सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ
  • ३३१ -
    किं रावणाद्यसुरकोटिजयेन राम त्वद्वीर्यवृद्धिममरा परितो गृणन्ति ।
    यस्याक्षरं परमधाम पदं चकास्ति यस्यांशभाज इतरे परपूरुषौघाः ॥ १० ॥
    परात्परस्त्वमसि राम परोपरेशो साकेतराज्यपदभासितपूर्णलीलः ।
    श्रीलोचनान्तसुखलालितवक्त्रपद्मलोलालकावलिविनिर्जितकोटिकामः ॥११॥
    त्वत्कोमलाङ्घ्रिकमलप्रभवैः परागैः पूर्णैर्विलिप्ततनुरङ्गुलिशोणभाभिः ।
    धन्यो जनो रसिकराजशिरोमणिःस यो वै सदैव तव रूपविलोककारी ॥१२॥
    यस्येदृशस्य तव राम रसालशीला लीलाललामललनाः पशुवृत्तयोऽपि ।
    नित्यं जयन्ति सर्वोपरि वर्तमाना नामैव ते भुवनभूषण मङ्गलाख्यम् ॥१३॥
    रूपं पुनर्नयनदुर्लभमप्सराणां धन्या इमे बत जनास्तव भक्तमुख्याः ।
    साकेतवासिमनुजाश्च मुहुर्गृणन्ति किं ते स्तुतिर्निगममानसराजहंस ॥१४॥
    किं तेऽर्चनं विविधभोगरसोत्सवाढ्य यद्दर्शनेन करुणासुलभेन राम ।
    स्वानन्द सिन्धुलहरीषु विशामितावद् राम प्रपन्नजनकामदपारिजात ॥१५॥
    लीलारसं तवनिभाल्य विमोहितोऽस्मि नातः परं प्रिय कदापि पुनः सहिष्ये ।
    श्रीमत्पदाम्बुजवियोगमसह्यदुःखं या कापि राम तव दिव्यसखी भवेयम् ॥१६॥
    इच्छामि ते विरहजं भय मद्य मोक्तुं नो चेदतीव विरहानलतापतेसः ।
    स्थास्यामि किं नु करुणारसवारिराशे............ ........॥ १७ ॥
    इत्थं स्तुत्वा पुनः स्तुत्वा पादयोश्च पुनः पुनः ।
    निपत्य च निपत्यासौ बाष्पधाराँभिषेचितः ॥ १८ ॥
    पुनः पुनः समुत्थाय ववन्दे दैवतोत्तमम् ।
    रूपसंहरणार्थाय प्रार्थयामास भीतवत् ॥ १९ ॥
    आत्रेय उवाच
    दृष्टं परं स्वरूपं ते श्रीराम करुणानिधे ।
    अतः परं चक्षुषी मे दृष्टुमेतन्न शक्नुतः ॥ २० ॥
    कोटिसूर्यप्रभाधारचाकचक्यप्रभासुरे ।
    चरणाङ्गुष्ठनखरे मीलतोमम चक्षुषी ॥ २१ ॥
    तस्मादिदं संहर नाथ पूर्ववत्तदेव मे दर्शय राम रूपम् ।
    शान्तं स्वसाकेतपुरीगृहस्थं प्रमोदलीलारसरञ्जितं च ॥ २२ ॥
    श्रीराम उवाच
    मा भेरिदं करुणया मम दृष्टवांस्त्वं रूपं व्यतीतगुणसंसृतिकालमायम् ।
    नातः परं तव मुने भविता प्रवाहो मन्नित्यधामनि पुनः सततं रमेथाः ॥२३॥

– ३३२ –
ब्रह्मोवाच
इत्युक्त्वा देवदेवेशो रामस्त्रैलोक्यसुन्दरः ।
तथैवासीत् प्रथमवत् स्वर्णसिंहासनस्थितः ॥ २४ ॥
य एतां रामचन्द्रेण गीतामात्रेयसंनिधौ ।
संहितां पठते मर्त्यस्तं देव कृपयेत् स्वयम् ॥ २५ ॥
दुर्वाससश्च संवादं रामस्य च प्रभोरिमम् ।
योऽधीयीत द्विजः प्राज्ञः स ज्ञानी भवति ध्रुवम् ॥ २६ ॥
भक्तिमान् भक्तिवृद्धिं च लभते नात्र संशयः ।
तथा कर्मफलं दिव्यं सद्योः प्राप्नोति मानुषः ॥ २७ ॥
धर्मार्थकाममोक्षार्थी पुरुषार्थांस्तथा लभेत् ।
विस्तुतोऽष्टादशाध्यायैः प्रबन्धोऽयं महामखः ॥ २८ ॥
पेठनीयं प्रयत्नेन श्रीरामभक्तिमिच्छता ।
परब्रह्मणि सर्वेशे सर्वोपास्यशिरोमणौ ॥ ३० ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तर

साकेतपुरसंस्था ये ये च कोमलदेशगाः ।
प्रमोदवनसंस्था ये ये च रत्नाद्रिवासिनः ॥ ४ ॥
मल्लीलास्थानसंस्था ये ये च श्रीचित्रकूटगाः ।
ते सर्वे नरनार्यश्च पशुपक्ष्यन्त्यजाअपि ॥ ५ ॥
पिपिलिका मक्षिका या दंशाश्च मशकादयः ।
जन्तवः स्थूलसूक्ष्मादया योगिनो ब्राह्मणा अपि ॥ ६ ॥
सर्वे चतुर्भुजा भूत्वा व्याधव्याघ्रादिका अपि ।
अनुयास्यन्ति मामेव क्रीडन्तं निजधामनि ॥ ७ ॥
प्रमोदवनलीला च नित्यान्तर्हितमेष्यति ।
प्रमोदवनमेतच्च अन्तर्भाव्यपरां श्रियम् ॥ ८ ॥
स्थास्यति क्ष्मातले नित्यं मत्पदाङ्कैनृपावनम् ।
प्रमोदवनकेलीश्च तथा साकेतलीलितम् ॥ ९ ॥
तथा¹ सरयूतटे रम्ये नित्यं रासे च खेलितम् ।
अवतारचरित्राणि नित्यानि चरितानि नः ॥ १० ॥
श्रद्धया भक्तिभावाभ्यां कीर्तयिष्यन्ति ये जनाः ।
तेषां कालभयं नैव भविष्यति कदाचन ॥ ११ ॥
स्थानानि ये च द्रक्ष्यन्ति मल्लीलाभवनानि च ।
