥
पूर्णसंधि तु तत्कार्यं हीनसंध्यपि वा पुनः ।
नियमात्पञ्चसंधि स्याद्धीनसंध्यथ कारणात् ॥ १८ ॥
चतुर्थस्यैकलोपे तु द्विलोपे त्रिचतुर्थयोः ।
द्वितीयत्रिचतुर्थानां त्रिलोपे लोप इष्यते ॥ १९ ॥
प्रासङ्गिके परार्थत्वान्न ह्येष नियमो भवेत् ।
यद्वृत्तं संभवेत्तत्र तद्योज्यमविरोधतः ॥ २० ॥
इतिवृत्ते यथावस्थाः पञ्चारम्भादिकाः स्मृताः ।
अर्थप्रकृतयः पञ्च तथा बीजादिका अपि ॥ २१ ॥
बीजं विन्दुः पताका च प्रकरी कार्यमेव च ।
अर्थप्रकृतयः पञ्च ज्ञात्वा योज्या यथाविधि ॥ २२ ॥
स्वल्पमात्रं समुत्सृष्टं बहुधा यद्विसर्पति ।
फलावसानं तच्चैव बीजं तदिह कीर्तितम् ॥ २३ ॥
प्रयोजनानां विच्छेदे यदविच्छेदकारणम् ।
यावत्समाप्तिर्बन्धस्य स बिन्दुः परिकीर्तितः ॥ २४ ॥
यद्वृत्तं हि परार्थं स्यात्प्रधानस्योपकारकम् ।
प्रधानवच्च कल्प्येत सा पताकेति कीर्तिता ॥ २५ ॥
फलं प्रकल्प्यते यस्याः परार्थं केवलं बुधैः ।
अनुबन्धविहीनं स्यात्प्रकरीमिति निर्दिशेत् ॥ २६ ॥
यदाधिकारिकं वृत्तं सम्यक्प्राज्ञैः प्रयुज्यते ।
तदर्थो यः समारम्भस्तत्कार्यं परिकीर्तितम् ॥ २७ ॥
एतेषां यस्य येनार्थो यतश्च गुण इष्यते ।
तत्प्रधानं तु कर्तव्यं गुणभूतान्यतः परम् ॥ २८ ॥
एकोऽनेकोऽपि वा संधिः पताकायां तु यो भवेत् ।
प्रधानार्थानुयायित्वादनुसंधिः प्रकीर्त्यते ॥ २९ ॥
आगर्भ्यादाविमर्शाद्वा पताका विनिवर्तते ।
कस्माद्यस्मान्निबन्धोऽस्याः परार्थः परिकीर्त्यते ॥ ३० ॥
यत्रान्यस्मिन् युज्यमाने तल्लिङ्गेभ्यः ( ङ्गोऽन्यः ) प्रयुज्यते ।
आगन्तुकेन भावेन पताकास्थानकं तु तत् ॥ ३१ ॥
सहसैवार्थसंपत्तिर्गुणवत्युपकारतः ।
पताकास्थानकमिदं प्रथमं परिकीर्तितम् ॥ ३२ ॥

१४ परिशिष्टम् [ नाट्यशास्त्रे
वचः सातिशयं श्लिष्टं काव्यबन्धसमाश्रयम् ।
पताकास्थानकमिदं द्वितीयं परिकीर्तितम् ॥ ३३ ॥
अर्थोपक्षेपणं यत्र लीनं सविनयं भवेत् ।
श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमिष्यते ॥ ३४ ॥
द्व्यर्थो वचनविन्यासः सुश्लिष्टः काव्ययोजितः ।
उपन्यासः संयुतश्च तच्चतुर्थमुदाहृतम् ॥ ३५ ॥
चतुःपताकापरमं नाटके काव्यमिष्यते ।
पञ्चभिः संधिभिर्युक्तं तांश्च वक्ष्याम्यतः पुनः ॥ ३६ ॥
मुखं प्रतिमुखं गर्भो विमर्शश्च तथैव हि ।
तथा निर्वहणं चेति नाटके पञ्च संधयः ॥ ३७ ॥
पञ्चभिः संधिभिर्युक्तं प्रधानमनुकीर्त्यते ।
शेषाः प्रधानसंधीनामनुग्राह्यास्तु संधयः ॥ ३८ ॥
यत्र बीजसमुत्पत्तिर्नानार्थरससंभवा ।
काव्ये शरीरानुगता तन्मुखं परिकीर्तितम् ॥ ३९ ॥
बीजस्योद्घाटनं यत्तु दृष्टनष्टमिव क्वचित् ।
मुखन्यस्तस्य सर्वत्र तद्वै प्रतिमुखं स्मृतम् ॥ ४० ॥
उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा ।
पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः ॥ ४१ ॥
गर्भानिर्भिन्नबीजार्थो विलोभनकृतोऽपि वा ।
क्रोधव्यसनजो वापि स विमर्श इति स्मृतः ॥ ४२ ॥
समानं च समर्थानां मुख्यार्थानां सबीजिनाम् ।
नानाभावोऽन्तराणां यद्भवेन्निर्वहणं तु तत् ॥ ४३ ॥
एते तु संधयो ज्ञेया नाटकस्य प्रयोक्तृभिः ।
तथा प्रकरणस्यापि शेषाणां विनिबोधत ॥ ४४ ॥
[ व्यायोगेहामृगौ चापि त्रिसंधी परिकीर्तितौ । ]
न तयोरवमर्शस्तु कर्तव्यः कविभिः सदा ॥ ४५ ॥
डिमः समवकारश्च चतुःसंधी प्रकीर्तितौ ।
गर्भावमर्शौ न स्यातां न च वृत्तिस्तु कैशिकी ॥ ४६ ॥
द्विसंधि तु प्रहसनं वीथ्यङ्को भाण एव च ।
मुखनिर्वहणे स्यातां तेषां वृत्तिश्च भारती ॥ ४७ ॥
एवं हि संधयः कार्या दशरूपे प्रयोक्तृभिः ।
पुनरेषां तु संधीनामङ्गकल्पं निबोधत ॥ ४८ ॥
संधीनां यानि वृत्तानि प्रदेशेष्वनुपूर्वशः ।
स्वसंपद्गुणयुक्तानि तान्यङ्गान्युपधारयेत् ॥ ४९ ॥
इष्टस्यार्थस्य रचना वृत्तान्तस्यानुपक्षयः ।
रागप्राप्तिः प्रयोगस्य गुह्यानां चैव गूहनम् ॥ ५० ॥

