सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 134, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 134

अध्यायः १९ ] दशरूपकस्य १३
सर्वस्यै( स्य )व हि कार्यस्य प्रारब्धस्य फलार्थिभिः ।
एता अनुक्रमेणैव पञ्चावस्था भवन्ति हि ॥ १५ ॥
तासां स्वभावभिन्नानां परस्परसमागमात् ।
विन्यास एकभावेन फलहेतुः प्रकीर्तितः ॥ १६ ॥
इतिवृत्तं समाख्यातं प्रत्यगेवाधिकारिकम् ।
तदारम्भादि कर्तव्यं फलान्तं च यथा भवेत् ॥ १७ ॥
पूर्णसंधि तु तत्कार्यं हीनसंध्यपि वा पुनः ।
नियमात्पञ्चसंधि स्याद्धीनसंध्यथ कारणात् ॥ १८ ॥
चतुर्थस्यैकलोपे तु द्विलोपे त्रिचतुर्थयोः ।
द्वितीयत्रिचतुर्थानां त्रिलोपे लोप इष्यते ॥ १९ ॥
प्रासङ्गिके परार्थत्वान्न ह्येष नियमो भवेत् ।
यद्वृत्तं संभवेत्तत्र तद्योज्यमविरोधतः ॥ २० ॥
इतिवृत्ते यथावस्थाः पञ्चारम्भादिकाः स्मृताः ।
अर्थप्रकृतयः पञ्च तथा बीजादिका अपि ॥ २१ ॥
बीजं विन्दुः पताका च प्रकरी कार्यमेव च ।
अर्थप्रकृतयः पञ्च ज्ञात्वा योज्या यथाविधि ॥ २२ ॥
स्वल्पमात्रं समुत्सृष्टं बहुधा यद्विसर्पति ।
फलावसानं तच्चैव बीजं तदिह कीर्तितम् ॥ २३ ॥
प्रयोजनानां विच्छेदे यदविच्छेदकारणम् ।
यावत्समाप्तिर्बन्धस्य स बिन्दुः परिकीर्तितः ॥ २४ ॥
यद्वृत्तं हि परार्थं स्यात्प्रधानस्योपकारकम् ।
प्रधानवच्च कल्प्येत सा पताकेति कीर्तिता ॥ २५ ॥
फलं प्रकल्प्यते यस्याः परार्थं केवलं बुधैः ।
अनुबन्धविहीनं स्यात्प्रकरीमिति निर्दिशेत् ॥ २६ ॥
यदाधिकारिकं वृत्तं सम्यक्प्राज्ञैः प्रयुज्यते ।
तदर्थो यः समारम्भस्तत्कार्यं परिकीर्तितम् ॥ २७ ॥
एतेषां यस्य येनार्थो यतश्च गुण इष्यते ।
तत्प्रधानं तु कर्तव्यं गुणभूतान्यतः परम् ॥ २८ ॥
एकोऽनेकोऽपि वा संधिः पताकायां तु यो भवेत् ।
प्रधानार्थानुयायित्वादनुसंधिः प्रकीर्त्यते ॥ २९ ॥
आगर्भ्यादाविमर्शाद्वा पताका विनिवर्तते ।
कस्माद्यस्मान्निबन्धोऽस्याः परार्थः परिकीर्त्यते ॥ ३० ॥
यत्रान्यस्मिन् युज्यमाने तल्लिङ्गेभ्यः ( ङ्गोऽन्यः ) प्रयुज्यते ।
आगन्तुकेन भावेन पताकास्थानकं तु तत् ॥ ३१ ॥
सहसैवार्थसंपत्तिर्गुणवत्युपकारतः ।
पताकास्थानकमिदं प्रथमं परिकीर्तितम् ॥ ३२ ॥