भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
- २४६ -
श्रीसीतोवाच
दैवं नामामहेवास्मि कालश्चाहं दुरत्ययः।
लीला चाहं भक्तगेया तत्साधनमहं पुनः ॥ ६१८ ॥
भूत्वोभयस्वरूपाऽहं रमामि भवता सह।
रक्षश्चातिबलं तद्वै न हन्तुं शक्यमन्यथा ॥ ६१९ ॥
यस्य श्रौतं बलं दिव्यं तथा कर्मबलं बहु।
शिवस्योपासको वीरस्त्रैलोक्यविजयी बलात् ॥ ६२० ॥
यस्य बाहुबलं भूयो भवतः पार्षदो वरः।
लीलावेशस्तथैवायं किं न स्मरसि वल्लभ ॥ ६२१ ॥
पौलस्त्यतनयो विप्रो ब्रह्मण्यस्यतवावधः।
गृहे गृहेऽग्निहोत्राणि शिवपूजा गृहे गृहे ॥ ६२२ ॥
प्रतापितं जगद्येन तपोवीर्येण भूयसा।
मायायां मथुरायां च काश्यां चोज्जयिनीपुरे ॥ ६२३ ॥
अस्थिचर्मावशिष्टोऽसौ चकार विपुलं तपः।
अगस्त्योऽस्य विदां वर्यो मुनिरस्ति गृहोपरि ॥ ६२४ ॥
दक्षिणे ध्रुव इत्युक्तो ज्योतिर्विद्भिः पुरातनैः।
स कथं शक्यते हन्तुं विनेदृशमति क्रमम् ॥ ६२५ ॥
कथं पुनरिमाः कन्यास्त्वदेकहृदयाः स्त्रियः।
उद्धृताः स्युश्च धर्मज्ञ दुस्तराद्भवसागरात् ॥ ६२६ ॥
इति विज्ञाय वीरेन्द्र न विकल्पितुमर्हसि।
रमस्व रसयुक्ताभिः कन्याभिरिह कामिवत् ॥ ६२७ ॥
ईदृशीं सम्पदं कान्त सफलीकर्तुमर्हसि।
एकत्रैव जगल्लक्ष्मीर्दृश्यतामिह वल्लभ ॥ ६२८ ॥
इदं विपिनमालूनं कपीन्द्रेण महौजसा।
पुनः पल्लवितं पश्य वसन्तसमयश्रिया ॥ ६२९ ॥
भवित्री राजधानीयं विभीषणमहामतेः।
वैष्णवप्रवरस्यास्य सततं हितवर्तिनः ॥ ६३० ॥
सुवेलाद्रिगुहा रम्या निकुञ्जवरशोभिता।
इमाश्च किंकरीस्तत्र नित्यं रमय सुव्रत ॥ ६३१ ॥
यथा भवांश्च रत्नाद्रौ प्रमोदविपिनेऽन्तरा।
तथेह रन्तुमर्होऽसि लीलानटवरः प्रभो ॥ ६३२ ॥
इत्युक्तः प्रियया रामो प्रोवाच विशदस्मितः ॥ ६३३ ॥
- २४७ -
श्रीराम उवाच
अहं त्वदेकपत्नीकः कथमेताः समुद्वहे ।
मोचनं चान्यथैवासां करिष्याम्येव जानकि ॥ ६३४ ॥
श्रीजानक्युवाच
यस्य जीवस्य यो भावस्तेन गम्योऽसि राघव ।
भावसंछेदनं न स्याद्व्रतस्य छेदनं भवेत् ॥ ६३५ ॥
अपि चेमा देवकन्या मयाऽऽविर्भाविताः स्वतः ।
सिन्धोर्विनिःसृताः काश्चिन्मया सह वरस्त्रियः ॥ ६३६ ॥
अन्याश्च विपुलश्रोण्यश्चिरं त्वयि धृताशयाः ।
एतासां रमणं कार्यं महत्कौतूहलं कुरु ॥ ६३७ ॥
हर त्रिभुवनस्त्रीणां मानं सौन्दर्यजं मदम् ।
ब्रह्मणो मोहनं कार्यं महतीं रजनी सृज ॥ ६३८ ॥
उमाद्याश्च महालीलां वीक्ष्य चित्ते विलक्षिताः ।
भविष्यन्ति गलद्दर्पास्त्वदेकचरणाश्रिताः ॥ ६३९ ॥
श्रीशिव उवाच
इत्युत्साहितचित्तोऽसौ प्रियया प्राणतुल्यया ।
रामो लीलारसं कर्तुमारेभे रसिकाग्रणीः ॥ ६४० ॥
सद्यो विगतमर्यादो रसराजो व्यवर्तत ।
स लीलाकौतुकाविष्टो वामदक्षिणपार्श्वयोः ॥ ६४१ ॥
कृत्वा वृन्दं वरस्त्रीणां निनाय गहनं वनम् ।
तत्र प्रमोदविपिनं सर्वासां समदर्शयत् ॥ ६४२ ॥
सरय्वाः पुलिनं रम्यं निकुञ्जवरसेवितम् ।
विविक्तं कोकिलालापगुञ्जद्भ्रमरनादितम् ॥ ६४३ ॥
एकान्तलीलोपयिकं रसकेलीनिकेतनम् ।
अनेकदिव्यसदनं रसराजप्रबोधनम् ॥ ६४४ ॥
महासमरसानन्दं स्त्रीणामतिमनोरमम् ।
उत्फुल्लपद्मकह्लारसरसीशतसेवितम् ॥ ६४५ ॥
हेमवल्लीवनागारं रत्नपुष्पवरद्रुमम् ।
मृदुस्वर्णमणिस्वच्छवालुकामयमङ्गणम् ॥ ६४६ ॥
तत्र ताः स्वोत्तरीयाणि विस्तार्य विहितासनाः ।
परिवव्रुः समंतात्तं रसिकेन्द्रशिरोमणिम् ॥ ६४७ ॥
- २४८ -
स्वस्वयूथेषु मुख्याभिः सुवर्णमणिमालिकाः ।
कान्तस्य वरणार्थाय रोपिताः कण्ठदेशतः ॥ ६४८ ॥
स ताभिः स्वर्णमालाभिर्वृतः कान्तोव्यराजत ।