अध्यायः १९ ] दशरूपकस्य ३५
आश्चर्यवदभिख्यातं प्रकाश्यानां प्रकाशनम् ।
अङ्गहीनो नरो यद्वद् युद्धारम्भेऽक्षमो भवेत् ।
अङ्गहीनं तथा काव्यं न प्रयोगक्षमं भवेत् ॥ ५१ ॥
काव्यं यदपि हीनार्थं सम्यगङ्गैः समन्वितम् ।
दीप्तत्वात्तु प्रयोगस्य शोभामेति न संशयः ॥ ५२ ॥
उदात्तमपि यत्काव्यं स्यादङ्गैः परिवर्जितम् ।
हीनत्वात्तु प्रयोगस्य न सतां रञ्जयेन्मनः ॥ ५३ ॥
[ तस्मात्संधिप्रयोगेषु यथादेशं यथारसम् ।
कविनाङ्गानि कार्याणि प्रदेशांस्तु निबोधत ॥ ५४ ॥ ]
उपक्षेपः परिकरः परिन्यासो विलोभनम् ।
युक्तिः प्राप्तिः [ समाधानं विधानं परिभावना ॥ ५५ ॥
उद्भेदः करणं भेदो द्वादशाङ्गानि वै मुखे ।
तथा प्रतिमुखे चैव वक्ष्याम्यङ्गानि नामतः ॥ ५६ ॥ ]
विलासः परिसर्पश्च विधूतं तापनं तथा ।
नर्म नर्मद्युतिश्चैव तथा प्रशमनं पुनः ॥ ५७ ॥
निरोधश्चैव विज्ञेयः पर्युपासनमेव च ।
पुष्पं वज्रमुपन्यासो वर्णसंहार एव च ॥ ५८ ॥
एतानि वै प्रतिमुखे गर्भेऽङ्गानि निबोधत ।
अभूताहरणं मार्गो रूपोदाहरणे क्रमः ॥ ५९ ॥
संग्रहश्चानुमानं च प्रार्थना क्षितिरेव च ।
तोटकाधिवले चैव चोद्वेगो विद्रवस्तथा ॥ ६० ॥
एतान्यङ्गानि वै गर्भे विमर्शं च निबोधत ॥ ६१ ॥
अपवादश्च संफेटो विद्रवः शक्तिरेव च ।
प्रसङ्गो व्यवसायश्च द्युतिः खेदो निषेधनम् ॥ ६२ ॥
विरोध [ न ? ] मथादानं छादनं च प्ररोचना ।
एतान्यवमृशेऽङ्गानि भूयो निर्वहणे शृणु ॥ ६३ ॥
संधिनिरोधो ग्रथनं निर्णयः परिभाषणम् ।
धृतिः प्रसाद आनन्दः समयश्चोपगूहनम् ॥ ६४ ॥
भाषणं पूर्ववाक्यं च कार्यसंहार एव च ।
प्रशस्तिरिति संहारे ज्ञेयान्यङ्गानि नामतः ॥ ६५ ॥
चतुःषष्टिर्बुधैर्ज्ञेयान्येतान्यङ्गानि संधिषु ।
[ संपादनार्थं बीजस्य सम्यक्संधिकराणि तु ॥ ६६ ॥
कार्याण्येतानि कविभिर्विस्पष्टार्थानि नाटके ] ।
एतेषां तु पुनर्वक्ष्ये लक्षणानि यथाक्रमम् ॥ ६७ ॥
काव्यार्थस्य समुत्पत्तिरुपक्षेप इति स्मृतः ।
समुत्पन्नार्थबाहुल्यं ज्ञेयः परिकरस्तु सः ॥ ६८ ॥

१६ परिशिष्टम् [ नाट्यशास्त्रे
तन्निर्वृत्तिः परिन्यासो विज्ञेयः कविभिः सदा ।
गुणनिर्वर्णनं चैव विलोभनमिति स्मृतम् ॥ ६९ ॥
संप्रधारणमर्थानां युक्तिरित्यभिधीयते ।
सुखार्थस्याभिगमनं प्राप्तिरित्यभिधीयते ॥ ७० ॥
बीजार्थस्योपगमनं तत्समाधानमुच्यते ।
सुखदुःखकृतो योऽर्थस्तद्विधानमिति स्मृतम् ॥ ७१ ॥
कुतूहलोत्तरावेशो विज्ञेया परिभावना ।
बीजार्थस्य प्ररोहो यः स उद्भेद इति स्मृतः ॥ ७२ ॥
प्रकृतार्थसमारम्भः करणं नाम तद्भवेत् ।
संघातभेदनाथों यः स भेद इति कीर्तितः ॥ ७३ ॥
समीहा रतिभोगार्था विलास इति कीर्तितः ।
दृष्टनष्टानुसरणं परिसर्प इति स्मृतः ॥ ७४ ॥
कृतस्यानुनयस्यादौ विधूतमपरिग्रहः ।
अपायदर्शनं यत्तत्तापनं नाम तद्भवेत् ॥ ७५ ॥
क्रीडार्थं विहितं यत्र हास्यं नर्मेति तत् स्मृतम् ।
दोषप्रच्छादनार्थं तु हास्यं नर्मद्युति स्मृतम् ॥ ७६ ॥
उत्तरोत्तरवाक्यं तु भवेत्प्रशमनं बुधाः ।
या तु व्यसनसंप्राप्तिर्निरोधः स तु कीर्तितः ॥ ७७ ॥
क्रुद्धस्यानुनयो यस्तु भवेत्तत्पर्युपासनम् ।
विशेषवचनं यत्तु तत्पुष्पमिति संज्ञितम् ॥ ७८ ॥
प्रत्यक्षरूपं यद्वाक्यं तद्वज्रमिति संज्ञितम् ।
उपपत्तिकृतो योऽर्थ उपन्यासस्तु स स्मृतः ॥ ७९ ॥
चातुर्वर्ण्याभिगमनं वर्णसंहार इष्यते ।
एतानि तु प्रतिमुखे गर्भे चापि निबोधत ॥ ८० ॥
कपटाद्याश्रयं वाक्यमभूताहरणं विदुः ।
तत्त्वार्थवचनं चैव मार्ग इत्यभिधीयते ॥ ८१ ॥
चित्रार्थसमवायो यस्तद्रूपमिति कीर्तितम् ।
यत्सातिशयवद्वाक्यं तदुदाहरणं स्मृतम् ॥ ८२ ॥
भावतत्त्वोपलब्धिस्तु क्रम इत्यभिधीयते ।
सामदानार्थसंयुक्तः संग्रहः परिकीर्तितः ॥ ८३ ॥
रूपानुरूपगमनमनुमानमिति स्मृतम् ।
रतिहर्षोत्स‍वार्थानां प्रार्थना प्रार्थना भवेत् ॥ ८४ ॥
गर्भस्योद्भेदनं यत्स्यात् क्षितिरित्यभिधीयते ।
संरम्भवचनप्रायं तोटकं त्विति संज्ञितम् ॥ ८५ ॥
कपटेनाभिसंधानं ब्रुवतेऽधिवलं बुधाः ।
भयं नृपारिदस्यूत्थमुद्वेगः परिकीर्तितः ॥ ८६ ॥