प्रमोदवनरत्नाद्रिप्रभृतीनि पदानि च ॥ १२ ॥
ते यास्यन्ति नराभक्तिं स्नानदानार्चनादिभिः ।
अयोध्यादर्शनेन्नॄणां पलायन्तेऽघकोटयः ॥ १३ ॥
रामकुण्डे नरः स्नात्वा तथा दशरथोदके ।
स्नात्वा दशरथस्थाने तस्य सायुज्यमाप्नुयात् ॥ १४ ॥
अश्वमेधस्थलीं दृष्ट्वा दृष्ट्वावेदिस्थलीं पुनः ।
कोटिजन्मकृतं पापं धुनुते नात्र संशयः ॥ १५ ॥
प्रमोदविपिनं दृष्ट्वा गत्वा कुञ्जरहस्यके ।
सहजाया वने स्नात्वा नरो मदयोगमाप्नुयात् ॥ १६ ॥
रत्नाद्रिं त्रिः परिक्रम्य कृतोत्सवमुदारधीः ।
वैशाखेभोजयेद्विप्रांस्तस्य पुण्यं न गण्यते ॥ १७ ॥
चतुर्विंशतिसंख्यानि वनानि मम यानि च ।
श्रावणे तानि पश्येत ह्यपुनर्जन्मसिद्धये ॥ १८ ॥
१. पादेऽस्मिन्नक्षराधिक्यमार्षः ।

– ३३४ –
एवमेतानि तीर्थानि शुभानि सुखदानि च ।
न गच्छेन्मम भक्तो यस्तं च नित्यं त्यजाम्यहम् ॥ १९ ॥
मम पादतलस्पर्शाज्जातानि धरणीतले ।
बहूनि खलु तीर्थानि पावनानि विशेषतः ॥ २० ॥
नामभिस्तारयिष्यामि जनान् मद्भक्तिसंयुतान् ।
कर्मभिर्मत्परैर्भावैः सेवया भजनेन च ॥ २१ ॥
नाहं च सुलभः कापि कदाचिल्लोकजन्मनाम् ।
इच्छयामद्भक्तिलाभात् कुर्वन्ति सुलभं च माम् ॥ २२ ॥
सोऽहमन्तर्हितोभूत्वा नित्यभाव्यां निजां तनुम् ।
स्थास्यामि तेषां चित्तेषु ये मे प्रियतमा जनाः ॥ २३ ॥
त्वं च मे दर्शितं नित्यं स्वरूपं सर्वदा स्मरन् ।
उन्मत्तवद्भावयुक्तो भवस्वात्रेय भूतले ॥ २४ ॥
मम स्थानेषु पुण्येषु प्रमोदविपिनादिषु ।
रत्नाद्रे रुपत्यकासु दिव्यश्रीव्रजभूमिषु ॥ २५ ॥
आभीरराजग्रामेषु दिव्येषु ममधामसु ।
पुण्यलीलावटस्थाने सरयूपुलिनेषु च ॥ २६ ॥
तिलोत्तमासरित्संगे सरयूपुण्यभूमिषु ।
पूर्वपश्चिमयोर्मध्ये दक्षिणोत्तरयोस्तथा ॥ २७ ॥
अयोध्याद्वयकोष्ठयोश्च मातृवात्सल्यभूमिषु ।
कौमारलीलास्थानेषु सरित्कुञ्जदरीषु च ॥ २८ ॥
कैशोरकेलिस्थानेषु मम नामगणं जपन् ।
मद्भावभक्तियुक्तात्मा सहजाभावतत्परः ॥ २९ ॥
सहजां नित्यमाराध्य मामेव फलमाप्नुवन् ।
आत्रेय सुमहायोगिन् न य कालं तपश्चरन् ॥ ३० ॥
तीव्रेण मम भावेन मामेव त्वमवाप्स्यसि ।
न ते बाधिष्यते ब्रह्मन् दुःसहो विरहो मम ॥ ३१ ॥
आगामिनि तु योगीन्द्र कल्पे सारस्वताभिधे ।
मन्नित्यलीलासम्बन्धमवाप्स्यसि ततः क्रमात् ॥ ३२ ॥
सहजायाः सखी काचिच्चन्द्रचूडा भविष्यसि ।
यस्याश्चूडागतश्चन्द्रः सुखमिष्यति मौरते ॥ ३३ ॥
१एवं न ते मद्विश्लेषो भविष्यति महामुने ।
वंशस्था ऋषयः सर्वे वेदरूपा न संशयः ॥ ३४ ॥
१. नास्ति-बड़ौ०।

  • ३३५ -
    ते यूयं मत्प्रियतमाः सर्वैमुनिजना भुवि ।
    प्राप्तावतारास्तपसा मामेव समवाप्स्यथ ॥ ३५ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे
    षड्विंशोऽध्यायः ॥ २६ ॥
    ✤
    सप्तविंशोऽध्यायः
    ब्रह्मोवाच
    रामाज्ञां समनुप्राप्य मुनिरत्रेस्तनूजनिः ।
    कृताभिवन्दनस्तेन श्रीमता विश्वमूर्त्तिना ॥ १ ॥
    प्रणम्य तं चाथ मुहुराश्लिष्य च मुहुर्मुहुः ।
    व्यलप्य च मुहुर्योगी गलद्बाष्पनिषेचितम् ॥ २ ॥
    प्रयास्यन् स्वाश्रमपदमिदमुच्चैः समुज्जगौ ।
    चतुःश्लोकीं रामगीतामात्रेयमुनिवर्णिताम् ॥ ३ ॥
    जय जय रामचन्द्र तव भक्तिरन्तगुणा-
    परमफलात्मिका जयतु मे हृदि नित्यमसौ ।
    प्रमुदवनव्रजाधिपभवन्तमिहेन्दुमुखं
    द्विविदिविदृक्चकोरयुगलेनपिवामि सदा ॥ १ ॥ ४ ॥
    तव सहजाप्रियाचरणपद्मपरागभरैरह-
    मभिषिक्तदिव्यतनुरश्रुकलान्वितदृक् ।
    अनुसवमब्जलोचन भजे भवतोः सविधं-
    विधिशिवनारदादिपरिवाकमलभ्यतमम् ॥ २ ॥ ५ ॥
    अपि हृदयेशशेषविधिशक्रशिवादिषु-
    यत्किमपि कलांशमात्रमहसां विभवो जयति ।
    स इह तव प्रमोदविपिने पशुपालवधू-
    पदकमलैर्विमर्दितद्रवस्फुट्यावरसैः ॥ ३ ॥ ६ ॥
    जयतु सदैव भक्तमनुजेषु भवतकरुणा भवजल वीचिलोलितमनः ।
    सुविषैर्विषयै१र्भवति यथा प्रपत्तिरपि ते
    पदपङ्कजयोरसुलभनन्ततप सां प्रचयेन विभो ॥ ४ ॥ ७ ॥