महामुकुटशोभाढ्यो नवपाणिग्रहोचितः ॥ ६४९ ॥
तस्मिन्नुद्वाहसंदोहकौतूहलमहोत्सवे ।
रामपार्श्वे उभे सख्याववर्तेतां मुदान्विते ॥ ६५० ॥
आसीत्पिकीकलालापो मङ्गलस्वरगानकृत् ।
झाङ्कारगानमिलितो भ्रमरीणां समंततः ॥ ६५१ ॥
कोकीरवश्च केकाभिर्भेरीभाङ्कारसुन्दरः ।
तरङ्गिण्याश्च कल्लोलाः सिन्धुगम्भीरनादिनः ॥ ६५२ ॥
मृदङ्गमङ्गलखो व्यजृम्भत नभःस्पृशः ।
तुर्य्यत्रिकं ननादाथ कालशक्त्याभिनादितम् ॥ ६५३ ॥
स्वर्णतालीवनध्वान आसीन्मारुत लीलया ।
इत्येवं सम्पदाविष्टमभूदुद्वाहकौतुकम् ॥ ६५४ ॥
सम्पन्नोद्वाहविधयः सर्वास्ता हरिणीदृशः ।
नवीनमन्मथाक्रीडाजितं बल्लभमब्रुवन् ॥ ६५५ ॥
स्त्रियऊचुः
अद्य नः सफलं जन्म भवतैव कृतं प्रभो ।
अद्राक्ष्म जीवलोकस्य सुखमद्य रमापते ॥ ६५६ ॥
रूपसारं च नो दत्तं त्वदाज्ञातो विरंचिना ।
[L2
- २४९ -
तृप्ता अपि मुहुर्नाथ वयं नित्यमतृप्नुमः ।
चिरेण विरहाक्रान्ता भृशमानन्दिताः प्रभो ॥ ६६३ ॥
दग्धा इव लता भूयो वयं पल्लवितास्त्वया ।
निर्वापितोऽङ्गतापश्च स्मरजश्चित्तमूर्च्छनः ॥ ६६४ ॥
वैदग्ध्यं भवतोऽत्यर्थं वशीकृत्य च नःस्थितम् ।
एषा तवाधरसुधा नित्यं पेया वधूजनैः ॥ ६६५ ॥
माङ्गल्यातनयो राम भवानद्भुतकौतुकी ।
इमे व्रजजना धन्यास्त्वन्मुखेन्दुनिरीक्षकाः ॥ ६६६ ॥
धन्यं प्रमोदविपिनमाकीटपशुपक्षिकम् ।
मुरलीनादसुधया नित्यमाप्यायितं त्वया ॥ ६६७ ॥
धन्या व्रजस्य धरणी दूर्वारोमाञ्चिता सदा ।
विमुक्तपादुकाभ्यां ते चरणाभ्यां सदाङ्किता ॥ ६६८ ॥
किं वर्णनीयमस्माभिः सर्वाश्चर्यमयो भवान् ।
एते निकुञ्जरसिकाः कोकिला मधुपैः सह ॥ ६६९ ॥
उद्गायन्ति तव श्लोकं निगमा इव चागमैः ।
वसिष्ठवामदेवाद्या याज्ञवल्क्यशुकादयः ॥ ६७० ॥
तत्तत्पक्षिस্বরূপेण निवसन्तीह संततम् ।
तव लीलारसास्वादहेतवे सुखसेतवे ॥ ६७१ ॥
अमीषां प्रेमजं सौख्यं ब्रह्मानन्दसुखाधिकम् ।
अहो अत्यद्भुता रीतिः प्रमोदविपिनान्तरे ॥ ६७२ ॥
अहो कुटिलता प्रेम्णो गरिमा यत्र लाघवम् ।
लाघवं गरिमा तत्र यत्राधर्मोऽपि धर्मवत् ॥ ६७३ ॥
अधर्मवद्यत्र धर्मस्तथाऽऽर्जवमकैतवम् ।
अनार्जवं कैतवं च यत्र ते च ह्युभे च ते ॥ ६७४ ॥
एतद्विस्मयनीयं च महदेवात्र दृश्यते ।
यदक्षरात्परं ब्रह्म पुरुषोत्तमशब्दितम् ॥ ६७५ ॥
तदत्र नीलमाधुर्यमहसा समलङ्कृतम् ।
दृश्यते मुग्धवामानां करक्रीडनकोपमम् ॥ ६७६ ॥
भवानत्यद्भुतं वेशं कृत्वा क्रीडति कामिवत् ।
अहो ते दुर्लभं धाम ब्रह्मादीनां त्रयीजुषाम् ॥ ६७७ ॥
प्रेमैकलभ्यं भगवन्नस्मादृङ्मुग्धचेतसाम् ।
तव प्रसादपात्रत्वादधुनाऽऽस्म भवातिगाः ॥ ६७८ ॥
– २५० –
इति प्रेम्णा वदन्तीस्ताः सर्वाः प्रत्येकमङ्गनाः ।
रमयामास रामेन्दुर्लीलया रसवित्तया ॥ ६७९ ॥
एकान्ततः परिप्राप्य तमेके तरुणीजनाः ।
तुष्टुवुर्विमलैः स्तोत्रैर्वैकुण्ठे श्रुतयो यथा ॥ ६८० ॥
स्त्रियऊचुः
नमः श्रीरामाय नित्यरमणकोविदाय नित्यमधुरमूर्तये श्रीरामाविलासरसिकाय
महापुरुषायविर्भावितविशुद्धसत्त्वाय तिरोभाविरजस्तमोमयाखिलभावायानादिभक्ति-
मार्गजीवातुप्रपत्तिवशीकृतचित्ताय भक्तजनवित्ताय नित्यनिरवधिप्रसादकल्पतरवे
भजनार्थप्रदत्तलीलाविग्रहशिवसनकशेषशुकादिमुनिगणकमनीयविचित्र चरित्रभवनायाष्ट-
कोणवैकुण्ठायतप्रमोदवनमाधुरीमधुव्रताय श्रीनन्दननन्दिनीश्रीसहजानन्दिनीश्रीप्रमो-
दिनीनित्यनिजशक्तिसमेताय मधुरमेचकनित्यसमुन्नतसुधाजलधराय ब्रह्मविद्वरिष्ठमानस-