अध्यायः १९ ] दशरूपकस्यं १७
नृपाग्निभयसंयुक्तः संभवो विद्रवः स्मृतः ।
[ एतान्यङ्गानि गर्भे स्युरविमर्शे निबोधत ॥ ८७ ॥
दोषप्रख्यापनं यत् स्यात् सोऽपवादः प्रकीर्तितः ।
रोषग्रथितवाक्यं तु संफेटः परिकीर्तितः ॥ ८८ ॥
गुरुव्यतिक्रमो यस्तु विज्ञेयोऽभिद्रवस्तु सः ।
विरोधप्रशमो यस्तु सा शक्तिः परिकीर्तिता ॥ ८९ ॥
प्रसङ्गश्चैव विज्ञेयो गुरूणां परिकीर्तनम् ।
व्यवसायश्च विज्ञेयः प्रतिज्ञाहैतुसंभवः ॥ ९० ॥
वाक्यमार्धपणकृतं च ( द्यु ? ) तिस्तज्ज्ञैरुदाहृतम् ( ता ? ) ।
मनश्चेष्टाविनिष्पन्नः श्रमः खेद उदाहृतः ॥ ९१ ॥
ईप्सितार्थप्रतीघातो निषेधः स तु कीर्तितः ।
विरोधनं तु संरम्भादुत्तरोत्तरभाषणम् ॥ ९२ ॥
बीजकार्योपगमनमादानमिति संज्ञितम् ।
अवमानात् कृतं वाक्यं कार्यार्थे छादनं भवेत् ॥ ९३ ॥
प्ररोचना च विज्ञेया संभारार्थप्रकाशिनी ।
एतान्यवमृशाङ्गानि संहारे तु निबोधत ॥ ९४ ॥
मुखबीजोपगमनं संधिरित्यभिधीयते ।
कार्यान्यन्वेषणं युक्त्या निरोध इति कीर्तितः ॥ ९५ ॥
उपक्षेपस्तु कार्याणां ग्रथनं परिकीर्तितम् ।
अनुभूतार्थकथनं निर्णयः समुदाहृतः ॥ ९६ ॥
परिवादकृतं यत् स्यात् तदाहुः परिभाषणम् ।
लब्धस्यार्थस्य शमनं धृतिमाचक्षते पुनः ॥ ९७ ॥
शुश्रूषाद्युपसंपन्नः प्रसादः प्रीतिरुच्यते ।
समागमस्तु योऽर्थानामानन्दः परिकीर्तितः ॥ ९८ ॥
दुःखस्यापगमश्चैव समयोऽथ निगद्यते ।
अद्भुतस्य च संप्राप्तिर्भवेत्तदुपगूहनम् ॥ ९९ ॥
सामदानादिसंपन्नं भाषणं समुदाहृतम् ।
पूर्ववाक्यं तु विज्ञेयं यथार्थोक्तार्थदर्शनम् ॥ १०० ॥
वरप्रसादसंप्राप्तिः काव्यसंहार इष्यते ।
नृपदेवप्रशस्तिश्च प्रशस्तिरभिधीयते ॥ १०१ ॥
यथासंधि तु कर्तव्यान्येतान्यङ्गानि नाटके ।
कविभिः काव्यकुशलै रसभावानवेक्ष्य तु ॥ १०२ ॥
सर्वाङ्गानि कदाचित्तु द्वित्रियोगेन वा पुनः ।
ज्ञात्वा कार्यमवस्थां च योज्यान्यङ्गानि संधिषु ॥ १०३ ॥
( एतेषामेव चाङ्गानां संबन्धान्यर्थयुक्तिः ।
संध्यन्तराणि वक्ष्यामि त्वर्थोपक्षेपकाणि च ॥ १०४ ॥

१८ परिशिष्टम् [ नाट्यशास्त्रे
साम भेदस्तथा दण्डः प्रदानं वध एव च ।
प्रत्युत्पन्नमतित्वं च गोत्रस्खलितमेव च ॥ १०५ ॥
साहसं च भयं चैव ह्रीर्माया क्रोध एव च ।
ओजःसंवरणं भ्रान्तिस्तथा हेत्ववधारणम् ॥ १०६ ॥
दूतो लेखस्तथा स्वप्नश्चित्तं मद इति स्मृतम् ।
संध्यन्तराणि संधीनां विशेषास्त्वेकविंशतिः ॥ १०७ ॥ )
विष्कम्भश्चूलिका चैव तथा चैव प्रवेशकः ।
अङ्कावतारोऽङ्कमुखमर्थोपक्षेपपञ्चकम् ॥ १०८ ॥
मध्यमपुरुषनियोज्यो नाटकमुखसंधिमात्रसंचारः ।
विष्कम्भकस्तु संस्कृतपुरोहितामात्यकञ्चुकिभिः ॥ १०९ ॥
शुद्धः संकीर्णो वा द्विविधो विष्कम्भकस्तु विज्ञेयः ।
मध्यमपात्रैः शुद्धः संकीर्णो नीचमध्यकृतः ॥ ११० ॥
अन्तर्यवनिकासंस्थैः शून्यादिभिरनेकधा ।
अर्थोपक्षेपणं यत्तु क्रियते सा हि चूलिका ॥ १११ ॥
अङ्कान्तरानुसारी संक्षेपार्थमधिकृत्य बिन्दूनाम् ।
प्रकरणनाटकविषये प्रवेशको नाम विज्ञेयः ॥ ११२ ॥
नोत्तममध्यमपुरुषैराचरितो नाप्युदात्तवचनकृतः ।
प्राकृतभाषाचारः प्रवेशको नाम विज्ञेयः ॥ ११३ ॥
[ प्राकृतभाषाग्रथितः संस्कृते प्राकृतस्य लोकस्य ।
नीचस्याचरणकृतः प्रवेशको नाम विज्ञेयः ॥ ११४ ॥ ]
अङ्कान्तरेऽथवाङ्के निपतति यस्मिन् प्रयोगमासाद्य ।
बीजार्थयुक्तियुक्तो ज्ञेयो ह्यङ्कावतारोऽसौ ॥ ११५ ॥
विश्लिष्टमुखमङ्कस्य स्त्रिया वा पुरुषेण वा ।
यत्र संक्षिप्यते पूर्वं तदङ्कमुखमिष्यते ॥ ११६ ॥
वृत्तिवृत्त्यङ्गसंपन्नपदार्थप्रकृतिक्षमम् ।
पञ्चावस्थाभिनिष्पन्नैः पञ्चभिः संधिभिर्युतम् ॥ ११७ ॥
संध्यन्तरैकविंशत्या चतुःषष्ट्यङ्गसंयुतम् ।
षट्त्रिंशल्लक्षणोपेतं गुणालंकारभूषितम् ॥ ११८ ॥
महारसं महाभोगमुदात्तवचनान्वितम् ।
महापुरुषसंचारं साध्वाचारजनप्रियम् ॥ ११९ ॥
सुश्लिष्टसंधिसंयोगं सुप्रयोगं सुखाश्रयम् ।
मृदुशब्दाभिधानं च कविः कुर्यात्तु नाटकम् ॥ १२० ॥
अवस्था या हि लोकस्य सुखदुःखसमुद्भवा ।
नानापुरुषसंचारा नाटके संभवेदिह ॥ १२१ ॥
न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला ।
न तत्कर्म न योगोऽसौ नाटके यन्न दृश्यते ॥ १२२ ॥

