दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 139, कुल 168 में से
संदर्भ में पढ़ें१८ परिशिष्टम् [ नाट्यशास्त्रे
साम भेदस्तथा दण्डः प्रदानं वध एव च ।
प्रत्युत्पन्नमतित्वं च गोत्रस्खलितमेव च ॥ १०५ ॥
साहसं च भयं चैव ह्रीर्माया क्रोध एव च ।
ओजःसंवरणं भ्रान्तिस्तथा हेत्ववधारणम् ॥ १०६ ॥
दूतो लेखस्तथा स्वप्नश्चित्तं मद इति स्मृतम् ।
संध्यन्तराणि संधीनां विशेषास्त्वेकविंशतिः ॥ १०७ ॥ )
विष्कम्भश्चूलिका चैव तथा चैव प्रवेशकः ।
अङ्कावतारोऽङ्कमुखमर्थोपक्षेपपञ्चकम् ॥ १०८ ॥
मध्यमपुरुषनियोज्यो नाटकमुखसंधिमात्रसंचारः ।
विष्कम्भकस्तु संस्कृतपुरोहितामात्यकञ्चुकिभिः ॥ १०९ ॥
शुद्धः संकीर्णो वा द्विविधो विष्कम्भकस्तु विज्ञेयः ।
मध्यमपात्रैः शुद्धः संकीर्णो नीचमध्यकृतः ॥ ११० ॥
अन्तर्यवनिकासंस्थैः शून्यादिभिरनेकधा ।
अर्थोपक्षेपणं यत्तु क्रियते सा हि चूलिका ॥ १११ ॥
अङ्कान्तरानुसारी संक्षेपार्थमधिकृत्य बिन्दूनाम् ।
प्रकरणनाटकविषये प्रवेशको नाम विज्ञेयः ॥ ११२ ॥
नोत्तममध्यमपुरुषैराचरितो नाप्युदात्तवचनकृतः ।
प्राकृतभाषाचारः प्रवेशको नाम विज्ञेयः ॥ ११३ ॥
[ प्राकृतभाषाग्रथितः संस्कृते प्राकृतस्य लोकस्य ।
नीचस्याचरणकृतः प्रवेशको नाम विज्ञेयः ॥ ११४ ॥ ]
अङ्कान्तरेऽथवाङ्के निपतति यस्मिन् प्रयोगमासाद्य ।
बीजार्थयुक्तियुक्तो ज्ञेयो ह्यङ्कावतारोऽसौ ॥ ११५ ॥
विश्लिष्टमुखमङ्कस्य स्त्रिया वा पुरुषेण वा ।
यत्र संक्षिप्यते पूर्वं तदङ्कमुखमिष्यते ॥ ११६ ॥
वृत्तिवृत्त्यङ्गसंपन्नपदार्थप्रकृतिक्षमम् ।
पञ्चावस्थाभिनिष्पन्नैः पञ्चभिः संधिभिर्युतम् ॥ ११७ ॥
संध्यन्तरैकविंशत्या चतुःषष्ट्यङ्गसंयुतम् ।
षट्त्रिंशल्लक्षणोपेतं गुणालंकारभूषितम् ॥ ११८ ॥
महारसं महाभोगमुदात्तवचनान्वितम् ।
महापुरुषसंचारं साध्वाचारजनप्रियम् ॥ ११९ ॥
सुश्लिष्टसंधिसंयोगं सुप्रयोगं सुखाश्रयम् ।
मृदुशब्दाभिधानं च कविः कुर्यात्तु नाटकम् ॥ १२० ॥
अवस्था या हि लोकस्य सुखदुःखसमुद्भवा ।
नानापुरुषसंचारा नाटके संभवेदिह ॥ १२१ ॥
न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला ।
न तत्कर्म न योगोऽसौ नाटके यन्न दृश्यते ॥ १२२ ॥