राजहंसाय नित्यकिशोराय नित्यानन्दपदमहासाम्राज्यभाजनाय परब्रह्मणे निस्तुलाया-
प्रमेयाय कर्मोपासितानागम्यस्वरूपवैभवाय परमपुण्यलोकश्लोक्याय नामरूपविभिन्न-
प्रपञ्चरचनातीतनामरूपाय निखिलप्रपञ्चसमवायिनिमित्ताय श्रीमते
रसिकरामचन्द्राय ॥ ६८१ ॥
अन्यास्ताः किंकरीभूय नित्यस्वाम्यवशीकृताः ।
ऊचुः सुपेशला वाचश्चरणाहितचेतसः ॥ ६८२ ॥
स्त्रियऊचुः
नमस्ते नित्यनिरवधिनिरुपमनिर्भरानुकम्पासमुद्धृताखिलजीवराशये कदुदञ्चत्-
कृपाकटाक्षसमुद्बोधितचिरविस्मृतस्वरूपाय शिवविरञ्चिरमान्वेषितचरणपरागरजः-
कणायविमलकौस्तुभाङ्कुरितकृपाकन्दाय श्रीमत्प्रमोदवनकुञ्जाधिपतये विमलगुण
भूमिसमुन्मूर्च्छितध्वतिगणगन्धर्वगानाय नेतिनेतिवचसोऽप्यगोचराय रुचिररोचिष्णु-
चिदानन्दमयमूर्तिमहोमहनीयमहापौरुषविस्फूर्जिताय श्रीरामायाभिरामाय ॥ ६८३ ॥
अहो खलु वयं दास्यो भवतः पुरुषर्षभ ।
सहजानन्दिनीयुक्तं नित्यं परिचरामहे ॥ ६८४ ॥
अध्यारोढुमिदं न चित्सुखमहासाम्राज्यसिंहासन-
मर्हा नाथ वयं विधातुमुचिताः कैङ्कर्यमेकान्ततः ।
यत्र त्वं रमयस्यखण्डविलसत्सौभाग्यां स्वामिनीं
ताम्बूलाहरणादिकामपचितिं तत्राचरिष्यामहे ॥ ६८५ ॥
अस्मिन्नेव रसे निविष्टनिपुणस्वान्ता वयं नित्यशो
ब्रह्मानन्दपदं ततोऽपि तृणवत्कृत्वा समुद्वेलिताः ।
अक्षुब्धं निजदास्यभावपदवीसौख्यं त्वया प्रापिताः
श्रीमन्नित्यमिदं प्रमोदविपिनं द्रक्ष्यामहे लोचनैः ॥ ६८६ ॥
- २५१ -
इति कैङ्कर्यभावेन भावितास्ताश्च भामिनीः ।
विविधैर्भावसंदोहेररीरमत वल्लभः ॥ ६८७ ॥
श्रीराम उवाच
भवतीनां परो भावो ब्रह्मादिसुरदुर्लभः ।
मासां मदेकविषयं मनः सुदृढयन्त्रितम् ॥ ६८८ ॥
अहो अत्यद्भुतं प्रेम्णो महिमा किमु वर्ण्यताम् ।
येनाहं वश्यतां यातो वेदवाचामगोचरः ॥ ६८९ ॥
गोप्यः प्रमोदवनवासनिरुद्धचिन्तास्तासां वदाम्बुरुहरेणुकणप्रसादात् ।
एषोर्जिता परतरा मम भक्तिरागाद्युष्माकमन्तरपथे नरराजकन्याः ॥ ६९० ॥
धन्याः स्थ यूयमनुरागजुषो मयीति युष्मास्वहं सहजयाविनियुक्त एव ।
रंस्ये रमावदितराननुवर्तनीयः कीर्तिश्च वस्त्रिभुवनं वलयिष्यतीशाः ॥ ६९१ ॥
रत्नाचले यथा स्वयं प्रमोदविपिनेऽप्यहम् ।
तथैह खलु युष्माभिरहं नित्यविलासवान् ॥ ६९२ ॥
को जानातीदृशीमिच्छां सहजाया रसावहाम् ।
लोकापवादं सोढापि यथा केलिः प्रयोजिता ॥ ६९३ ॥
किं मां नमत तद्यूयं सहजावश्यतां गतम् ।
इमामेव तु जानीत समुद्घाट्य निजंमनः ॥ ६९४ ॥
नाहमस्याः प्रभावज्ञो वर्ते लीलासु चावशः ।
योऽस्याः करावलम्बी स्यात् स मया तारितो भवात् ॥ ६९५ ॥
अत्र चोदाहरिष्यामि पुरावृत्त यथा भवत् ।
कदाचिदैच्छद्गिरिशो मम लीलावलोकनम् ॥ ६९६ ॥
श्रुत्वा भक्तैः प्रकथितां मम लीलां रसोर्जिताम् ।
स आगाद्भगवान् रुद्रः प्रमोदवनमन्तरा ।
तुतोष सर्वतो वीक्ष्य माधुरो वनमद्भुतम् ॥ ६९७ ॥
चिन्तामणिप्रवरभूमिरुदञ्चदंशुव्यामान्तरिक्षधरणीहरिदन्तरालम् ।
सम्पन्नविस्फुरदनेकविचित्रकुञ्जमाधुर्यधुर्यरचनामयकामशालम् ॥ ६९८ ॥
नित्योल्लसन्मधुविराजितवृक्षराजीभ्राम्यन्मधुव्रतकदम्बनिषेव्यमाणम् ।
कूजत्पिकीरवकिवरवरसुस्वराढ्यं धन्यंप्रमोदवनमीक्ष्य ययौ न तृप्तिम् ॥ ६९९ ॥
कैलासादागतः श्रान्तः सहजानन्दिनोसरः ।
अवगाह्य शिवस्तत्र तत्क्षणात् प्रमदाभवत् ॥ ७०० ॥
सात्यर्थरूपलावण्यशालिनी प्रमदा नवा ।
प्राग्दशां नैव सस्मार विस्मिते वाभवत्तदा ॥ ७०१ ॥
- २५२ -
आचम्य च पयस्तस्य सरसः स्वादुशीतलम् ।
शिवोऽहं प्रमदाभूत इति चैतन्यमाप सः ॥ ७०२ ॥
निरीक्ष्य स्वस्य सौन्दर्यविशेषं गर्विता च सा ।