    १. विषतुल्यैरित्यर्थ. टि०-बड़ौ० ।
  • ३३६ -
    इति गानमसौ कृत्वा मुनिः प्रणयविह्वलः ।
    श्रीरामपदयोर्न्यस्य हृदयं स्वाश्रमं ययौ ॥ ८ ॥
    रामस्य गुणसंदोहं गायन् कौमारकादिषु ।
    तदेव संस्मरन्नित्यं रूपं भुवनमङ्गलम् ॥ ९ ॥
    चरित्राणि गृणन्नुच्चैः प्रियाणि सरसानि च ।
    रामलीलारसोन्मत्तो मन्मनास्तृणवज्जगत् ॥ १० ॥
    नन्दिग्रामे गोकुले च सुखितस्यालये तथा ।
    सौगन्धिगिरौ रत्नाद्रौ प्रमोदवनमण्डले ॥ ११ ॥
    श्रीमज्जनकपुर्यां च चित्रकूटे महागिरौ ।
    उद्यानेषु च दिव्येषु भरतादिस्थलेषु च ॥ १२ ॥
    श्रीलक्ष्मणस्य चावासे ब्रह्मावर्ते तथैव च ।
    रामक्रीडामनोज्ञेषु स्थानेषु विविधेषु च ॥ १३ ॥
    रामचन्द्रं ध्यायमानो व्यचरन्मूर्खमत्तवत् ।
    तत्र तत्र महर्षीणां मण्डलेषु वदत्सु यः ॥ १४ ॥
    शृण्वानो रामचरितं प्रमत्तवदघूर्णत ।
    वर्षवातातपक्लेशान् सहमानस्तपोनिधिः ॥ १५ ॥
    पुण्यं पापं सुखं दुःखं शापं चानुग्रहं तथा ।
    जयाजयादिकं चैव लाभालाभादिकं तथा ॥ १६ ॥
    तुल्यमेतन्मन्यमानो ज्ञानवैराग्यबृंहिताम् ।
    रामभक्तिं प्रकुर्वाणः श्रुतश्रोतव्यपारगः ॥ १७ ॥
    न्यवर्तत स सर्वेभ्यो धर्मेभ्यः सर्ववर्जितः ।
    यावत्सारस्वतं कल्पं मुनिवेषमुपाश्रितः ॥ १८ ॥
    कल्पे सारस्वते प्राप्ते रामचन्द्ररसोत्सुकः ।
    ततः स भविता योगी चन्द्रचूडाह्वया सखी ॥ १९ ॥
    एवं वेदर्षयः सर्वे भवितारः सखीपदम् ।
    श्रीरामकृपया प्राप्तं रसभोगफलात्मकम् ।
    दुर्लभं भुवनेष्वन्यैर्देवदानवमानवैः ॥ २० ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे
    सप्तविंशोऽध्यायः ॥ २७ ॥
    🞱
  • ३३७ -
    अष्टाविंशोऽध्यायः
    श्रीराम उवाच
    एवं वसिष्ठो भविता वसिष्ठा नाम या सखी।
    चन्द्रं यथा चकोरो हि द्रक्ष्यते युगलं वपुः ॥ १ ॥
    अहर्निशं तु पार्श्वस्था चामरव्यजनादिभिः।
    सेवयिष्यति सम्प्रीत्या सहजारामचन्द्रयोः ॥ २ ॥
    कौण्डिन्यो मुनिशार्दूलः प्रेमोर्जितमहोदयः।
    लप्स्यते सहजारामसहजानन्दपात्रताम् ॥ ३ ॥
    वामदेवो महायोगी मनोऽभिलषित वरम्।
    प्राप्स्यति श्रीरामहिता वामा नाम सखीपदम् ॥ ४ ॥
    वामभावं शिक्षयन्ती स्वाधीनपतिका प्रिया।
    प्रेम्णः कौटिल्यविषये निपुणा भावभूषिता ॥ ५ ॥
    याज्ञवल्क्यो महायोगी श्रुतिसार रहस्यवित्।
    याज्ञवल्क्या सखी नाम भविता रामकेलिनी ॥ ६ ॥
    पयःसारदधिक्षीरनवनीतघृतादिकम् ।
    समर्पयन्ती युगलं नित्यं पर्य्यचरिष्यति ॥ ७ ॥
    भारद्वाजो मुनिश्रेष्ठो भक्तिभूषणभूषितः।
    भविता प्रमोदवने भारती नाम तत्सखी ॥ ८ ॥
    कवितां या शिक्षयन्ती सहजायै तु शैशवे।
    येन प्रवीणां याति रामलीलाविनोदिनी ॥ ९ ॥
    वात्स्यायनो मुनिदेवः शृङ्गाररसपोषकः।
    भरतश्च कलाकान्तो भवितारौ सखीपदम् ॥ १० ॥
    कला कलावती चैव तयोः सर्वकलागुरुः।
    व्यासश्च भविता रामसखी प्रेमविचक्षणा ॥ ११ ॥
    शमादिभिरुपायैर्या मानं मोचयितुं क्षमा।
    रामलीलागुणालापपूर्वस्मरविवर्धिनी ॥ १२ ॥
    श्रीसखी वासिनी नाम व्रजलीलारसोत्सुका।
    शुकश्च सुखदा नाम भविता श्रीप्रियासखीः ॥ १३ ॥
    १सर्वोपायेन या नित्यं तयोः प्रणयसंगमम्।
    वाञ्छन्ती कुञ्जदेशेषु पुष्पेतल्प तनोति वै ॥ १४ ॥
    १. नास्ति-बड़ौ०।
    ४३
  • ३३८ -
    अगस्त्यो नाम योगीन्द्रो रामभक्तिप्रभावतः ।
    अगस्त्या नाम कुञ्जस्था भविता सत्सखी तयोः ॥ १५ ॥
    यया प्रसादितं नित्यं व्रजस्त्रीणां मनोजलम् ।
    दृष्टापराधे कान्तेऽपि रामेसर्वगुणाकरे ॥ १६ ॥
    गौतमो मुनिरभ्यर्च्य तपसा परमेश्वरम् ।
    तत्प्रसन्नेन रामेण मालाकारीपदं व्रजे ।
    लब्ध्वा श्रीरामसहजां वैजयन्तीसमर्पिणी ॥ १७ ॥
    आंगिरसो महायोगी सहजारामसन्निधौ ।
    आङ्गी नाम सखी रम्या भविता वेत्रधारिणी ॥ १८ ॥
