भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
पृष्ठ 355, कुल 423 में से
संदर्भ में पढ़ें-॥३४२ -॥
त्वं साक्षात्पुरुषो विष्णुर्निश्चिन्तोऽहं त्वया विभो।
सृजस्यवसि भूतानि हंसि कालो दुरासदः ॥ १५ ॥
अहं कदाचिद्वटपत्रशायी स्वाङ्गुष्ठपादास्वदने रसज्ञः।
माङ्गल्यकाश्रीजननीपयोर्थे रुदन् रमे बालमुकुन्दनामा ॥ १६ ॥
कदाचित् प्रमोदाटवीकुञ्जभूमौ समुद्रासिरत्नाद्रिभूगह्वरस्थः ।
रमे रामनामा सदारामकुञ्जे स्वयम्भूः स्वयं शक्तिलक्ष्मीपरीतः ॥ १७ ॥
कदाचिद्रमे चित्रकूटान्तराले शिलां स्फाटिकां तामधिश्रित्य तिष्ठन् ।
प्रियानेत्रलास्यानुकारीणि पश्यन् कृपापूर्णदृष्ट्या कुरङ्गीकुलानि ॥ १८ ॥
एत्य कदाचिद्दक्षिणमथुरां कृष्णतटेऽधिगोवर्द्धनगिरि ।
ताम्रपर्णीसागरसंगमविप्रसखैर्मुनिभिश्चरन् रमामि ॥ १९ ॥
त्वं करोष्यवतारार्थं गोद्विजधर्मपालनम् ।
असुराणां निरसनं मम सौख्यविशारदः ॥ २० ॥
तस्मात्कालत्रयेऽपि त्वं न मे कोपश्य भाजनम् ।
किंतु द्विभाषणं कुर्वे नाहं लक्ष्मण किंचन । २१ ॥
नियुक्तस्त्वं प्रतीहार्ये तद्व्यतिक्रमकारणात् ।
न दण्ड्यसे चेन्मयका मर्यादा मे विनङ्क्ष्यति ॥ २२ ॥
इति लोकजने वादो भविता वेदविप्लवी ।
तेन लीलातिरोधानं मम दण्डो भविष्यति ॥ २३ ॥
कस्मात्त्वं विमना जातो दुर्मनाश्चिन्तयाकुलः ।
आविग्नो मूढवद्भ्रान्तो विरहातुरभीरवत् ॥ २४ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे
त्रिंशोऽध्यायः ॥ ३० ॥
✤
एकत्रिंशोऽध्यायः
लक्ष्मण उवाच
दृष्टाते विविधा लीलाः समस्तरससंगताः ।
रसो नाम भवद्रूपं ब्रह्मैवेदं न संशयः ॥ १ ॥
शृङ्गारवीरकरुणरौद्राद्यास्तस्य चाह्वयम् ।
एकस्य चापि नित्यस्य स्थायिनश्चित्सुखाकृतेः ॥ २ ॥