अहो न मत्समा काचिद्व्रजेऽप्यस्ति वराङ्गना ॥
श्रीरामं वशयिष्यामि तत्क्षणादेव दर्शनात् ॥ ७०३ ॥
मद्रूपलावण्यमुदीक्ष्य रामो ममैव वश्यो भविताैष सद्यः ।
श्रीनन्दनस्यात्मजयाप्यलभ्यं सौभाग्यमेश्यामि कथं न साहम् ॥ ७०४ ॥
इत्थं मनोरज्यमियं कुर्वती प्रमदा नवा ।
व्यचष्ट मालतीकुञ्जान्माधुरीकुञ्जमेष्यतीम् ॥ ७०५ ॥
कांचिद् सखी चम्पकाङ्गीं सहजामान्यहारिणीम् ।
तस्या रूपं विलोक्यैषा भग्नमाना बभूव च ॥ ७०६ ॥
अथ तां वक्तुमारेभे कासि त्वं कुत्र यास्यसि ।
धन्यासि रूपसारेण केवलेन विनिर्मिता ॥ ७०७ ॥
त्रैलोक्यललनारत्नमोहनं रूपमीदृशम् ।
सातिधन्यतमाकान्ता यस्यास्त्वं माल्यहारिणी ।
एतत्तवाद्भुतं रूपं मदं हरति योषिताम् ॥ ७०८ ॥
इति तस्य वचः श्रुत्वा नोत्तरं दत्तवत्यसौ ।
जगाम तूष्णी च ततः स्वामिनीसेवनोत्सुका ॥ ७०९ ॥
इति तदीरितमश्रुतकेन सा प्रणिविधूय ततो विचचाल ह ।
निधुवनान्तविमाल्यनिजेश्वरी ननु तुतोषयिषुर्वरिवस्यया ॥ ७१० ॥
ततः सा भग्नहृदया तत्पृष्ठमनुयायिनी ।
जगाम माधुरोकुञ्जसप्तमद्वारकक्षिकाम् ॥ ७११ ॥
कलावती तु तत्रागाद् यथा कार्यं ममेशितुः ।
तत्र वेत्रच्छटाहस्तप्रतोहारीनिवारिता ॥ ७१२ ॥
पप्रच्छ तां करुणया परिपूर्णा कलावती ।
कासि त्वमिह रम्भोरु किमर्थं चेह संगता ।
अविज्ञाप्य प्रभुं नेह प्रवेशं लप्स्यसे ध्रुवम् ॥ ७१३ ॥
नवप्रमदोवाच
प्रमदाहं भग्नदर्पा भवतीनां तनुत्विषा ।
प्राप्तास्मि सहजारामलीलालालित्यदृष्टये ॥ ७१४ ॥
ततः कलावती गत्वा स्वामिनोश्चरणान्तिकम् ।
उवाच सदयं स्निग्धं यथावृत्तं नवस्त्रियः ॥ ७१५ ॥
- २५३ -
ततो मयेरिता सद्यो नवयोषित्प्रवेश्यताम् ।
गत्वा कलावती तां च प्रवेशयितुमानयत् ॥ ७१६ ॥
कक्षान्तरे त्वथ मुहुरनया वेत्रहस्तया ।
निरुद्धा यायिनी संगे कलावत्या नवाङ्गना ॥ ७१७ ॥
ततः कलावती भूयो मत्पार्श्वं समुपागता ।
उवाच सदयं वाक्यं तस्या हितचिकीर्षया ॥ ७१८ ॥
कलावत्युवाच
प्रभो पञ्चमकक्षायां निरुद्धा वेत्रहस्तया ।
नान्तःप्रवेष्टुं दत्ता सा नवस्त्री दर्शनार्थिनी ॥ ७१९ ॥
ततः सम्प्रेषिता तावन्मया चरणदासिका ।
तत्संगयायिनी सा सु रुद्धा कक्षान्तरे पुनः ॥ ७२० ॥
सहजाज्ञैककारिण्या अन्यया वेत्रहस्तया ।
ततश्चरणदासी सा मत्पार्श्वं समुपागता ।
उवाच तस्यास्तद्वृत्तं यथा रुद्धानवाङ्गना ॥ ७२१ ॥
चरणदासिकोवाच
प्रभो सप्तमकक्षायां रुद्धा सा वेत्रहस्तया ।
एषा श्रीसहजानन्दामुखादाज्ञा प्रतीक्षते ॥ ७२२ ॥
ततोऽहं सहजानन्दामुखं तूष्णी विलोकयन् ।
न किंचिदूचे वचनं न स्वतन्त्रोऽस्मि तद्वशः ॥ ७२३ ॥
ततः श्रीसहजानन्दा प्रेषयामास चेटिकाम् ।
तस्या आनयनार्थाय प्राप्ताया नवयोषितः ॥ ७२४ ॥
ततः प्रवेशिता सान्तर्नवयोषित् समुत्सुका ।
यत्रासौ सहजा देवी मया सह विराजिता ॥ ७२५ ॥
यत्र ताम्बूलिकाहस्तो देवीं परिचराम्यहम् ।
भक्षयामि च भक्षामि तद्दत्तां पर्णवोटिकाम् ॥ ७२६ ॥
वीक्ष्य तां सहजा देवी जहास मृदुहासिनी ।
तस्या रदत्विषा कुञ्जभवनं तत् प्रकाशितम् ॥ ७२७ ॥
यथा शारदचन्द्रांशुद्योतौः कुमुदिनीवनम् ।
गवाक्षनिर्गतैरंशुसन्दोहैस्तरुवल्लिकाः ॥ ७२८ ॥
सद्यश्चकाशिरे सर्वाः श्रीकुञ्जभवनान्तरे ।
सा नवप्रमदा वीक्ष्य सहजामुखचन्द्रिकाम् ॥ ७२९ ॥
- २५४ -
सद्यः सम्भ्रान्तचित्ताभून्मूर्च्छिता निपपात च।
अथो कथं कथमपि तां परिप्राप्तचेतनाम् ॥ ७३० ॥
देवी श्रीसहजोवाच लीलाकौतुककारिणी ।
कस्य गोपस्यकन्येयं कि नामेति तु पृच्छ्यताम् ॥ ७३१ ॥