    माण्डव्यो नाम योगीन्द्रो महावैखानसार्चितः ।
    भविता मण्डनी नाम सखी श्रीराममण्डिनी ॥ १९ ॥
    आथर्वणो महायोगी भविता सहजासखी ।
    व्यजने चैव ताम्बूले महावैदग्ध्यभूषिता ॥ २० ॥
    वैत्स्यो नाम मुनिश्रेष्ठः श्रीरामकृपया पुनः ।
    भविता वत्सला नाम सखी वात्सल्यको विदा ॥ २१ ॥
    बौधायनश्च गार्ग्यश्च भवितारौ सखीयुगम् ।
    एका दर्पणधारिणी परा पानीयपायिका ॥ २२ ॥
    आपस्तम्बो मुनिश्रेष्ठः पाककारी भविष्यति ।
    सूपौदनादिसम्भारे श्रीरामप्रभुसेविनी ॥ २३ ॥
    शाण्डिल्यो भगवान् नित्यं भगवद्भक्तिभावतः ।
    कुञ्जस्था शाण्डिला नाम सत्सखी भविता तयोः ॥ २४ ॥
    कठकौथुमकौशीतिमादिसांख्यायनादयः ।
    सर्वे पृथक् पृथग् जाताः सख्यः श्रीरामसन्निधौ ॥ २५ ॥
    असंख्याता मुनिश्रेष्ठाः सख्य एव न संशयः ।
    यथाधिकारं लब्धारः सखीस्थानानि चैतयोः ॥ २६ ॥
    एषा हि परमा मुक्तिर्यल्लीलापदसंगमः ।
    अर्वाक् पदं ततः सर्वं ब्राह्माक्षरमव्ययम् ॥ २७ ॥
    सर्वेऽप्यानन्दसंदोहास्तत एव विनिर्गताः ।
    विश्रामस्थानमेकं तं निःसीमानन्दवत्पदम् ॥ २८ ॥
    मात्रानन्दरतानां तु तल्लोकप्राप्तिरीप्सिता ।
    महानन्दरता भक्ताः प्राप्तुमर्हन्ति तत्पदम् ॥ २९ ॥
  • ३३९ -
    श्रीरामाख्यं परं प्राप्य फलभूमानमव्ययम् ।
    शुद्धभक्त्या परिप्राप्य नाभव्यान्तरमिष्यते ॥ ३० ॥
    श्रीरामेति च रामेति रमापतिमुदीरयन् ।
    श्रीरामसन्निधौ भक्तो मोदते नात्र संशयः ॥ ३१ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डेऽष्टा-
    विंशोऽध्यायः ॥ २८ ॥
    ❖
    एकोनत्रिंशोऽध्यायः
    भुशुण्ड उवाच
    दुर्वाससि मुनिश्रेष्ठे गते स्वाश्रममुत्तमम् ।
    किं कृतं रामचन्द्रेण तद्वदस्व मम प्रभो ॥ १ ॥
    ब्रह्मोवाच
    प्रतिहारिपदे भ्रात्रा नियुक्तस्तद्व्यतिक्रमात् ।
    भीतवल्लक्ष्मणः प्राह प्रणतो रामसंनिधौ ॥ २ ॥
    लक्ष्मण उवाच
    भगवन् सर्वदेवेश स्वच्छायवशगो हरिः ।
    आदिमूर्तिस्त्वमेवासि कालस्यापि नियोजकः ॥ ३ ॥
    एतन्मे दर्शितं रूपं कृपयैवातिभीषणम् ।
    प्राय एतद्भयेनैव वशगास्ते सुरासुराः ॥ ४ ॥
    कोऽसौ द्वितीयः कालात्मा भीषणो भीमविग्रहः ।
    पाचको भवदङ्गस्य भवान् भोक्तेव लक्ष्यते ॥ ५ ॥
    किं चैकं प्रार्थयाम्यद्या करुणाजलधावपि ।
    त्वयि सर्वकलाधीशे भ्रातर्यपि भयानके ॥ ६ ॥
    त्वया प्रतोहार्यपदे नियुक्तस्तद्व्यतिक्रमात् ।
    सापराधोऽस्मि संवृत्तस्तेन दण्ड्योऽस्मि साम्प्रतम् ॥ ७ ॥
    दण्डनीयतमो लोके प्रभुणा करुणेन वा ।
    सापराधो दासजन इत्याज्ञा नृपशासने ॥ ८ ॥
  • ३४० -
    त्वमेव जगतां नाथः सागसां दण्डकारकः ।
    तेन मां दण्डय स्वामिन् सागसं ते व्यतिक्रमात् ॥ ९ ॥
    इत्येवं प्रार्थितो रामो लक्ष्मणेन विशेषतः ।
    प्रोवाच करुणः श्रीमांल्लीलाकारणमानुषः ॥ १० ॥
    श्रीराम उवाच
    असौ यः सेवकः कालो मदाज्ञापरिपालकः ।
    मया सह स्वकार्यार्थं प्रभुणा मन्त्रयन् स्थितः ॥ ११ ॥
    स एषो मम भोगार्थं त्रैलोक्यं पाचयन् प्रभुः ।
    करोति सर्वभोगार्थं मह्यं फलसमर्पकः ॥ १२ ॥
    तेन सम्मन्त्रयन् कार्यं भीषणेनातिभीषणः ।
    दृष्टस्त्वया लक्ष्मणेत्थं मा भैः संश्रद्धितोऽसि मे ॥ १३ ॥
    मदीयनित्यलीलायां नित्यमेव सुसंगतम् ।
    मदीयभ्रातरं पूर्णं मद्द्वत्सर्वगुणोत्करैः ॥ १४ ॥
    प्रतीहार्यद्व्यतिक्रान्तो नैव दण्ड्योऽसि मे सखे ।
    लीलाकालक्रमेणैव सर्वं सम्पाद्यमेव च ॥ १५ ॥
    प्रमोदवनलक्ष्मीश्च प्रकाशयति भूतलम् ।
    कृतानि देवकार्याणि रक्षिता वेदराशयः ॥ १६ ॥
    रक्षितश्च परोधर्मो गोवैष्णवद्विजन्मनाम् ।
    रक्षिताश्च मखा नित्या रक्षिता मम मूर्त्तयः ॥ १७ ॥
    प्रवृत्तो भक्तिमार्गश्च कर्मज्ञानोपबृंहितः ॥ १८ ॥
    नातः परं न करणीयमात्रं त्रैलोक्यरक्षा विहिता समंतात् ।
