दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 145, कुल 168 में से
संदर्भ में पढ़ें२४ परिशिष्टम् [ नाट्यशास्त्रे
ब्राह्मणा वणिजश्चैव प्रोक्ता धीरप्रशान्तकाः ।
एतेषां च पुनज्ञेयाश्चत्वारोऽथ विदूषकाः ॥ ५ ॥
एते तु नायका ज्ञेयाः काव्यबन्धेषु सर्वदा ।
नायिकाश्चैव वक्ष्यामि चतस्रः पुनरेव तु ॥ ६ ॥
दिव्या च नृपपत्नी च कुलस्त्री गणिका तथा ।
एतास्तु नायिका ज्ञेया नानाप्रकृतिलक्षणाः ॥ ७ ॥
धीराश्च ललिताश्चैव उदात्ता निभृतास्तथा ।
दिव्या राजाङ्गना ह्येता गुणैर्युक्ता भवन्ति हि ॥ ८ ॥
उदात्ता निभृता चैव भवेत्तु कुलजाङ्गना ।
गणिका शिल्पकारी च उदात्तललिते स्मृते ॥ ९ ॥
प्रेष्या चैव हि विज्ञेया संकीर्णप्रकृतावपि ।
नपुंसकश्च विज्ञेयः संकीर्णोऽधम एव च ॥ १० ॥
संकरे स्थविरश्चैव ये चान्येऽप्यधमा नराः ।
संकीर्णांस्तेऽपि विज्ञेया नाटकेषु द्विजोत्तमाः ॥ ११ ॥
एते ज्ञेयाः प्रकृत्या तु पुरुषस्त्रीनपुंसकाः ।
एतेषां चैव वक्ष्यामि विभागं शीललक्षणैः ।
सर्वासां प्रकृतीनां तु प्रकारो द्विविधः स्मृतः ॥ १२ ॥
तत्र राजोपचारो यो भवेदभ्यन्तरस्तु सः ।
वाह्योपचारो यस्तस्माद्विज्ञेयो बाह्य एव सः ॥ १३ ॥
तस्माद्राजोपचारेषु पुनरभ्यन्तराश्रयम् ।
स्त्रीविभागं प्रवक्ष्यामि उपचारं तथैव च ॥ १४ ॥
महादेवी तथा देवी स्वामिनी स्थायिनी तथा ।
भोगिनी शिल्पकारी च नाटकीयाथ नर्तकी ॥ १५ ॥
अनुचारी तथायुक्ता तथा च परिचारिका ।
तथा संचारिणी चैव तथा प्रेषणकारिका ॥ १६ ॥
महत्तरा प्रतीहारी कुमारी स्थविरा तथा ।
आयुक्तिकास्तु भूपानामेष आभ्यन्तरो गणः ॥ १७ ॥
तथा मूर्धावसिक्ता च कुलशीलविभूषिता ।
समतुल्यचरित्रा च वयस्या क्रोधवर्जिता ॥ १८ ॥
अनीर्ष्या नृपशीलज्ञा समदुःखसुखास्पदा ।
शान्तिस्वस्त्ययनैर्नित्यं भर्तृमङ्गलकाङ्क्षिणी ॥ १९ ॥
पतिव्रता क्षमायुक्ता अन्तःपुरहिते रता ।
एभिर्गुणैस्तु संयुक्ता महादेवी प्रकीर्तिता ॥ २० ॥
एभिरेव गुणैर्युक्ता वहुमानविवर्जिता ।
गर्विता राजपुत्री च रतिसंभोगतत्परा ॥ २१ ॥