सत्यं वदतु सा चैषा नैवानृतमिह स्थितम् ।
नो चेत् कालान्तरेऽप्यस्या नागमोऽत्र भविष्यति ॥ ७३२ ॥
ततश्च कम्पमानेव प्रोवाच वचनं सती ।
शिवोऽस्म्यहमिह प्राप्तो लीलादर्शनलालसः ॥ ७३३ ॥
इति तस्या वचः श्रुत्वा सहजा स्वयमब्रवीत् ।
एतत्प्रमोदविपिनं मम लीलानिकेतनम् ॥ ७३४ ॥
पुरुषाभमतिर्भूत्वा कथमत्र समागतः ।
लोकेऽन्यस्यापि वै राज्ञो याति नान्तःपुरं पुमान् ॥ ७३५ ॥
किमुताखिललोकेशमहाराजस्य मत्प्रभोः ।
इहैक एव पुरुषः सर्वास्तस्य च योषितः ॥ ७३६ ॥
इति विज्ञाप्य सख्योऽसौ दूरे सम्यग्विधीयताम् ।
नास्मै क्रोधं करोम्यद्धा मत्स्वाम्यङ्घ्रिरजोजुषे ॥ ७३७ ॥
पुरुषाभिमतिश्चास्य नाधुनापि निवर्त्तते ।
शिवा नाम सखी भूत्वा पातुकालान्तरे त्विह ॥ ७३८ ॥
ततः प्रणम्य सहजानन्दिनीं मां च शङ्करः ।
भूयो वलक्षवदनस्तस्मात्स्थानाद्विनिर्गतः ॥ ७३९ ॥
प्रमोदविपिनस्यैकदेशेऽद्यापि तपस्यति ।
व्रजभक्तपदाम्भोजरजोधूसरविग्रहः ॥ ७४० ॥
सहजानन्दिनीलीलागुणगानपरायणः ।
प्रेमानन्दसमुद्भूतवाष्पसिक्तकलेवरः ॥ ७४१ ॥
रोमाञ्चितवपुः स्तब्धः सरयूपुलिनाङ्कणे ।
यो मञ्जुवट इत्युक्तो जटासंकुलविग्रहः ॥ ७४२ ॥
आगामिद्विपराद्धान्ते मम लीलां प्रवेक्ष्यति ।
इत्युक्तोऽस्याः प्रभावोऽयं सख्यः सम्यग् विचिन्त्यताम् ॥ ७४३ ॥
तस्माद्भवत्यः सततं सहजायाः कृपावशात् ।
लब्ध्वा पदमिमं रामाः कृतार्था नात्र संशयः ॥ ७४४ ॥
इत्युक्त्वा भगवान् रामः कोटिकन्दर्पमोहनः ।
दिव्ये लङ्गावने तत्र रासमारब्धवान् मुदा ॥ ७४५ ॥
ि-मु-दा-व-हः = 8 syllables.
'मु' must be short (laghu) to have standard pathya vaktra (5th short, 6th long, 7th short: mu-dā-va-haḥ = laghu-guru-laghu-guru, perfectly iambic cadence u - u - !).
If it were 'मू', it would be guru-guru-laghu-guru, which is rare/avoided in the even pada!
So it is definitely 'मु' (पशुपक्षिमुदावहः).
Let's check line 20:
"सुवेलाद्रिगुहाश्चापि प्रतिध्वानैः प्रपूरिताः ।"
"मन्दं मन्दं जलनिधिरन्वगर्जन्मृदङ्गवत् ॥ ७५५ ॥"
Meter:
सु-वे-ला-द्रि-गु-हा-श्चा-पि (8)
प्र-ति-ध्वा-नैः प्र-पू-रि-ताः (8)
म-न्दं म-न्दं ज-ल-नि-धि- (8)
र-न्व-ग-र्ज-न्मृ-द-ङ्ग-वत् (8)
Total Anuṣṭubh perfection!
Let's check line 13:
"सर्वासां रागजातीनां गह्नरः समवर्तत ॥ ७५१ ॥"
Wait, look at 'गह्नरः
- २५६ -
तडिल्लतामण्डलमञ्जुलानां चलन्महाहेमलतोपमानाम् ।
विलोलचिन्तामणिमालिकानां ज्वलाच्छिखावह्निविदीपितानाम् ॥ ७६२ ॥
मुदान्वितानां नटनोद्धुराणां वाद्यत्पदाम्भोरुहनूपुराणाम् ।
स्विद्यत्तत्तूनां प्रचलाञ्चलानां श्रीरामनृत्योत्सवचञ्चलानाम् ॥ ७६३ ॥
शब्दायमानोद्धुरकिंकिणीनां स्वान्दोलशोभामणिमालिकानाम् ।
चलाधरीयोद्द्रुतधूर्णिकानां विलोलकान्तालकमञ्जरीणाम् ॥ ७६४ ॥
ऊर्ध्वं विलोलद्भुजवल्लरीणामधः समुद्यत्करपङ्कजानाम् ।
तनुत्विषा रञ्जितकाननानां स्वेदाञ्चितेषद्धसिताननानाम् ॥ ७६५ ॥
भ्रमत्तरङ्गाभ्रुकुटीलतानां कटाक्षनिक्षेपभृतेक्षणानाम् ।
तत्थेइतत्थेइरवोन्मदानां भावोद्दुराकुञ्चितनासिकानाम् ॥ ७६६ ॥
कण्ठस्वरैर्लज्जितकोकिलानां वेणीभ्रमैर्भीषितपन्नगीनाम् ।
- २५७ -
अन्यां नितम्बयोर्विध्यत्यन्यां वक्षसि कौतुकी ।
अन्यामाकर्षति कचेष्वन्यां तुदति जङ्घयोः ॥ ७७७ ॥
अन्यामासज्जति हठादन्यां मृशति कक्षयोः ।
अन्यां चुम्बति गण्डाभ्यामन्यां चुम्बति नेत्रयोः ॥ ७७८ ॥