अध्यायः २० ] दशरूपकस्य १९

योऽयं स्वभावो लोकस्य नानावस्थान्तरात्मकः ।
सोऽङ्गाद्यभिनयैर्युक्तो नाट्यमित्यभिधीयते ॥ १२३ ॥
देवतानामृषीणां च राज्ञां लोकस्य चैव हि ।
पूर्ववृत्तानुचरितं नाटकं नाम तद्भवेत् ॥ १२४ ॥
यस्मात् स्वभावः संहृत्य साङ्गोपाङ्गतिक्रमैः ।
अभिनेयते गम्यते च तस्माद्वै नाटकं स्मृतम् ॥ १२५ ॥
सर्वभावैः सर्वरसैः सर्वकर्मप्रवृत्तिभिः ।
नानावस्थान्तरोपेतं नाटकं संविधीयते ॥ १२६ ॥
यान्येकशिल्पजातानि ह्येककर्मकृतानि च ।
तानि शेषाणि रूपाणि प्रयोज्यानि प्रयोक्तृभिः ॥ १२७ ॥
लोकस्वभावं संप्रेक्ष्य नराणां च वलाबलम् ।
संभोगं चैव युक्तिं च ततः कुर्यात्तु नाटकम् ॥ १२८ ॥
भविष्यति युगे प्रायो भविष्यन्त्यबुधा नराः ।
ये चापि हि भविष्यन्ति तेऽप्यल्पश्रुतबुद्धयः ॥ १२९ ॥
बुद्धयः कर्म शिल्पानि वैचक्षण्यं कलासु च ।
सर्वाण्येतानि नश्यन्ति यदा लोकः प्रणश्यति ॥ १३० ॥
तदेवं लोकभावानां प्रसमीक्ष्य बलाबलम् ।
मृदुशब्दं सुखार्थं च कविः कुर्यात्तु नाटकम् ॥ १३१ ॥
चेक्रीडिताद्यैः शब्दैस्तु काव्यबन्धा भवन्ति ये ।
वेश्या इव न शोभन्ते कमण्डलुधरैर्द्विजैः ॥ १३२ ॥
इतिवृत्तं ससंध्यङ्गं मया प्रोक्तं द्विजोत्तमाः ।
अतः परं प्रवक्ष्यामि वृत्तीनामिह लक्षणम् ॥ १३३ ॥
इति भारतीये नाट्यशास्त्रे संध्यङ्गविकल्पो नामैकोनविंशोऽध्यायः ।


अथ विंशोऽध्यायः ।
समुत्थानं तु वृत्तीनां व्याख्यास्याम्यनुपूर्वशः ।
यथावस्तुद्भवं चैव काव्यानां च विकल्पनम् ॥ १ ॥
एकार्णवं जगत् कृत्वा भगवानच्युतो यदा ।
शेते स्म नागपर्यङ्के लोकान् संक्षिप्य मायया ॥ २ ॥
अथ वीर्यमदोन्मत्तावसुरौ मधुकैटभौ ।
तर्जयामासतुर्देवं तरसा युद्धकाङ्क्षिणौ ॥ ३ ॥
निजबाहुविसृष्टौ तौ भूतभावनमक्षयम् ।
जानुभिर्मुष्टिभिश्चैव योधयामासतुः प्रभुम् ॥ ४ ॥
अभिद्रवन्तावन्योन्यं वाक्यैश्च परुषैस्तदा ।
नानाविक्षेपवचनैः कम्पयन्ताविवोदधिम् ॥ ५ ॥

२० परिशिष्टम् [ नाट्यशास्त्रे
तयोर्नानाप्रकाराणि श्रुत्वा वाक्यानि गर्जतोः ।
किंचिदाकम्पितमना द्रुहिणो वाक्यमब्रवीत् ॥ ६ ॥
किमियं भारती वृत्तीर्वाग्भिरेव प्रवर्तते ।
उत्तरोत्तरसंवृद्धा नन्विमौ निधनं नय ॥ ७ ॥
पितामहवचः श्रुत्वा प्रोवाच मधुसूदनः ।
कार्यहेतोर्मया ब्रह्मन् भारतीयं विनिर्मिता ॥ ८ ॥
भाष्यतो वाक्यभूयिष्ठा भारतीयं भविष्यति ।
अहमेतौ निहन्म्यद्य इत्युक्त्वा वचनं हरिः ॥ ९ ॥
शुद्धैर्विविक्तैरङ्गैः साङ्गहारैस्तदा भृशम् ।
योधयामास तौ दैत्यौ युद्धमार्गविशारदौ ॥ १० ॥
भूमिसंस्थानसंयोगैः पदन्यासैस्तदा हरेः ।
अतिभारोऽभवद्भूमेर्भारती तत्र निर्मिता ॥ ११ ॥
वल्गितैः शार्ङ्गधनुषस्तीव्रैर्दीप्तिकरैरथ ।
सत्त्वाधिकैरसंभ्रान्तैः सात्त्वती तत्र निर्मिता ॥ १२ ॥
विचित्रैरङ्गहारैस्तु देवो लीलासमुद्भवैः ।
बबन्ध यच्छिखापाशं कैशिकी तत्र निर्मिता ॥ १३ ॥
संरम्भावेगबहुलैर्नानाचारीसमुत्थितैः ।
नियुद्धकरणैश्चित्रैर्निर्मितारभटी ततः ॥ १४ ॥
यां यां देवः समाचष्टे क्रियां वृत्तिसमुत्थिताम् ।
तां तदर्थानुगैर्वाक्यैर्द्रुहिणः प्रत्यपूजयत् ॥ १५ ॥
यदा हतौ तावसुरौ हरिणा मधुकैटभौ ।
उक्त्वांस्तु तदा ब्रह्मा नारायणमरिंदमम् ॥ १६ ॥
अहो विचित्रैर्विशदैः स्फुटैः सुललितैरपि ।
अङ्गहारैः कृतं देव त्वया दानवनाशनम् ॥ १७ ॥
तस्मादयं सर्वलोके नियुद्धसमयक्रमः ।
सर्वशास्त्रविमोक्षेषु न्यायसंज्ञो भविष्यति ॥ १८ ॥
न्यायाश्रितैरङ्गहारैर्न्यायाच्चैव समुत्थितैः ।
यस्माद् युद्धं कृतं ह्येतत्तस्मान्न्यायः प्रकीर्तितः ॥ १९ ॥
[ततो देवेषु निश्चिता द्रुहिणेन महात्मना ।
पुनर्नाट्यप्रयोगे च नानाभावरसान्विता ॥ २० ॥
वृत्तिसंज्ञा कृता ह्येषा नानाभावरसाश्रया ।
चरितैस्तस्य देवस्य द्रव्यं यद् यादृशं कृतम् ॥ २१ ॥
ऋषिभिस्तादृशी वृत्तिः कृता वाक्याङ्गसंभवा ।
नाट्यवेदसमुत्पन्ना वागङ्गाभिनयात्मिका ॥ २२ ॥
पुनरिष्टसुजातेन नानाचारीसमाकुले ।
मया काव्यक्रियाहेतोः प्रक्षिप्ता द्रुहिणाज्ञया ॥ २३ ॥