    प्रमुद्धनं धाम परं व्रजामः समस्तमर्वाग्यत एतदस्ति ॥ १९ ॥
    अव्यक्तमुच्चैः परं पदं तद्यत्रानिशं तात वयं रमामः ।
    अव्यक्तरूपाभिरपारलीलासुशक्तिभिर्नित्यविलासिनीभिः ॥ २० ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे
    एकोनत्रिंशोऽध्यायः ॥ २६ ॥
  • ३४१ -
    त्रिंशोऽध्यायः
    ब्रह्मोवाच
    इति श्रुत्वा प्रभोर्वाक्यं लक्ष्मणो भ्रातुरोजसः ।
    हर्षदैन्यावेगचिन्तासमाविष्टो बभूव ह ॥ १ ॥
    अहो वयं गमिष्यामः प्रमुद्धनमनुत्तमम् ।
    यदानन्दस्य मात्राभिरुपजीवन्ति लोकगाः ॥ २ ॥
    इति हर्षो बभूवास्य श्रुत्वा प्रियसृहृद्वचः ।
    अहो अतः परं कासावयोध्या सरयूतटम् ॥ ३ ॥
    क रत्नाद्रिसुखं कासौ प्रियभ्रातृसुहृत्पदम् ।
    कैतन्न नगरीसौख्यं ब्रह्मादिसुरदुर्लभम् ॥ ४ ॥
    केतत्प्रभोः श्याममणीन्द्रमेचकं दृश्यं वपुः प्रेमजुषा दृशा भगैः ।
    क्वानन्द एष प्रियसंगजातः संदर्शनाद्यो जनकात्मजायाऽ ॥ ५ ॥
    इति दैन्यं महज्जातं लक्ष्मणस्यापि चेतसि ।
    भ्रातुः प्रियस्य लीलानां ज्ञातुः पारङ्गतस्य च ॥ ६ ॥
    आवेगश्च महान् जातो भीरोर्विश्लेषदुःखतः ।
    चिन्ता च महती जाता लीलादर्शनकारणात् ॥ ७ ॥
    लीलारसः प्रियो यस्माल्लक्ष्मणस्य प्रियात्मनः ।
    नित्यं जनकजारामरम्यरूपरसस्पृहः ।
    दुर्मना इव संजातो भ्रातुः स्वे दण्डकारिणः ॥ ८ ॥
    एवं दुर्मनसं वीक्ष्य लक्ष्मणं प्राणसम्मतम् ।
    रामचन्द्रः प्रसन्नात्मा प्रोवाच रुचिरं वचः ॥ ९ ॥
    श्रीराम उवाच
    दण्डोऽभियाचितोऽद्वैव त्वयेन्द्रारिनिषूदन ।
    तेनैतद्गदितं तात कथं वृत्तोऽसि दीनवत् ॥ १० ॥
    न मया दण्डनीयस्त्वं प्राणस्यापि व्यतिक्रमात् ।
    को दण्ड्यः को दण्डयिता सर्वैक्ये द्वयोरपि ॥ ११ ॥
    आवयोर्नैव भेदोऽस्ति त्वमक्षरमहं परः ।
    शेषः संकर्षणः साक्षाद्यदंशो मेदिनीधरः ॥ १२ ॥
    शेषरूपः परिकरो भाष्यकर्ता मदागमे ।
    आचार्यः परमो नित्यो वैष्णवप्रियकारकः ॥ १३ ॥
    सर्वावतारमूलञ्च ईश्वरः प्रकृतेः परः ।
    त्वया विना न चैवाहं लीलासु पुरुषोत्तमः ॥ १४ ॥

-॥३४२ -॥
त्वं साक्षात्पुरुषो विष्णुर्निश्चिन्तोऽहं त्वया विभो।
सृजस्यवसि भूतानि हंसि कालो दुरासदः ॥ १५ ॥
अहं कदाचिद्वटपत्रशायी स्वाङ्गुष्ठपादास्वदने रसज्ञः।
माङ्गल्यकाश्रीजननीपयोर्थे रुदन् रमे बालमुकुन्दनामा ॥ १६ ॥
कदाचित् प्रमोदाटवीकुञ्जभूमौ समुद्रासिरत्नाद्रिभूगह्वरस्थः ।
रमे रामनामा सदारामकुञ्जे स्वयम्भूः स्वयं शक्तिलक्ष्मीपरीतः ॥ १७ ॥
कदाचिद्रमे चित्रकूटान्तराले शिलां स्फाटिकां तामधिश्रित्य तिष्ठन् ।
प्रियानेत्रलास्यानुकारीणि पश्यन् कृपापूर्णदृष्ट्या कुरङ्गीकुलानि ॥ १८ ॥
एत्य कदाचिद्दक्षिणमथुरां कृष्णतटेऽधिगोवर्द्धनगिरि ।
ताम्रपर्णीसागरसंगमविप्रसखैर्मुनिभिश्चरन् रमामि ॥ १९ ॥
त्वं करोष्यवतारार्थं गोद्विजधर्मपालनम् ।
असुराणां निरसनं मम सौख्यविशारदः ॥ २० ॥
तस्मात्कालत्रयेऽपि त्वं न मे कोपश्य भाजनम् ।
किंतु द्विभाषणं कुर्वे नाहं लक्ष्मण किंचन । २१ ॥
नियुक्तस्त्वं प्रतीहार्ये तद्व्यतिक्रमकारणात् ।
न दण्ड्यसे चेन्मयका मर्यादा मे विनङ्क्ष्यति ॥ २२ ॥
इति लोकजने वादो भविता वेदविप्लवी ।
तेन लीलातिरोधानं मम दण्डो भविष्यति ॥ २३ ॥
कस्मात्त्वं विमना जातो दुर्मनाश्चिन्तयाकुलः ।
आविग्नो मूढवद्भ्रान्तो विरहातुरभीरवत् ॥ २४ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे
त्रिंशोऽध्यायः ॥ ३० ॥
✤
एकत्रिंशोऽध्यायः
लक्ष्मण उवाच
दृष्टाते विविधा लीलाः समस्तरससंगताः ।
रसो नाम भवद्रूपं ब्रह्मैवेदं न संशयः ॥ १ ॥
शृङ्गारवीरकरुणरौद्राद्यास्तस्य चाह्वयम् ।
एकस्य चापि नित्यस्य स्थायिनश्चित्सुखाकृतेः ॥ २ ॥

  • ३४३ -

अन्तःकरणवृत्तीनां भेदतस्तस्य वै भिदा।
त्वं शृङ्गारी परानन्दरूपिणीं सहजामनु ॥ ३ ॥
प्रमोदविपने चैव चित्रकूटे मनोहरे !