अन्यां नाभिस्थले मृश्य करोति मदनोन्मदाम् ।
सहजानन्दिनीचित्तमनस्तर्पणहेतवे ॥ ७७९ ॥
करीव गाहतेऽत्यर्थं तरुणीपद्मिनीवनम् ।
अन्यां स्खलयति स्वैरमन्यां क्षोभयते भृशम् ॥ ७८० ॥
अन्यामञ्चलमाकृष्य निवारयति १गच्छतीम् ।
इत्थमाक्रीडरसिको रेमे प्रतिवधूजनम् ॥ ७८१ ॥
रममाणस्य तस्याभून्मन्मथः प्रीतिवर्द्धनः ।
आस्फालितधनुःसूत्रभ्रूयुगैर्हरिणीदृशाम् ॥ ७८२ ॥
आविद्धो रामहृदयो ममाद रसिकाङ्गणे ।
एकैककामिनीः कान्तो निन्ये कुञ्जकुटीगृहे ।
रतवान् विविधैर्बन्धैर्नवैर्निधुवनोत्सवैः ॥ ७८३ ॥
ताः सम्भोगमृदितवसनालङ्कृतिव्यस्तवेशाः-
स्विन्ने रङ्गैः पुलकतनुतोत्कम्पभावादियुक्ताः ।
स्वस्वालीभिः समुपहसिताः सेर्ष्याससूयनेत्रा-
मन्द मन्दं द्विरदगतयो निर्ययुः केलिकुञ्जात् ॥ ७८४ ॥
पुनर्भूषाः संविधाय वासोरञ्जनमालिकाः ।
उपतस्थुर्वल्लभं तं रुचिरैरासमण्डले ॥ ७८५ ॥
रासोत्सवः पुनरभूत्पूर्णकामकलाभृतः ।
संगीतभेदविदुषो रामस्याद्भुतकर्मणः ॥ ७८६ ॥
काश्चिन्मानवतीस्तत्र दूतिसम्प्रेषणादिभिः ।
रामः प्रसादयामास पादयोः पतनेन च ॥ ७८७ ॥
काश्चिदुत्कण्ठिता रामाः श्रीकान्तः समतोषयत् ।
एकान्तकुञ्जलीलाभिरत्यासक्तिप्रदर्शनः ॥ ७८८ ॥
काश्चित्प्रेमकलहादन्तरायमुपागताः ।
सम्प्रेषितसखीदूतीर्जगाम रसिकाग्रणीः ॥ ७८९ ॥
काश्चिद्रूपमहामाना नरनागेन्द्रकन्यकाः ।
स्वाधीनपतिका भावैर्मानयामास राघवः ॥ ७९० ॥
१. आर्षप्रयोगः ।
२२
)
ओषध्ये दीपकप्रायास्तत्रासन् केलिकौतुके ॥ ८०५ ॥ (Wait: 'ओषध्ये' or 'ओषध्यो'? Look at the vowel: 'ओषध्ये' or 'ओषध्यो'? It has 'े' -> 'ओषध्ये'? Wait, look at 'ध्ये': there is an 'े' above it. Wait, or 'ओषध्यो'? No, it looks like 'ओषध्ये'. Wait, 'ओषधयः' -> 'ओषध्यः'? Look: 'ओषध्ये' - wait, is it 'ओषध्यो'? In sandhi, ओषध्यः + दीपकप्रायाः -> ओषध्यो दीपकप्रायाः! But look at the letter: 'ओ' 'ष' 'ध्ये'? There is only one slant stroke above 'ध्य', no 'ा'! So it is printed as 'ओषध्ये'. Let's look very carefully: yes, single matra 'े', 'ओषध्ये'.)
महती सा निशा चासीदखण्डविधुचन्द्रिका ।
मध्यंदिवगतो रेजे शशाङ्कः पूर्णमण्डलः ॥ ८०६ ॥ (Wait: 'मध्यंदिवगतो' or 'मध्यंदिनगतो'?
Look at the letter: 'म' 'ध्यं' 'दि' 'व' 'ग' 'तो' - wait, is it 'व' or '
– २५९ –
कोटिचन्द्रसमुद्भासी एक एव व्यदृश्यत ।
महानिद्रावशं प्राप्ता मोहिताश्च निशाचराः ।
निभृतं राघवो रेमे सम्पन्ने रक्षसां पुरे ॥ ८०७ ॥
आविर्भाववशात् प्रमोदविपिनस्याङ्घ्रिप्रसादात्तथा-
तस्य श्रीरघुपुङ्गवस्य पतितव्यूहैकसंतारिणः ।
आसीदासुरभावतो विरहितं स्थानं विशुद्धं ततः-
केलीभाजनतां गतं कमलया संशोभिवैकुण्ठवत् ॥ ८०८ ॥
त्रैलोक्यं स्थगितं बभूव सहजारामस्य रासोत्सव-
क्रीडायां ववृधे महारसमयप्रेमप्रमोदार्णवः ।
तस्यैवोच्छलिताः कणाः कतिपये व्याप्ता समंतात् पर
ब्रह्मानन्दमयाः सुरासुरवरव्यालात्मविद्योतिषु ॥ ८०९ ॥
स्वस्वस्थानस्थिता देवा असुराश्चापि तादृशाः ।
नरा भुजङ्गमाश्चैव पातालतलवासिनः ॥ ८१० ॥
ज्ञानिनो योगिनश्चापि तथा पश्वादियोनयः ।
निवृत्ताखिलव्यापाराः सर्वेन्द्रियलयं गताः ॥ ८११ ॥
अकस्मात् सम्मुमुदिरे येषां गोत्रभवाश्च ताः ।
इत्येवं परमानन्दः सर्वविस्मारणो नृणाम् ॥ ८१२ ॥
अकस्माद्धृदि संजातास्त्रैलोक्यस्थानवासिनाम् ।
केचिद्द्रुकवरास्तत्र नारदाद्याः सुरर्षयः ॥ ८१३ ॥
