भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 351, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 351
- ३३८ -
अगस्त्यो नाम योगीन्द्रो रामभक्तिप्रभावतः ।
अगस्त्या नाम कुञ्जस्था भविता सत्सखी तयोः ॥ १५ ॥
यया प्रसादितं नित्यं व्रजस्त्रीणां मनोजलम् ।
दृष्टापराधे कान्तेऽपि रामेसर्वगुणाकरे ॥ १६ ॥
गौतमो मुनिरभ्यर्च्य तपसा परमेश्वरम् ।
तत्प्रसन्नेन रामेण मालाकारीपदं व्रजे ।
लब्ध्वा श्रीरामसहजां वैजयन्तीसमर्पिणी ॥ १७ ॥
आंगिरसो महायोगी सहजारामसन्निधौ ।
आङ्गी नाम सखी रम्या भविता वेत्रधारिणी ॥ १८ ॥
माण्डव्यो नाम योगीन्द्रो महावैखानसार्चितः ।
भविता मण्डनी नाम सखी श्रीराममण्डिनी ॥ १९ ॥
आथर्वणो महायोगी भविता सहजासखी ।
व्यजने चैव ताम्बूले महावैदग्ध्यभूषिता ॥ २० ॥
वैत्स्यो नाम मुनिश्रेष्ठः श्रीरामकृपया पुनः ।
भविता वत्सला नाम सखी वात्सल्यको विदा ॥ २१ ॥
बौधायनश्च गार्ग्यश्च भवितारौ सखीयुगम् ।
एका दर्पणधारिणी परा पानीयपायिका ॥ २२ ॥
आपस्तम्बो मुनिश्रेष्ठः पाककारी भविष्यति ।
सूपौदनादिसम्भारे श्रीरामप्रभुसेविनी ॥ २३ ॥
शाण्डिल्यो भगवान् नित्यं भगवद्भक्तिभावतः ।
कुञ्जस्था शाण्डिला नाम सत्सखी भविता तयोः ॥ २४ ॥
कठकौथुमकौशीतिमादिसांख्यायनादयः ।
सर्वे पृथक् पृथग् जाताः सख्यः श्रीरामसन्निधौ ॥ २५ ॥
असंख्याता मुनिश्रेष्ठाः सख्य एव न संशयः ।
यथाधिकारं लब्धारः सखीस्थानानि चैतयोः ॥ २६ ॥
एषा हि परमा मुक्तिर्यल्लीलापदसंगमः ।
अर्वाक् पदं ततः सर्वं ब्राह्माक्षरमव्ययम् ॥ २७ ॥
सर्वेऽप्यानन्दसंदोहास्तत एव विनिर्गताः ।
विश्रामस्थानमेकं तं निःसीमानन्दवत्पदम् ॥ २८ ॥
मात्रानन्दरतानां तु तल्लोकप्राप्तिरीप्सिता ।
महानन्दरता भक्ताः प्राप्तुमर्हन्ति तत्पदम् ॥ २९ ॥