कोटिकन्दर्पसुभगः क्रीडसे त्वं रमायुतः ॥ ४ ॥
एतदर्थमेव भुवि प्रकटोऽभूः सनातनः।
सहजानन्दिनी चापि प्रमोदवनसुन्दरी ॥ ५ ॥
अनेकरूपिणी भूत्वा त्वां वै रमयति प्रभो।
सोऽयं लीलारसानन्दो दृढतां समुपागतः ॥ ६ ॥
तस्य साक्षी त्वहं ब्रह्म त्वत्प्रकाशमयोऽक्षरः।
तत्र तत्र नियुक्तोऽहं त्वया रमणकोविद ॥ ७ ॥
तत्तद्रूपमुरीकृत्य लीलापरिकरोऽभवम्।
अहं रसालविपिने रसालद्रुमवाटिका ॥ ८ ॥
अशोकविपिने चाहमशोकद्रुमवाटिका।
तन्मञ्जरीमधुकराः पल्लवाश्चारुणप्रभाः ॥ ९ ॥
शीतलः सुरभिर्मन्दः समीरश्चन्दनस्पृशः।
कीरकोकिलकेक्याद्याः पक्षिणो मधुरस्वराः ॥ १० ॥
ऋतवस्ते वसन्ताद्याश्चन्द्रचन्दनचन्द्रिकाः।
अहं सर्वस्वरूपेण त्वन्नियोगादिहाभवम् ॥ ११ ॥
स कथं तव विश्लेषं सहिष्ये रघुपूङ्गवः।
पूर्वमाचान्तममृतमधुना विषमुल्वणम् ॥ १२ ॥
आत्रमिष्यामि भगवन् त्वद्विग्नोऽहं ततः प्रभो।
सर्वं जानाति भगवान् कार्याकार्यविवेचनम् ॥ १३ ॥
वीरश्चापि भवानक्षणो रददात्परमां मुदम्।
वैश्वामित्रे यज्ञवाटे तथा भार्गवसंगमे ॥ १४ ॥
सुबाहुमथने चापि सहस्ररामरूपधृक्।
लङ्कायां राक्षसहृतौ वीरो भूत्वा व्यरीरमः ॥ १५ ॥
राक्षसेन्द्रमहोद्दण्डतरङ्गगणमार्जिते ।
सिन्धोर्मध्ये दुर्गेमे त्वां न व्यमुञ्चमहं क्वचित् ॥ १६ ॥
अहं बाणाधनुश्चैव रथः पत्तिर्हयास्तथा।
कंबलः कवचं चापि तत्र तत्राभवं ह्यहं ॥ १७ ॥
स कथं मोक्तुमिच्छेयं तव सार्थं रमापते।
किमर्थं तादृशो स्वादे पूर्वमस्मि नियोजितः ॥ १८ ॥

  • ३४४ -
    नियोजितश्चेत्रविभुना न वियोज्योऽस्मि सम्प्रति ।
    तस्मात्तद् हृदयं भ्रातः स्फुटतीव च मामकम् ॥ १९ ॥
    विशीर्यन्ति ममाङ्गानि तापश्चापि प्रजायते ।
    शून्या दिशः प्रपश्यामि न विन्दामि धृतिं हरे ॥ २० ॥
    प्रत्यङ्गं ज्वलति वपुर्मदीयमङ्गं स्मारं स्मारमतिबिसह्यमेतदुच्चैः ।
    अग्रे भाव्यं न भवन्नागतंमे कीदृग्जातं देहजं दुःखमस्तिमह्यम् ॥ २१ ॥
    एतत्तेऽनुचितं राम भक्तेर्मे दुःखदंशनम् ।
    तदप्यशनिपातोत्थवेदना मे दिवानिशम् ॥ २२ ॥
    दूरादेव वितर्कयामि भवतः संयोगजं यत्सुखं-
    यादृग्विस्तृतमस्ति निस्तुलतरं भक्तानुभूत्यास्पदम् ।
    दुःखं चापि तु तादृगेव भविता विस्तारि सर्वोत्तम-
    प्रेमोत्थं खलु कोटिजन्मनिबहैर्भोग्यं यदैकक्षणे ॥ २३ ॥
    तदहमिह सहिष्ये नैव मत्तः कदाचित्-
    परममशनिपाताच्चापि काठिन्ययुक्तम् ।
    वितर रघुपते हा राम कारुण्यकोणां-
    दृशमसदृशं तां पापसंघातहन्त्रीम् ॥ २४ ॥
    सर्वथा दण्डनीयोऽहमपराधे महत्यथ ।
    चरणाम्भोजसंसर्गादत्रापि त्वपयातु नः ॥ २५ ॥
    अस्तु नाथ महान् दण्डः संगतस्यैव मे त्वया ।
    असंगतस्य तु स्वामिन् महानन्दोऽपि मास्तु मे ॥ २६ ॥
    पशुपक्षिलतागुल्मवृक्षादिजनिमाप्नुयाम् ।
    तत्र तत्र भवेयं ते चरणाम्भोजसंगमी ॥ २७ ॥
    प्रमोदवनलीला च दृष्टा संस्मर्यतेऽधुना ।
    तत्रैव देहि रामेन्दो यां कांचिज्जनिमद्भुताम् ॥ २८ ॥
    प्रमोदवनलीला चे दृष्टा प्रेमाङ्कुरस्पृशी ।
    उच्चैर्वितर संस्थानमधो वापि प्रवेशय ॥ २९ ॥
    न पुनस्तव विश्लेषो भूयान्मम मनागपि ।
    वज्रादपि ह्यसह्यं यदात्मपातादपि द्रुतम् ॥ ३० ॥
    सर्वमस्तु प्रभो दण्डाद् दुःखं परमदुःसहम् ।
    मा ते लीलोपसंहारो भवतु श्रीरमापते ॥ ३१ ॥
    लीलैवहि ममाधारो लीलैव मम जीवनम् ।
    लीलैव मम सर्वस्व लीलैव मम लोचनम् ॥ ३२ ॥

मच्छरीरसुरक्षायै लीलारक्षा विधीयताम् ।
लीलाभावे महद्दुःखं मम राम भविष्यति ॥ ३३ ॥
तुलसीमालिका नाम चरणाम्भोजचिन्तनम् ।
नित्यं लीलारसानन्द एतद्भक्तस्य जीवनम् ॥ ३४ ॥
धनुर्बाणाङ्किततनू राममन्त्रं सदा जपन् ।
तव लीलारसानन्दी भूयासं नित्यमीश्वर ॥ ३५ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे
एकत्रिशोऽध्यायः ॥ ३१ ॥

द्वात्रिंशोऽध्यायः
