भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 354, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 354
- ३४१ -
त्रिंशोऽध्यायः
ब्रह्मोवाच
इति श्रुत्वा प्रभोर्वाक्यं लक्ष्मणो भ्रातुरोजसः ।
हर्षदैन्यावेगचिन्तासमाविष्टो बभूव ह ॥ १ ॥
अहो वयं गमिष्यामः प्रमुद्धनमनुत्तमम् ।
यदानन्दस्य मात्राभिरुपजीवन्ति लोकगाः ॥ २ ॥
इति हर्षो बभूवास्य श्रुत्वा प्रियसृहृद्वचः ।
अहो अतः परं कासावयोध्या सरयूतटम् ॥ ३ ॥
क रत्नाद्रिसुखं कासौ प्रियभ्रातृसुहृत्पदम् ।
कैतन्न नगरीसौख्यं ब्रह्मादिसुरदुर्लभम् ॥ ४ ॥
केतत्प्रभोः श्याममणीन्द्रमेचकं दृश्यं वपुः प्रेमजुषा दृशा भगैः ।
क्वानन्द एष प्रियसंगजातः संदर्शनाद्यो जनकात्मजायाऽ ॥ ५ ॥
इति दैन्यं महज्जातं लक्ष्मणस्यापि चेतसि ।
भ्रातुः प्रियस्य लीलानां ज्ञातुः पारङ्गतस्य च ॥ ६ ॥
आवेगश्च महान् जातो भीरोर्विश्लेषदुःखतः ।
चिन्ता च महती जाता लीलादर्शनकारणात् ॥ ७ ॥
लीलारसः प्रियो यस्माल्लक्ष्मणस्य प्रियात्मनः ।
नित्यं जनकजारामरम्यरूपरसस्पृहः ।
दुर्मना इव संजातो भ्रातुः स्वे दण्डकारिणः ॥ ८ ॥
एवं दुर्मनसं वीक्ष्य लक्ष्मणं प्राणसम्मतम् ।
रामचन्द्रः प्रसन्नात्मा प्रोवाच रुचिरं वचः ॥ ९ ॥
श्रीराम उवाच
दण्डोऽभियाचितोऽद्वैव त्वयेन्द्रारिनिषूदन ।
तेनैतद्गदितं तात कथं वृत्तोऽसि दीनवत् ॥ १० ॥
न मया दण्डनीयस्त्वं प्राणस्यापि व्यतिक्रमात् ।
को दण्ड्यः को दण्डयिता सर्वैक्ये द्वयोरपि ॥ ११ ॥
आवयोर्नैव भेदोऽस्ति त्वमक्षरमहं परः ।
शेषः संकर्षणः साक्षाद्यदंशो मेदिनीधरः ॥ १२ ॥
शेषरूपः परिकरो भाष्यकर्ता मदागमे ।
आचार्यः परमो नित्यो वैष्णवप्रियकारकः ॥ १३ ॥
सर्वावतारमूलञ्च ईश्वरः प्रकृतेः परः ।
त्वया विना न चैवाहं लीलासु पुरुषोत्तमः ॥ १४ ॥