दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 142, कुल 168 में से
संदर्भ में पढ़ेंअध्यायः २० ] दशरूपकस्य २१
ऋग्वेदाद्भारती वृत्तिर्यजुर्वेदात्तु सात्त्वती ।
कैशिकी सामवेदाच्च शेषा चाथर्वणात्तथा ॥ २४ ॥
या वाक्प्रधाना पुरुषप्रयोज्या
स्त्रीवर्जिता संस्कृतवाक्ययुक्ता ।
स्वनामधेयैर्भरतैः प्रयुक्ता
सा भारती नाम भवेत्तु वृत्तिः ॥ २५ ॥
भेदास्तस्यास्तु विज्ञेयाश्चत्वारोऽङ्गत्वमागताः ।
प्ररोचनामुखं चैव वीथी प्रहसनं तथा ॥ २६ ॥
जय(यि?)न्युदयिनी चैव मङ्गल्या विजयावहा ।
सर्वपापप्रशमनी पूर्वरङ्गे प्ररोचना ॥ २७ ॥
नटी विदूषको वापि पारिपार्श्वक एव वा ।
सूत्रधारेण सहिताः संलापं यत्र कुर्वते ॥ २८ ॥
चित्रैर्वाक्यैः स्वकार्योत्थैर्वीथ्यङ्गै रन्यथापि वा ।
आमुखाङ्गान्यतो वक्ष्ये यथावदनुपूर्वशः ॥ २९ ॥
उद्घात्यकः कथोद्घातः प्रयोगातिशयस्तथा ।
प्रवृत्तिकावलगिते आमुखाङ्गानि पञ्च वै ॥ ३० ॥
उद्घात्यकावलगितयोर्लक्षणं कथितं मया ।
शेषाणां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः ॥ ३१ ॥
सूत्रधारस्य वाक्यं वा यत्र वाक्यार्थमेव वा ।
गृहीत्वा प्रविशेत् पात्रं प्रयोगातिशयो हि सः ॥ ३२ ॥
प्रवृत्तं कार्यमाश्रित्य सूत्रभृद् यत्र वर्णयेत् ।
तदाश्रयाच्च पात्रस्य प्रवेशस्तत् प्रवृत्तकम् ॥ ३३ ॥
एषामन्यतमं श्लिष्टं योजयित्वा तु युक्तिभिः ।
पात्रग्रन्थैरसंबाधं प्रकुर्यादामुखं बुधः ॥ ३४ ॥
एवमेतद् बुधैर्ज्ञेयमामुखं विबुधाश्रयम् ।
लक्षणं पूर्वमुक्तं तु वीथ्याः प्रहसनस्य च ॥ ३५ ॥
इत्यष्टार्थविकल्पा वृत्तिरियं भारती मया प्रोक्ता ।
सात्त्वत्यास्तु विधानं लक्षणयुक्त्या प्रवक्ष्यामि ॥ ३६ ॥
या सात्त्वतेनेह गुणेन युक्ता
न्यायेन वृत्तेन समन्विता च ।
हर्षोत्कटा संहृतशोकभावा
सा सात्त्वती नाम भवेत्तु वृत्तिः ॥ ३७ ॥
वागङ्गाभिनयवती सत्त्वोत्थानवचनप्रकरणेषु ।
सत्त्वाधिकारयुक्ता विज्ञेया सात्त्वती वृत्तिः ॥ ३८ ॥
वीराद्भुतरौद्ररसा विज्ञेया ह्यल्पकरुणशृङ्गारा ।
उद्धतपुरुषप्राया परस्पराघर्षणकृता च ॥ ३९ ॥