ब्रह्मोवाच
श्रीमत्संकर्षणाख्यस्य लक्ष्मणस्य वचस्त्विदम् ।
आर्त्या विक्लवतं श्रुत्वा प्रोवाच सहजापतिः ॥ १ ॥
श्रीराम उवाच
नाभावो मम लीलानां लक्ष्मण क्वापि विद्यते ।
कालमायागुणादीनामस्पृश्योऽहं निरूपितः ॥ २ ॥
मद्रूपं नित्यमेवेदं यद्यद् भक्तैः प्रतीयते ।
तथैव मम लीलानां नित्यता विनिरूपिता ॥ ३ ॥
मया च तव विश्लेषो न कदाचन विद्यते ।
पुरुषोत्तमसंज्ञं तल्लीला वै शिष्यभोगिना ॥ ४ ॥
द्विविधा मम सा लीला ज्ञेया नित्यापि लक्ष्मण ।
प्रकटाप्रकटा चापि कालमायागुणातिगा ॥ ५ ॥
पूर्वावतारकालीना तिरोभूता परा मयि ।
अहं हि सहजानन्दी प्रमोदवनकेलिभृत् ॥ ६ ॥
निमित्तं किंचन प्राप्य भक्तसम्पालनादिमत् ।
युक्तो लीलापरिकरैः प्रादुर्भूय प्रदर्शये ॥ ७ ॥
सहजाकेलिरसिकं निजरूपं मनोहरम् ।
मय्येवाहं तिरोभूय तिष्ठामि प्रथमं सखे ॥ ८ ॥

  • ३४६ -
    ततो महन्महिम्नोऽहं मत्स्वरूपाच्चिदात्मनः ।
    आविर्भवामि लोकानामभ्युद्धरणहेतवे ॥ ९ ॥
    आत्मानाहं निजात्मानं विसृजामि निजात्मनः ।
    अहमेव ममाधारो निलयश्चाहमेव हि ॥ १० ॥
    मयैव मत्परिच्छेदो निश्चयेन विभाव्यते ।
    तदाकालश्च देशश्च स्वरूपं च मदात्मकम् ॥ ११ ॥
    कोसलाख्यं पुरं नित्यं कोटिकल्पावसानगम् ।
    कालस्यापि च कालोऽहं यत्र नित्यं प्रतिष्ठितः ॥ १२ ॥
    भवांश्च न स्वस्वरूपं वेद मत्प्रेममोहितः ।
    मत्परोक्षे निजैश्वर्यं प्रकाशयसि लक्ष्मण ।
    मयि स्थिते मम प्रेमसुधासिन्धौ निमज्जसि ॥ १३ ॥
    भवांश्च हनुमान् वीरो लक्ष्मीः प्रद्युम्न एव च ।
    अनिरुद्धश्च भगवान् अमी ईशाः पृथक् पृथक् ॥ १४ ॥
    मयि स्थिते न वः शक्तिरभ्युपैति प्रकाशताम् ।
    पुरुषोत्तम ता सेयं मम सर्वोत्तमाकृतेः ॥ १५ ॥
    अक्षरं चापि यद्ब्रह्म कालमायातिगं बृहत् ।
    तदेतन्मत्प्रकाशत्वान्न स्वातन्त्र्यमिहार्हति ॥ १६ ॥
    लीला सृष्टिविलासित्वं स्वातन्त्र्यं नाम कीर्तितम् ।
    अक्षरस्य द्विधा भावः प्रकृतिः पुरुषश्च सः ॥ १७ ॥
    ज्ञानमार्गं उपास्यं यत् स्वरूपं तन्निगद्यते ।
    न तस्यलीलाकारित्वं मदावेशेन तु स्फुटम् ॥ १८ ॥
    अहं च त्वामधिष्ठाय क्रीडामि पुरुषोत्तमः ।
    प्रकाशश्च सूर्यश्च यथैवाव्यभिचारिणौ ॥ १९ ॥
    त्वयैवाव्यभिचारेण तथैवाहं प्रतिष्ठितः ।
    दृश्यसे मदभिन्नोऽपि त्वं भिन्नइवलक्ष्मण ॥ २० ॥
    सेयं लीलाश्रया शक्तिर्ममैव विनिरूप्यताम् ।
    अयमज्ञानजो मोह इतरेषु विभाव्यते ॥ २१ ॥
    ये जीवा ˚ मम मायाभिर्मोहिता अज्ञसंज्ञकाः ।
    न तु त्वयि महाप्राज्ञ देवदेवे जगद्गुरौ ॥ २२ ॥
    मत्स्वरूपान्यूनकक्षे श्रीविष्णौ परमेश्वरे ।
    अवतारास्तु वै चैते मत्स्यकूर्मादयोऽखिलाः ॥ २३ ॥
  • ३४७ -
    अवतारी त्वमेवैकोऽस्यवतारी तथाप्यहम् ।
    भ्रातस्त्वमेव शेषोऽसि मम धाम सनातनम् ॥ २४ ॥
    यस्यांशो धरणीं सर्वां शिरस्यादाय तिष्ठति ।
    कल्पान्ते त्वन्मुखोद्गीर्णो महावह्निः प्रचण्डभाः ॥ २५ ॥
    तापयिष्यंस्त्रिभुवनं समिधोऽग्निरिन्धनः ।
    शोषयित्वा जगत्सर्वं ज्वालयत्येव निश्चितम् ॥ २६ ॥
    ततः कालघनो भूत्वा वर्षिष्यति महज्जलम् ।
    एकार्णवां भुवं कृत्वा रुद्रग्रासादितां सखे ॥ २७ ॥
    शमं यास्यसि मे तल्पो भूत्वा निद्रासुखं महत् ।
    मह्यं दास्यसि भोगेन कोमलेन स्ववष्मंणा ॥ २८ ॥
    इदं ते परमं रूपं मम लीलासुखाय च ।
    लीलापरिकरः सर्वस्त्वमेव विनिरूपितः ॥ २९ ॥
    १त्वमेवोपादानरूपश्च सर्वस्य जगतः प्रभो ।
    तस्मादेवं मनोमोहं न त्वं कर्तुमिहार्हसि ॥ ३० ॥ ,
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे
    द्वात्रिंशोऽध्यायः ॥ ३२ ॥
    ❖
    त्रयस्त्रिंशोऽध्यायः
    लक्ष्मण उवाच
    परब्रह्मस्वरूपस्त्वं राम राजीवलोचन ।
    त्वमेव परमं धाम जीवानां त्वं परा गतिः ॥ १ ॥