प्राप्ताः सुविपुलोत्कण्ठा अन्तरिक्षपथे स्थिताः ।
कौतूहलसमाविष्टा ददृशुः केलिनिर्भरम् ॥ ८१४ ॥
एवं तास्त्रिजगद्रामः कृत्वा पूर्णमनोरथाः ।
तासां मनः समाकृष्य स्वात्मैकविषयं स्थिरम् ॥ ८१५ ॥
केलीसरोवरे स्नात्वा दत्त्वा रतिसुखं महत् ।
अन्योन्यमुक्षणं कृत्वा सुधानिर्मलपाथसा ॥ ८१६ ॥
स्थले केलीवने केलीं विधाय विपुलां विभुः ।
वितीर्य विविधं ताभ्यो मनोऽभिलषितं वरम् ॥ ८१७ ॥
सुप्रभातोन्मुखीं रात्रिं निरीक्ष्य भगवान् स्वयम् ।
सर्वा आज्ञापयामास यथास्थानं निवेशितुम् ॥ ८१८ ॥
काश्चिदत्युत्सुका रामा विलीनास्तस्य रश्मिषु ।
आविर्भावः पुनस्तासां प्रमोदवनकेलये ॥ ८१९ ॥
काश्चित् सीतासखीभूय तस्याः पार्श्वेषु संस्थिताः ।
काश्चिल्लतास्वोषधीषु संलीय निभृतं स्थिताः ॥ ८२० ॥
- २६० -
अनुज्ञाय प्रियां रामो माल्यवन्तमुपागमत् ।
अथ सुग्रीवमादाय सुमित्रातनयः स्वयम् ।
किष्किन्धायाः संनिवृत्तः कृत्तिकायां महामतिः ॥ ८२१ ॥
चरित्रमिदमद्भुतं किमपि राघवेन्द्रस्य यः-
शृणोति भवमङ्गलं रसविलासरासाभिधम् ।
स याति परमां मुदं जगति भक्तिमासाद्ये-
द्यथा रघुवरः स्वयं भजति वश्यतां तद्हृदि ॥ ८२२ ॥
त्रैलोक्यवरकन्यानां समुद्धारं महाद्भुतम् ।
सहजायाश्च प्राकाम्यं भक्तेषु करुणां तथा ॥ ८२३ ॥
लीलां श्रीरामचन्द्रस्य स्वप्रियायाश्च वश्यताम् ।
यो जानाति नरश्चित्तेसन मुह्येत् कदाचन ॥ ८२४ ॥
एकैव परमा लक्ष्मीः प्रमोदवनचन्द्रिका ।
सहजानन्दिनी साक्षाद्रमते रामसंगिनी ॥ ८२५ ॥
सैव श्रीजानकी सीता नित्यमद्भुतकेलिनी ।
[L15
- २६१ -
सप्तषष्टितमोऽध्यायः
श्रीशुक उवाच
इत्थं शिवस्य वचसा विज्ञाय परमार्थतः ।
स्वरूपं सहजेशान्या ननन्द खलु गोपिका ॥ १ ॥
सहजारामयोर्लीलां पश्यन्ती रसरञ्जिता ।
परमानन्दपाथोधिं विजगाह दिने दिने ॥ २ ॥
सौगन्धिकगिरौ रम्ये रत्नाद्रौ च मनोरमे ।
कन्दरासु च शृङ्गेषु दरीगह्वरवेश्मसु ॥ ३ ॥
कुञ्जेषु च निकुञ्जेषु सर्वर्तुसुखदायिषु ।
भूरुहेषु च वल्लीषु घनेषु विपिनेषु च ॥ ४ ॥
प्रासादशिखरेष्वेवं विमलादर्शवेश्मसु ।
आरामेषु मनोज्ञेषु चतुःशालविराजिषु ॥ ५ ॥
विप्रकृष्टेषु रम्येषु वनेषु विविधेषु च ।
लतापिहितवृक्षेषु गुल्मराजीघनाध्वसु ॥ ६ ॥
संनिकृष्टेषु का
- २६२ -
सेतुबन्धविधानेश्च सरसीजलमध्यतः ।
वापीहिन्दोलनैश्च व सरितां तरणैस्तथा ॥ १५ ॥
स्निग्धच्छायावस्थितिभिः कल्लोलानिलसेवनैः ।
चन्दनद्रवसंदोहस्निग्धकर्पूरसेवनैः ॥ १६ ॥
व्यजनानिलसंस्पर्शैर्जल यन्त्रनिषेवणैः ।
चन्द्रज्योत्स्नादर्शनैश्च सायं स्नाननिषेवणैः ॥ १७ ॥
वर्षासु नीपकुञ्जेषु सौरभानिलसेवनैः ।
घनाम्बुदघटारम्यबलाकातनिदर्शनैः ॥ १८ ॥
कृष्णाभिसारविधिभिस्तडिल्लेखाकुतूहलैः ।
इन्द्रचापचमत्कारवीक्षणैर्घनविन्दुभिः ॥ १९ ॥
रक्तवस्त्रभिरुचिभिः शाद्वलासनकौतुकैः ।
मयूरनादश्रवणैर्घनधारानिरीक्षणैः ॥ २० ॥
प्रासादशिखरारोहैश्चानकध्वनिशीलनैः ।
मल्हाररागबन्धैश्च सरिद्व
- २६३ -
तारकागणशोभाभिर्मुनिद्रुमसुकोरकैः ।
मल्लिकावलिकुसुमविकासोद्गारिसौरभैः ॥ ३० ॥
जलनैर्मल्यशोभाभिः सरित्पुलिनदर्शनैः ।
विकासिकासशोभाढ्यदिगनन्तपरिदर्शनैः ॥ ३१ ॥
तुषारकणसम्पातमौक्तिकक्षणदर्शनैः ।
नित्यभोजनसंतोषपितृब्राह्मणदर्शनैः ॥ ३२ ॥
नवदुर्गार्चनोत्साहैर्विजयादशम्युत्सवैः ।
कार्तिकस्नानमिलितनरनारीसुसङ्गमैः ॥ ३३ ॥
प्रत्यूषसमयोन्निद्रस्तनसंगतकाहलैः ।
प्रकाशदीपमालानां शोभादर्शनकौतुकैः ॥ ३४ ॥
सितमन्दिरशोभाभिर्दीपावलिमहोत्सवैः ।