अध्यायः २० ] दशरूपकस्य २१
ऋग्वेदाद्भारती वृत्तिर्यजुर्वेदात्तु सात्त्वती ।
कैशिकी सामवेदाच्च शेषा चाथर्वणात्तथा ॥ २४ ॥
या वाक्प्रधाना पुरुषप्रयोज्या
स्त्रीवर्जिता संस्कृतवाक्ययुक्ता ।
स्वनामधेयैर्भरतैः प्रयुक्ता
सा भारती नाम भवेत्तु वृत्तिः ॥ २५ ॥
भेदास्तस्यास्तु विज्ञेयाश्चत्वारोऽङ्गत्वमागताः ।
प्ररोचनामुखं चैव वीथी प्रहसनं तथा ॥ २६ ॥
जय(यि?)न्युदयिनी चैव मङ्गल्या विजयावहा ।
सर्वपापप्रशमनी पूर्वरङ्गे प्ररोचना ॥ २७ ॥
नटी विदूषको वापि पारिपार्श्वक एव वा ।
सूत्रधारेण सहिताः संलापं यत्र कुर्वते ॥ २८ ॥
चित्रैर्वाक्यैः स्वकार्योत्थैर्वीथ्यङ्गै रन्यथापि वा ।
आमुखाङ्गान्यतो वक्ष्ये यथावदनुपूर्वशः ॥ २९ ॥
उद्घात्यकः कथोद्घातः प्रयोगातिशयस्तथा ।
प्रवृत्तिकावलगिते आमुखाङ्गानि पञ्च वै ॥ ३० ॥
उद्घात्यकावलगितयोर्लक्षणं कथितं मया ।
शेषाणां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः ॥ ३१ ॥
सूत्रधारस्य वाक्यं वा यत्र वाक्यार्थमेव वा ।
गृहीत्वा प्रविशेत् पात्रं प्रयोगातिशयो हि सः ॥ ३२ ॥
प्रवृत्तं कार्यमाश्रित्य सूत्रभृद् यत्र वर्णयेत् ।
तदाश्रयाच्च पात्रस्य प्रवेशस्तत् प्रवृत्तकम् ॥ ३३ ॥
एषामन्यतमं श्लिष्टं योजयित्वा तु युक्तिभिः ।
पात्रग्रन्थैरसंबाधं प्रकुर्यादामुखं बुधः ॥ ३४ ॥
एवमेतद् बुधैर्ज्ञेयमामुखं विबुधाश्रयम् ।
लक्षणं पूर्वमुक्तं तु वीथ्याः प्रहसनस्य च ॥ ३५ ॥
इत्यष्टार्थविकल्पा वृत्तिरियं भारती मया प्रोक्ता ।
सात्त्वत्यास्तु विधानं लक्षणयुक्त्या प्रवक्ष्यामि ॥ ३६ ॥
या सात्त्वतेनेह गुणेन युक्ता
न्यायेन वृत्तेन समन्विता च ।
हर्षोत्कटा संहृतशोकभावा
सा सात्त्वती नाम भवेत्तु वृत्तिः ॥ ३७ ॥
वागङ्गाभिनयवती सत्त्वोत्थानवचनप्रकरणेषु ।
सत्त्वाधिकारयुक्ता विज्ञेया सात्त्वती वृत्तिः ॥ ३८ ॥
वीराद्भुतरौद्ररसा विज्ञेया ह्यल्पकरुणशृङ्गारा ।
उद्धतपुरुषप्राया परस्पराघर्षणकृता च ॥ ३९ ॥

[२२] परिशिष्टम् [नाट्यशास्त्रे]

उत्थापकश्च परिवर्तकश्च संलापकः ससंघातः ।
चत्वारोऽस्या भेदा विज्ञेया नाट्यतत्त्वज्ञैः ॥ ४० ॥
अहमप्युत्थास्यामि त्वं तावद्दर्शयात्मनः शक्तिम् ।
इति संघर्षसमाश्रयमुत्थितमुत्थापको ज्ञेयः ॥ ४१ ॥
उत्थानसमारब्धानर्थानुत्सृज्य योऽर्थयोगवशात् ।
अन्यानर्थान् भजते स चापि परिवर्तको ज्ञेयः ॥ ४२ ॥
साधर्षजो निराधर्षजो वापि विविधवचनसंयुक्तः ।
साधिक्षेपालापो ज्ञेयः संलापकः सोऽपि ॥ ४३ ॥
मित्रार्थवाक्ययुक्त्या दैववशादात्मदोषयोगाद्वा ।
संघातभेदजननस्तज्ज्ञैः संघातको ज्ञेयः ॥ ४४ ॥
इत्यष्टार्थविकल्पा वृत्तिरियं सात्त्वती मयाभिहिता ।
कैशिक्यास्त्विह लक्षणमतः परं संप्रवक्ष्यामि ॥ ४५ ॥
या श्लक्ष्णनेपथ्यविशेषचित्रा
स्त्रीसंयुता या बहुनृत्तगीता ।
कामोपभोगप्रभवोपचारा
तां कैशिकीं वृत्तिमुदाहरन्ति ॥ ४६ ॥
नर्म च नर्मस्फूर्जो नर्मस्फोटोऽथ नर्मगर्भश्च ।
कैशिक्याश्चत्वारो भेदा ह्येते समाख्याताः ॥ ४७ ॥
आस्थापितशृङ्गारं विशुद्धकरणं निवृत्तवीररसम् ।
हास्यप्रवचनबहुलं नर्म त्रिविधं विजानीयात् ॥ ४८ ॥
ईर्ष्याक्रोधप्रयासोपालम्भवचनानुविद्धं च ।
आत्मोपक्षेपकृतं सविप्रलम्भं स्मृतं नर्म ॥ ४९ ॥
नवसंगमसंभोगो रतिसमुदयवाक्यवेषसंयुक्तः ।
ज्ञेयो नर्मस्फूर्जो ह्यवसानभयानकश्चैव ॥ ५० ॥
विविधानां भावानां लवैर्लवैर्भूषितो बहुविशेषैः ।
असमग्राक्षिप्तरसो नर्मस्फोटस्तु विज्ञेयः ॥ ५१ ॥
विज्ञानरूपसंभावनादिभिर्नायको गुणैर्यत्र ।
प्रच्छन्नं व्यवहरते कार्यवशान्नर्मगर्भोऽसौ ॥ ५२ ॥
[पूर्वस्थितानिपद्येत(?)यत्र चान्यतमनायकस्तिष्ठेत् ।
तमपीह नर्मगर्भं वदन्ति नाट्यप्रयोगेऽस्मिन् ॥ ५३ ॥]
इत्यष्टार्थविकल्पा वृत्तिरियं कैशिकी मया प्रोक्ता ।
अत ऊर्ध्वमुद्धतरसामारभटीं संप्रवक्ष्यामि ॥ ५४ ॥
आरभटप्रायगुणा तथैव बहुकपटवञ्चनोपेता ।
दम्भानृतवचनवती त्वारभटी नाम विज्ञेया ॥ ५५ ॥
प्रस्तावपातप्लुतलङ्घितानि चान्यानि मायाकृतमिन्द्रजालम् ।
चित्राणि युद्धानि च यत्र नित्यं तां तादृशीमारभटीं वदन्ति ५६