    न हि ते भगवंस्तत्त्वं विदन्ति विबुधा अपि ।
    न वेदा नापि योगाङ्गैः साधितात्मान ईश्वराः ॥ २ ॥
    त्वमेव ते परं तत्त्वं जानासिदितिजार्दन ।
    तव भक्त्या त्वत्स्वरूपं भक्ताः केचन जानते ॥ ३ ॥
    १. पादेऽस्मिन्नक्षराधिक्यमार्षः ।
  • ३४८ -
    तवैवानुग्रहे हेतुर्विद्वत्ता नोपयुज्यते ।
    शब्दः खलु भवद्रूपमुपदेष्टुमथार्हति ॥ ४ ॥
    सोऽपि ताटस्थ्यभावेन न स्वरूपेण कर्हिचित् ।
    लक्षणं तव नास्त्येव लक्ष्यरूपात् परं प्रभो ॥ ५ ॥
    लक्ष्यलक्षणयोरैक्यं त्वत्स्वरूपनिरूपणे ।
    मयि लीलारसानन्दोभूयान् विस्तारितस्त्वया ॥ ६ ॥
    तेनैव प्रसृतं प्रेम विश्लेषणभयवर्द्धनम् ।
    स्वरूपाकलनेनैतत्स्थिरंमयि विधेहि भोः ॥ ७ ॥
    अपि नाम यदानाथ तव लीला रसात्मिका ।
    प्राकट्यमभ्युपैत्येषा तदा संस्थास्ति कालतः ॥ ८ ॥
    अप्राकट्यं यदा नाथ प्रयासि लीलया सह ।
    तदा चकास्ति संस्थानो रामैतत्प्रतिबोधय ॥ ९ ॥
    नहि नो भगवन् राम वासनान्या विजृम्भते ।
    ऋते त्वच्चरणाम्भोजधूलिधूसरतां तनोः ॥ १० ॥
    एतावदेव नः प्रार्थ्यं नाथ जन्मनि जन्मनि ।
    श्रीराम तव पादाब्जतललग्ना वयं सदा ॥ ११ ॥
    श्रीश्च शेषश्च ब्रह्मा च रुद्रश्चेन्द्रश्चयत्स्पृहाम् ।
    नित्यं कलयते राम तादृशं नेतरत्सुखम् ।
    मुक्त्यानन्दादिकं सर्वमिहैवान्तर्विशत्यहो ॥ १२ ॥
    १एतस्मादतिरिक्तं यत्पारमेष्ठ्यं महेन्द्रताम् ।
    सार्वभौमपदं वापि न वयं स्प
  • ३४९ -
    लीलापरिकराश्चान्य इत्येते भवदादयः।
    सर्वत्र माययाच्छन्नः स्वेच्छामात्रेण तां पुनः॥ १८॥
    ^१विभिद्य भित्त्याद्यावरणमपसार्य यथा नभः।
    प्रादुर्भूतः सर्वमुक्तिस्तिरोधाय नराकृतिः॥ १९॥
    यावदिच्छाप्रसारो मे तावन्मायाप्रसारणम्।
    तदा सर्वे प्रपश्यन्ति मां सच्चित्सुखरूपिणम्॥ २०॥
    दितिजा दनुजाश्चापि राक्षसास्तामसा जनाः।
    पशवः पक्षिणः कीटा अन्ये च विविधा जनाः॥ २१॥
    तेषु येषामहं स्वेच्छामात्रेण परमोहिनीम्।
    दूरीकरोमि तां मायां लोके मामुपयान्ति ते॥ २२॥
    मदिच्छामात्रमाश्रित्य न भवेन्मुक्तिसाधनः।
    अव्यक्तत्वात्सखे तस्याः प्रयतेत्किल्विषैरिह॥ २३॥
    एतत्कार्यं बुद्धिमता प्रशस्तं कर्म यद्भवेत्।
    वैराग्यं
  • ३५० -
    वशीभूते मयि पुंसां किमशक्य नु विद्यते ।
    साधनावधिसंजाता साधनेऽप्यूनवृत्तिका ।
    अनुद्भीषेति सा प्रोक्ता नित्यमेव फलोन्मुखी ॥ ३१ ॥
    किं तु कर्मध्वंसकरी ज्ञानमार्गाद्गरीयसी ।
    साधनानां च सर्वेषामेका मुख्यतमा त्वियम् ॥ ३२ ॥
    सर्वाण्येव च कर्माणि भस्मीकुर्यादियं तथा ।
    हित्वा प्रारब्धकर्मैकं भोगनाश्यं यतोहितत् ॥ ३३ ॥
    इदं ते सर्वमाख्यातं मत्प्राकट्यप्रयोजनम् ।
    प्राकट्यान्ते तथैवाहमप्राकट्यं व्रजामि च ॥ ३४ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे
    त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
    ✤
    चतुस्त्रिंशोऽध्यायः
    श्रीराम उवाच
    यत्र¹ पूर्वं स्थितश्चान्तर्हितो लीलाप्रवर्त्तकः ।
    यत एवोपगच्छामि जनदृग्गोचरत्वकम् ॥ १ ॥
    तत्रैवाहं पुनर्यामिव्यापके निजधामनि ।
    इह तत्रामुत्र सदा सर्वत्र प्रतिभाति सत् ॥ २ ॥
    ज्ञानिनां चापि भक्तानां नित्यलीलारसात्मकम् ।
    आदाय² परिकरं सर्वं कार्यान्ते प्रविशाम्यहम् ॥ ३ ॥
    आत्मन्येव वियोगेन चात्मानं संहराम्यहम् ।
    निर्गुणं सच्चिदानन्दं कालमायातिरस्करम् ॥ ४ ॥
    प्रमोदवनसंज्ञं तन्मम धाम विराजते ।
    गमनं गगनाकारं सुविशालं मनोहरम् ॥ ५ ॥
    कल्याणगुणसम्पन्नं नित्यरूपं सनातनम् ।
    सर्वर्तुसुखसंयुक्तं नाना भोगविशारदम् ॥ ६ ॥

˙१. प्रमोदवने-टि० बड़ौ० । २. पादेऽस्मिन्नक्षराधिक्यमार्षः ।