दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 135, कुल 168 में से
संदर्भ में पढ़ें१४ परिशिष्टम् [ नाट्यशास्त्रे
वचः सातिशयं श्लिष्टं काव्यबन्धसमाश्रयम् ।
पताकास्थानकमिदं द्वितीयं परिकीर्तितम् ॥ ३३ ॥
अर्थोपक्षेपणं यत्र लीनं सविनयं भवेत् ।
श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमिष्यते ॥ ३४ ॥
द्व्यर्थो वचनविन्यासः सुश्लिष्टः काव्ययोजितः ।
उपन्यासः संयुतश्च तच्चतुर्थमुदाहृतम् ॥ ३५ ॥
चतुःपताकापरमं नाटके काव्यमिष्यते ।
पञ्चभिः संधिभिर्युक्तं तांश्च वक्ष्याम्यतः पुनः ॥ ३६ ॥
मुखं प्रतिमुखं गर्भो विमर्शश्च तथैव हि ।
तथा निर्वहणं चेति नाटके पञ्च संधयः ॥ ३७ ॥
पञ्चभिः संधिभिर्युक्तं प्रधानमनुकीर्त्यते ।
शेषाः प्रधानसंधीनामनुग्राह्यास्तु संधयः ॥ ३८ ॥
यत्र बीजसमुत्पत्तिर्नानार्थरससंभवा ।
काव्ये शरीरानुगता तन्मुखं परिकीर्तितम् ॥ ३९ ॥
बीजस्योद्घाटनं यत्तु दृष्टनष्टमिव क्वचित् ।
मुखन्यस्तस्य सर्वत्र तद्वै प्रतिमुखं स्मृतम् ॥ ४० ॥
उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा ।
पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः ॥ ४१ ॥
गर्भानिर्भिन्नबीजार्थो विलोभनकृतोऽपि वा ।
क्रोधव्यसनजो वापि स विमर्श इति स्मृतः ॥ ४२ ॥
समानं च समर्थानां मुख्यार्थानां सबीजिनाम् ।
नानाभावोऽन्तराणां यद्भवेन्निर्वहणं तु तत् ॥ ४३ ॥
एते तु संधयो ज्ञेया नाटकस्य प्रयोक्तृभिः ।
तथा प्रकरणस्यापि शेषाणां विनिबोधत ॥ ४४ ॥
[ व्यायोगेहामृगौ चापि त्रिसंधी परिकीर्तितौ । ]
न तयोरवमर्शस्तु कर्तव्यः कविभिः सदा ॥ ४५ ॥
डिमः समवकारश्च चतुःसंधी प्रकीर्तितौ ।
गर्भावमर्शौ न स्यातां न च वृत्तिस्तु कैशिकी ॥ ४६ ॥
द्विसंधि तु प्रहसनं वीथ्यङ्को भाण एव च ।
मुखनिर्वहणे स्यातां तेषां वृत्तिश्च भारती ॥ ४७ ॥
एवं हि संधयः कार्या दशरूपे प्रयोक्तृभिः ।
पुनरेषां तु संधीनामङ्गकल्पं निबोधत ॥ ४८ ॥
संधीनां यानि वृत्तानि प्रदेशेष्वनुपूर्वशः ।
स्वसंपद्गुणयुक्तानि तान्यङ्गान्युपधारयेत् ॥ ४९ ॥
इष्टस्यार्थस्य रचना वृत्तान्तस्यानुपक्षयः ।
रागप्राप्तिः प्रयोगस्य गुह्यानां चैव गूहनम् ॥ ५० ॥