अध्यायः २४ ] दशरूपकस्य २३
संक्षिप्तकावपातौ वस्तूत्थापनमथापि संफेटः ।
एते ह्यस्या भेदा लक्षणमेषां प्रवक्ष्यामि ।
अन्वर्थशिल्पयुक्तो बहुपुस्तोत्थानचित्रनेपथ्यः ।
संक्षिप्तवस्तुविषयो ज्ञेयः संक्षिप्तको नाम ॥ ५७ ॥
भयहर्षसमुत्थानं विद्रुतसंभ्रान्तविविधवचनं च ।
क्षिप्रप्रवेशनिर्गममवपातममुं विजानन्ति ॥ ५८ ॥
सर्वरससमासकृतं सविद्रवाविद्रवाश्रयं वापि ।
नाट्यं विभाव्यते यत्तद्वस्तूत्थापनं ज्ञेयम् ॥ ५९ ॥
संरम्भसमायुक्तो बहुयुद्धनियुद्धकपटनिर्भेदः ।
शस्त्रप्रहारबहुलः संफेटो नाम विज्ञेयः ॥ ६० ॥
एवमेता बुधैर्ज्ञेया वृत्तयो नाट्यसंश्रयाः ।
रसप्रयोगमासां च कीर्त्यमानं निबोधत ॥ ६१ ॥
शृङ्गारे चैव हास्ये च वृत्तिः स्यात् कैशिकीति सा ।
सात्त्वती नाम सा ज्ञेया वीररौद्राद्भुताश्रया ॥ ६२ ॥
भयानके च बीभत्से रौद्रे चारभटी भवेत् ।
भारती चापि विज्ञेया करुणाद्भुतसंश्रया ॥ ६३ ॥
[न ह्येकरसं काव्यं किंचिदस्ति प्रयोगतः ।
भावोऽपि रसो वापि प्रवृत्तिरेव वा (?) ॥ ६४ ॥
सर्वेषां समवेतानां रूपं यस्य भवेद्बहु ।
स मन्तव्यो रसः स्थायी शेषाः संचारिणो मताः ॥ ६५ ॥]
वृत्त्यन्त एषोऽभिनयो मयोक्तो
वागङ्गसत्त्वप्रभवो यथावत् ।
आहार्यमेवाभिनयं प्रयोगे
वक्ष्यामि नेपथ्यकृतं पुनश्च ॥ ६६ ॥
इति भारतीये नाट्यशास्त्रे वृत्तिविकल्पो नाम विंशोऽध्यायः ।
चतुर्विंशोऽध्यायः ।
समासतःतु त्रिविधा प्रकृतिः परिकीर्तिता ।
स्त्रीणां च पुरुषाणां च उत्तमाधममध्यमाः ॥ १ ॥
नाट्ये चत्वार एवैते नायकाः परिकीर्तिताः ।
तत्रोत्तमायां प्रकृतौ नानालक्षणलक्षिताः ॥ २ ॥
धीरोद्धतो धीरललितो धीरोदात्तस्तथैव च ।
धीरप्रशान्तश्चैवेति नायका नाटकाश्रयाः ॥ ३ ॥
देवा धीरोद्धता ज्ञेयाः स्युर्धीरललिता नृपाः ।
सेनापतिरमात्याश्च धीरोदात्ताः प्रकीर्तिताः ॥ ४ ॥
द० १२

२४ परिशिष्टम् [ नाट्यशास्त्रे
ब्राह्मणा वणिजश्चैव प्रोक्ता धीरप्रशान्तकाः ।
एतेषां च पुनज्ञेयाश्चत्वारोऽथ विदूषकाः ॥ ५ ॥
एते तु नायका ज्ञेयाः काव्यबन्धेषु सर्वदा ।
नायिकाश्चैव वक्ष्यामि चतस्रः पुनरेव तु ॥ ६ ॥
दिव्या च नृपपत्नी च कुलस्त्री गणिका तथा ।
एतास्तु नायिका ज्ञेया नानाप्रकृतिलक्षणाः ॥ ७ ॥
धीराश्च ललिताश्चैव उदात्ता निभृतास्तथा ।
दिव्या राजाङ्गना ह्येता गुणैर्युक्ता भवन्ति हि ॥ ८ ॥
उदात्ता निभृता चैव भवेत्तु कुलजाङ्गना ।
गणिका शिल्पकारी च उदात्तललिते स्मृते ॥ ९ ॥
प्रेष्या चैव हि विज्ञेया संकीर्णप्रकृतावपि ।
नपुंसकश्च विज्ञेयः संकीर्णोऽधम एव च ॥ १० ॥
संकरे स्थविरश्चैव ये चान्येऽप्यधमा नराः ।
संकीर्णांस्तेऽपि विज्ञेया नाटकेषु द्विजोत्तमाः ॥ ११ ॥
एते ज्ञेयाः प्रकृत्या तु पुरुषस्त्रीनपुंसकाः ।
एतेषां चैव वक्ष्यामि विभागं शीललक्षणैः ।
सर्वासां प्रकृतीनां तु प्रकारो द्विविधः स्मृतः ॥ १२ ॥
तत्र राजोपचारो यो भवेदभ्यन्तरस्तु सः ।
वाह्योपचारो यस्तस्माद्विज्ञेयो बाह्य एव सः ॥ १३ ॥
तस्माद्राजोपचारेषु पुनरभ्यन्तराश्रयम् ।
स्त्रीविभागं प्रवक्ष्यामि उपचारं तथैव च ॥ १४ ॥
महादेवी तथा देवी स्वामिनी स्थायिनी तथा ।
भोगिनी शिल्पकारी च नाटकीयाथ नर्तकी ॥ १५ ॥
अनुचारी तथायुक्ता तथा च परिचारिका ।
तथा संचारिणी चैव तथा प्रेषणकारिका ॥ १६ ॥
महत्तरा प्रतीहारी कुमारी स्थविरा तथा ।
आयुक्तिकास्तु भूपानामेष आभ्यन्तरो गणः ॥ १७ ॥
तथा मूर्धावसिक्ता च कुलशीलविभूषिता ।
समतुल्यचरित्रा च वयस्या क्रोधवर्जिता ॥ १८ ॥
अनीर्ष्या नृपशीलज्ञा समदुःखसुखास्पदा ।
शान्तिस्वस्त्ययनैर्नित्यं भर्तृमङ्गलकाङ्क्षिणी ॥ १९ ॥
पतिव्रता क्षमायुक्ता अन्तःपुरहिते रता ।
एभिर्गुणैस्तु संयुक्ता महादेवी प्रकीर्तिता ॥ २० ॥
एभिरेव गुणैर्युक्ता वहुमानविवर्जिता ।
गर्विता राजपुत्री च रतिसंभोगतत्परा ॥ २१ ॥