द्यूतकेलिविनोदैश्च तुलसीवनपूजनैः ॥ ३५ ॥
अन्नकूतोत्सवसुखै रत्नाचलसमर्चनैः ।
सरयूसलिलस्नानसंगतापसरसां गणैः ॥ ३६ ॥
कुञ्जमन्दिरशोभाभिर्नृत्यगीतविनोदनैः ।
स्वयं रासविलासैश्च गानतालविधानकैः ॥ ३७ ॥
हरिप्रबोधकौतुकैः किन्नरीगणनर्तनैः ।
सर्वतोभद्रपद्मादिमहामण्डलमण्डनैः ॥ ३८ ॥
पञ्चभीष्मविधानोत्थनृत्यवाद्यादिदर्शनैः ।
दम्पतिव्रतपूजाभिः सुन्दरीगणदर्शनैः ॥ ३९ ॥
प्रातःस्नानसमायातस्निग्धगोपिनिभालनैः ।
अनेकमिश्रसम्प्राप्तपट्टाम्बरधराद्भुतैः ॥ ४० ॥
गोपीगणैः कृतानेकहावभावनिरीक्षणैः ।
- २६४ -
क्रीडन्तौ सहजारामौ जनयामासतुर्मुदम् ।
त्रैलोक्यमङ्गलभर सुख पुपुषतुश्च तौ ॥ ४५ ॥
श्यामां चैव तथा रामां समस्नेहेन मोदयन् ।
रामानुगत एवासौ ववृते केलिकोविदः ॥ ४६ ॥
मुक्ताहारधरः किरीटतटयोः प्रोद्बुद्धमुक्तासरः-
क्रीडानाट्यकरः कलापदुतरः कैशोरवेशोत्तरः ।
वद्धाधोनटकच्छसुन्दरवरः प्रोल्लासिपीताम्बरः-
श्रीरामः शुशुभेतरां त्रिजगतामेकानुकम्पाकरः ॥ ४७ ॥
प्रमोद्वनचन्द्रमाः सकलसतकलाभूषितः-
समस्तसुखितव्रजप्रवणगोपिकासौहृदः ।
अनेकपरिलालनप्रचयकारिमाङ्गल्यका निकेतन-
महामणिविजयते रघूणांपतिः ॥ ४८ ॥
शृङ्गारस्यैष सीमा परममधुरताधोरिणीनां धुरीणः-
श्रीमान् श्रीमत्प्रियायाः प्रणयरसधुनीस्रोतसिस्नानशीलः ।
पूर्णानन्दव्रजेन्दुस्त्रिजगति वितरन् भक्तिपीयूषपानं-
श्रीमन्माङ्गल्यका यास्त नय इतिमुदं राघवेन्द्रो विधत्ते ॥ ४९ ॥
इत्यहं राघवेन्द्रस्य रामस्य परमा
– २६५ –
अष्टषष्टितमोऽध्यायः
जनक उवाच
तव प्रसादान्मुनिवर्य तत्त्वं ज्ञातं मया सहजायाः परं यत् ।
इयं चिदानन्दघनासनातनी पूर्णा कला योगविदामगोचरा ॥ १ ॥
ब्रह्मतत्त्वं परं यत्तदक्षरं परमं पदम् ।
सर्ववेदान्तवाक्यानां स्थानमेकं निरूपितम् ॥ २ ॥
समासन्यासयोगेन शब्दब्रह्म प्रतिष्ठितम् ।
यत्र दिक्कालसम्बन्धरहिते परमात्मनि ॥ ३ ॥
तदेव सर्वभूतानामन्तर्यामितया स्थितम् ।
अवतारकलानां च स्रोतसामिव तत्सरः ॥ ४ ॥
अनवद्यं पदं पूर्णं मायासम्बन्धवर्जितम् ।
प्रकृतिं पुरुषं चापि यदतीत्य व्यवस्थितम् ॥ ५ ॥
पूर्णं चिदानन्दमयं नभश्च यद्योगीश्वराणां धिषणाभिरस्पृशम् ।
सर्वंकषं साम्येन युतं निरन्तरं क्षरातिगं च प्रतियोगिशून्यम् ॥ ६ ॥
ततः परं तत्पुरुषोत्तमाख्यं परं तत्त्वं सहजारामशब्दितम् ।
अर्वाग् यतो ब्रह्म यदक्षरं तद्दीपस्य यद्वच्च विभा प्रसृत्वरी ॥ ७ ॥
इति त्वदाख्यातगिरां मुनीन्द्र सर्वस्वमेतन्मयका न्यबोधि ।
अतोऽहमग्रेतनयोगसंविदां परिशीलनादस्मि सुमन्थरादरः ॥ ८ ॥
विहाय कर्माणि च तत्त्वसंविदां परिश्रमोत्काश्च हिता उपासाः ।
श्री श्रितोऽस्मि सर्वस्य फलं स्वरूपतः प्रमाणमेकं सहजारामसंस्थम् ॥ ९ ॥
धन्यास्ते भक्तिभावैर्निजहृदि सहसा रामलीलानुभावे
हृष्यन्तो मुक्त्यतीते पथि परमतमानन्दपूर्णे प्रतिष्ठाः ।
रोमाञ्चस्वेदसंस्तम्भननयनजलोद्भावकम्पादियुक्ता
मुक्ताः संसारदुःखैरहमिह सततं दासदासोऽस्मि तेषाम् ॥ १० ॥
येषां रामे सहजासंगयुक्ते श्रीमत्प्रमोदाटविवासहृष्टे ।
नित्यं मनः प्रेमसमाधिमग्नं तेऽसि धन्या यूयमेते मुनीन्द्राः ॥ ११ ॥
इमां चिदानन्दकलां स्वयंभुवं स्वरूपतः श्रीसहजात्मिकामहम् ।
विज्ञाय पूर्णेश्वरतागुणाक्तां धियं किमु स्नेहपथे निवेशये ॥ १२ ॥
ऐश्वर्यमस्याः स्मरतः प्रतिक्षणं कथं नु वात्सल्यरसो भविष्यति ।
इत्यस्मि चिन्ताकुलितोऽधुना मुने त्वयोपदिष्टे निभृते प्रेममार्गे ॥ १३ ॥
३४