दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 136, कुल 168 में से
संदर्भ में पढ़ेंअध्यायः १९ ] दशरूपकस्य ३५
आश्चर्यवदभिख्यातं प्रकाश्यानां प्रकाशनम् ।
अङ्गहीनो नरो यद्वद् युद्धारम्भेऽक्षमो भवेत् ।
अङ्गहीनं तथा काव्यं न प्रयोगक्षमं भवेत् ॥ ५१ ॥
काव्यं यदपि हीनार्थं सम्यगङ्गैः समन्वितम् ।
दीप्तत्वात्तु प्रयोगस्य शोभामेति न संशयः ॥ ५२ ॥
उदात्तमपि यत्काव्यं स्यादङ्गैः परिवर्जितम् ।
हीनत्वात्तु प्रयोगस्य न सतां रञ्जयेन्मनः ॥ ५३ ॥
[ तस्मात्संधिप्रयोगेषु यथादेशं यथारसम् ।
कविनाङ्गानि कार्याणि प्रदेशांस्तु निबोधत ॥ ५४ ॥ ]
उपक्षेपः परिकरः परिन्यासो विलोभनम् ।
युक्तिः प्राप्तिः [ समाधानं विधानं परिभावना ॥ ५५ ॥
उद्भेदः करणं भेदो द्वादशाङ्गानि वै मुखे ।
तथा प्रतिमुखे चैव वक्ष्याम्यङ्गानि नामतः ॥ ५६ ॥ ]
विलासः परिसर्पश्च विधूतं तापनं तथा ।
नर्म नर्मद्युतिश्चैव तथा प्रशमनं पुनः ॥ ५७ ॥
निरोधश्चैव विज्ञेयः पर्युपासनमेव च ।
पुष्पं वज्रमुपन्यासो वर्णसंहार एव च ॥ ५८ ॥
एतानि वै प्रतिमुखे गर्भेऽङ्गानि निबोधत ।
अभूताहरणं मार्गो रूपोदाहरणे क्रमः ॥ ५९ ॥
संग्रहश्चानुमानं च प्रार्थना क्षितिरेव च ।
तोटकाधिवले चैव चोद्वेगो विद्रवस्तथा ॥ ६० ॥
एतान्यङ्गानि वै गर्भे विमर्शं च निबोधत ॥ ६१ ॥
अपवादश्च संफेटो विद्रवः शक्तिरेव च ।
प्रसङ्गो व्यवसायश्च द्युतिः खेदो निषेधनम् ॥ ६२ ॥
विरोध [ न ? ] मथादानं छादनं च प्ररोचना ।
एतान्यवमृशेऽङ्गानि भूयो निर्वहणे शृणु ॥ ६३ ॥
संधिनिरोधो ग्रथनं निर्णयः परिभाषणम् ।
धृतिः प्रसाद आनन्दः समयश्चोपगूहनम् ॥ ६४ ॥
भाषणं पूर्ववाक्यं च कार्यसंहार एव च ।
प्रशस्तिरिति संहारे ज्ञेयान्यङ्गानि नामतः ॥ ६५ ॥
चतुःषष्टिर्बुधैर्ज्ञेयान्येतान्यङ्गानि संधिषु ।
[ संपादनार्थं बीजस्य सम्यक्संधिकराणि तु ॥ ६६ ॥
कार्याण्येतानि कविभिर्विस्पष्टार्थानि नाटके ] ।
एतेषां तु पुनर्वक्ष्ये लक्षणानि यथाक्रमम् ॥ ६७ ॥
काव्यार्थस्य समुत्पत्तिरुपक्षेप इति स्मृतः ।
समुत्पन्नार्थबाहुल्यं ज्ञेयः परिकरस्तु सः ॥ ६८ ॥