अध्यायः २४ ] दशरूपकस्य २५
बाला नित्‍योज्‍ज्वलगुणा प्रतिपक्षेष्वसूयिका ।
यौवनादिगुणोन्मत्ता सा देवीत्यभिधीयते ॥ २२ ॥
सेनापतेरमात्यानां दण्डिता तत्पराश्च या ।
तनया नामतश्चैव स्वामिनीत्यभिसंज्ञिता ॥ २३ ॥
शीलरूपगुणैर्या तु संयुक्ता नृपवल्लभा ।
स्वामिसत्कारसंपन्ना स्वामिनीति हि संज्ञिता ॥ २४ ॥
रूपयौवनसंपन्ना कर्कशा ललिता तथा ।
रतिसंभोगकुशला प्रतिपक्षेऽभ्यसूयिका ॥ २५ ॥
दक्षा स्फुटा हृदात्ता च गन्धमाल्योज्ज्वला तथा ।
नृपतिच्छन्दवृत्ता च सर्वत्रेर्ष्याविवर्जिता ।
उपस्थिता चाप्रमत्ता निद्रालस्या ह्यनिष्ठुरा ॥ २६ ॥
मान्यामान्यविशेषज्ञा स्थायिनी संप्रकीर्तिता ।
सुशीला लघुसंमाना मृदुर्नात्युद्धता तथा ।
मध्यस्था निभृता क्षान्ता योगिनीति हि सा स्मृता ॥ २७ ॥
नानाकलाविशेषज्ञा नाना शिल्पविचक्षणा ।
गन्धशिल्पविभागज्ञा नानालेख्यविशारदा ॥ २८ ॥
शयनासनयानज्ञा चतुरा चतुरा तथा ।
दक्षा चित्रास्फुटा श्लक्ष्णा निभृता शिल्पकारिका ॥ २९ ॥
ग्रहमोक्षलयज्ञा च रसभावविभाविका ।
परभावेङ्गितज्ञा च आचार्यानुगता तथा ॥ ३० ॥
चतुराभिनयज्ञा च ऊहापोहविचक्षणा ।
निपुणा भाण्डवाद्येषु नाटकीया प्रकीर्तिता ।
यौवनादिगुणोन्मत्ता नृत्तगीतविचक्षणा ॥ ३१ ॥
सदा प्रगल्भा च तथा त्यक्तालस्या जितश्रमा ।
समागतासु नारीषु रूपयौवनकान्तिषु ॥ ३२ ॥
न दृश्यन्ते गुणैस्तुल्या नर्तकी सा प्रकीर्तिता ।
सर्वावस्थाप्रचारेषु अनुगच्छति या नृपम् ॥ ३३ ॥
विज्ञेयं नाम तस्यास्तु नृपतेरनुचारिका ।
भाण्डागारे नियुक्ता च आयुधागार एव च ॥ ३४ ॥
औषधीफलमूलेषु बीजेषु व्यापृता तथा ।
गन्धाभरणवस्त्रेषु आख्यानकथनेषु च ॥ ३५ ॥
बह्वर्थेषु नियुक्ता या आयुक्ता च इति स्मृता ।
छत्रशय्यासने युक्ता तथा व्यञ्जनकर्मणि ॥ ३६ ॥
संवाहने च गन्धे च तथा चैव प्रसाधने ।
तथाभरणसंयोगे माल्यासंग्रहणेषु च ।
विज्ञेया नामतः सा तु नृपतेः परिचारिका ॥ ३७ ॥

२६ परिशिष्टम् [ नाट्यशास्त्रे
नानाकक्ष्यादिचारिण्यस्तथोपवनसंचराः ।
देवतायतनक्रीडाप्रासादपरिसंचराः ॥ ३८ ॥
यामेषु च नियुक्ता यास्तथा च विविधाश्रये ।
संचारिक्यस्तु विज्ञेया नाट्यज्ञैरुपचारतः ॥ ३९ ॥
प्रेषणैः कामसंयुक्तैर्गुह्याद्गुह्यसमुत्थितैः ।
या नियुक्ता बुधैः सा तु ज्ञेयाऽन्वेषणकारिका ॥ ४० ॥
सर्वान्तःपुररक्षायामाशीःस्वस्त्ययनादिभिः ।
या नित्यमभिनन्दन्ति ज्ञेयास्ताः सुमहत्तराः ॥ ४१ ॥
संधिविग्रहसंबन्धनानाकार्यसमुत्थितम् ।
निवेदयन्ति कार्यं याः प्रतीहार्यस्तु ताः स्मृताः ॥ ४२ ॥
अप्राप्तरतिसंभोगा असंभ्रान्ता अनुद्धताः ।
निभृता या[:] सलज्जाश्च ताः कुमार्य इति स्मृताः ॥ ४३ ॥
पूर्वराजनयाभिज्ञाः सर्वराजसु पूजिताः ।
पूर्वराजोपचारज्ञास्ता वृद्धा इति संज्ञिताः ॥ ४४ ॥
समासाल्लक्षणं तासां प्रवक्ष्यामि द्विजोत्तमाः ।
या नियोज्या नियोगेषु प्रयोगेषु तथैव हि ॥ ४५ ॥
अनुद्धता ह्यसंभ्रान्ताः सुवेषाचारनिष्ठुराः ।
क्षान्ता दीनाः सुशीलाश्च जितक्रोधा जितेन्द्रियाः ॥ ४६ ॥
प्रकामनिभृताश्चैव स्त्रीदोषैश्च विवर्जिताः ।
ता नियोगे नियोक्तव्या वनिता मदवर्जिताः ॥ ४७ ॥
यत्स्यान्नपुंसकं नाम तृतीया प्रकृतिस्तु या ।
साऽप्यन्तःपुरसंचारे योज्या पार्थिववेश्मनि ॥ ४८ ॥
स्नातकाः कञ्चुकीयाश्च तथा वर्षध(व)राश्च ये ।
औपस्थायिकनिर्मुण्डाः कक्षास्थानेषु योजयेत् ॥ ४९ ॥
अपुमांसस्तु पुरुषा ये तु स्त्रीभोगवर्जिताः ।
एते त्वन्तःपुरचरा[:] कार्या नित्यं हि नाटके ॥ ५० ॥
वस्त्वन्ते(?) स्नातकं कुर्यादार्यमाचारसंयुतम् ।
प्रेषणे वार्थसंयुक्ते कञ्चुकीयान्नियोजयेत् ॥ ५१ ॥
तथा वर्ष(व)धरांश्चैव कामचारेषु योजयेत् ।
औपस्थायिकनिर्मुण्डाः स्त्रीणां प्रेषणकारणे ॥ ५२ ॥
मानकार्येषु नारीणां नियुञ्जीतानुचारिकाः ।
सद्योवृत्तान्तयोगज्ञं नाट्यागारे नियोजयेत् ॥ ५३ ॥
ये त्वल्पसत्त्वाः कुशलाः क्लीबाश्च स्त्रीस्वभाविनः ।
जात्या न दुष्टाः कार्ये च ते वै वर्षध(व)राः स्मृताः ॥ ५४ ॥

अध्यायः २४ ] दशरूपकस्य २७
नपुंसका ये पुरुषाः स्त्रीस्वभावेन वर्जिताः ।
निर्मुण्डा नामतो ज्ञेयाः कामविज्ञानवर्जिताः ॥ ५५ ॥
ये विद्यासत्यसंपन्नाः कामदोषविवर्जिताः ।
ज्ञानविज्ञानकुशलाः कञ्चुकीयास्तु ते स्मृताः ॥ ५६ ॥
एतदष्टादशविधं प्रोक्तमन्तःपुरं मया ।
अतः परं प्रवक्ष्यामि बाह्यं पुरुषसंचरम् ॥ ५७ ॥
राजा सेनापतिश्चैव कुमारो मन्त्रिणस्तथा ।
सचिवाः प्राड्विवाकाश्च प्रयोगाधिकृतास्तथा ॥ ५८ ॥
एते चान्ये च बहव[:] समा(भा)स्तारा नृपस्य तु ।
विभागमेषां वक्ष्यामि लक्षणं च पृथक् पृथक् ॥ ५९ ॥
शीलवान् बुद्धिसंपन्नः सत्यवादी जितेन्द्रियः ।
दक्षः प्रगल्भः स्मृतिमान् विक्रान्तो धृतिमान् शुचिः ॥६०॥
दीर्घदर्शी महोत्साहः कृतज्ञः प्रियवागपि ।
लोकपालव्रतचरः शूरो धीरः क्षमान्वितः ॥ ६१ ॥
उत्थितश्चाप्रमत्तश्च वृद्धः स्मृत्यर्थशास्त्रवित् ।
नानानाट्यप्रचारज्ञ ऊहापोहविचक्षणः ॥ ६२ ॥
परभावेङ्गितज्ञश्च षाड्गुण्येनाप्यलंकृतः ।
नानाशास्त्रार्थतत्त्वज्ञो नानाशिल्पप्रयोजकः ॥ ६३ ॥
स्थानवृद्धिक्षयज्ञश्च पररन्ध्रविचक्षणः ।
कृतज्ञोऽव्यसनी चैव गुणैरेतैर्भवेन्नृपः ॥ ६४ ॥
शीलवान् सत्यसंपन्नस्त्यक्तकालस्यः प्रियंवदः ।
पररन्ध्रविधिज्ञश्च यात्राकालविशेषवित् ॥ ६५ ॥
अर्थशास्त्रार्थतत्त्वज्ञो ह्यनुरक्तः कुले वृतः ।
देशवित् कालविच्चैव भवेत् सेनापतिर्गुणैः ॥ ६६ ॥
कुलीना बुद्धिसंपन्नाः श्रुतिनीतिविशारदाः ।
स्वदेश्याश्चानुरक्ताश्च शुचयो धार्मिकास्तथा ॥ ६७ ॥
अमात्या मन्त्रिणश्चैव गुणैरेतैर्भवन्ति हि ।
व्यवहारार्थतत्त्वज्ञा बुद्धिमन्तो बहुश्रुताः ॥ ६८ ॥
मध्यस्था धार्मिका रक्ताः कार्याकार्यविचक्षणाः ।
शान्ता दान्ता जितक्रोधा नोद्धताः समदर्शिनः ॥ ६९ ॥
ईदृशाः प्राड्विवाकाश्च स्थाप्या धर्मासनेष्वथ ।
उत्थिताश्चाप्रमत्ताश्च त्यक्तालस्या जितक्लमाः ॥ ७० ॥
स्निग्धाः क्षान्ता विनीताश्च मध्यस्था निपुणास्तथा ।
नयज्ञा विनयज्ञाश्च ऊहापोहविचक्षणाः ॥ ७१ ॥
नानारूपैः समायुक्ता गुणैरेतैर्भवन्ति हि ।
बृहस्पतिमतादेशाद् गुणानां प्रविभावकम् ॥ ७२ ॥

२८ परिशिष्टम् [ नाट्यशास्त्रे
विज्ञेयं वाचि कर्मज्ञैः समास्तारादिकत्थनम् ।
अत्रोच्यते यथानाट्यमाहार्यगुणसंभवम् ॥ ७३ ॥
कथं राजगुणाः कार्या नटैरल्पपरिच्छदैः ।
अत्रोच्यते यदा लोके नाट्यधर्माः प्रवर्तिताः ।
तदेव सर्वसंपन्नं नाट्यमेतन्मया कृतम् ॥ ७४ ॥
वर्णकैश्छादितस्तत्र भूषणैश्चाप्यलंकृतः ।
गाम्भीर्यौदार्यसंपन्नो राजवत्तु भवेन्नटः ॥ ७५ ॥
सप्तद्वीपाश्रयश्चैव एवमेको नटो भवेत् ।
वर्णकैश्छादितैर्नेह कार्यं त्वर्थविचेष्टितम् ॥ ७६ ॥
आचार्यबुद्ध्या शान्तस्तु सौष्ठवाङ्गपुरस्कृतः ।
राजवद्भरतस्तस्माद् राजापि नटवद्भवेत् ॥ ७७ ॥
यथा नटस्तथा राजा तथा च नट उच्यते ।
उभाभ्यां भावनिष्पत्तिः समलीलाङ्गसौष्ठवा ॥ ७८ ॥
यथाचार्योपदेशेन रङ्गशोभी भवेन्नटः ।
एवं स्वभावतो राजा नित्यमेवोज्ज्वलो भवेत् ॥ ७९ ॥
दिव्यानां यः परिवारः पार्थिवानां भवेदिह ।
नाटके संप्रयोक्तव्यो वेषभाषाक्रियान्वितः ॥ ८० ॥
यादृशं यस्य यद्रूपं प्रकृत्या तस्य तादृशम् ।
वयोवेषविधानेन कर्तव्यं प्रयुयुक्षुणा ॥ ८१ ॥
एवं राजोपचारेषु कार्यः पुरुषसंग्रहः ।
अत ऊर्ध्वं प्रवक्ष्यामि नानापुरुषलक्षणम् ॥ ८२ ॥
नानाशीलगुणे लोके उत्तमाधममध्यमे ।
प्रयोक्तव्याः पृथग्भावैर्विज्ञेया प्रकृतिर्बुधैः ॥ ८३ ॥
नानाशिल्पादिसंपन्ना ज्ञानवन्तो जितेन्द्रियाः ।
लोकक्रियाविशेषज्ञा धर्माधर्मविचक्षणाः ॥ ८४ ॥
शास्त्रेतिहासकुशलाः शीलवृत्तव्यवस्थिताः ।
अहिंसासत्त्वसंपन्नाः प्रकृत्या तूत्तमाः स्मृताः ॥ ८५ ॥
लोकोपचारतत्त्वज्ञाः शिल्पशास्त्रविचक्षणाः ।
मध्यप्रायगुणोपेताः प्रकृत्या मध्यमाः स्मृताः ॥ ८६ ॥
रूक्षवाक्या दुराचारा निःसत्त्वाः खल्पबुद्धयः ।
क्रोधना घातकाश्र्चैव कृतघ्नाश्छिद्रदर्शिनः ॥ ८७ ॥
वृथारम्भप्रसक्ताश्च यत्किंचिद्वादिनोऽल्पकाः ।
पिशुनाः पापनिरताः स्त्रीलोलाः कलहप्रियाः ॥ ८८ ॥
मान्यामान्यविशेषाणामनभिज्ञाश्च तस्कराः ।
एभिर्दोषैश्च संयुक्ताः प्रकृत्यैवाधमाः स्मृताः ॥ ८९ ॥

अध्यायः २४ ] दशरूपकस्य २९
एवं तु शीलतो ज्ञेया प्रकृतिस्त्रिविधा बुधैः ।
अतः परं प्रवक्ष्यामि प्रयोक्तॄणां तु सद्गुणान् ॥ ९० ॥
तत्र सूत्रधारगुणान् वक्ष्यामः—अस्यादित एव तावल्लक्ष-
णज्ञता, अहीनो वाक्यसंस्कारः, तथा गीतकालविधानज्ञता,
स्वरवादित्रतत्त्ववादः।
चतुरो नाट्यकुशलः शास्त्ररीतिप्रतिष्ठितः ।
नानापाषण्डकार्यज्ञो नीतिशास्त्रार्थवित्तथा ॥ ९१ ॥
वैश्योपचारनिपुणः काव्यशास्त्रविचक्षणः ।
नानागतिप्रचारज्ञो रसभावविशारदः ॥ ९२ ॥
नाट्यप्रयोगकुशलो नानाशिल्पसमन्वितः ।
छन्दोविधानतत्त्वज्ञः सर्वशास्त्रविचक्षणः ॥ ९३ ॥
ग्रहनक्षत्रतत्त्वज्ञो देशव्याहारतत्त्ववित् ।
पृथिवीद्वीपवर्षाणां पर्वतानां जनस्य च ॥ ९४ ॥
प्रमाणाचारतज्ज्ञश्च राजवंशप्रसूतिवित् ।