सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 268, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 268
  • २५४ -
    सद्यः सम्भ्रान्तचित्ताभून्मूर्च्छिता निपपात च।
    अथो कथं कथमपि तां परिप्राप्तचेतनाम् ॥ ७३० ॥
    देवी श्रीसहजोवाच लीलाकौतुककारिणी ।
    कस्य गोपस्यकन्येयं कि नामेति तु पृच्छ्यताम् ॥ ७३१ ॥
    सत्यं वदतु सा चैषा नैवानृतमिह स्थितम् ।
    नो चेत् कालान्तरेऽप्यस्या नागमोऽत्र भविष्यति ॥ ७३२ ॥
    ततश्च कम्पमानेव प्रोवाच वचनं सती ।
    शिवोऽस्म्यहमिह प्राप्तो लीलादर्शनलालसः ॥ ७३३ ॥
    इति तस्या वचः श्रुत्वा सहजा स्वयमब्रवीत् ।
    एतत्प्रमोदविपिनं मम लीलानिकेतनम् ॥ ७३४ ॥
    पुरुषाभमतिर्भूत्वा कथमत्र समागतः ।
    लोकेऽन्यस्यापि वै राज्ञो याति नान्तःपुरं पुमान् ॥ ७३५ ॥
    किमुताखिललोकेशमहाराजस्य मत्प्रभोः ।
    इहैक एव पुरुषः सर्वास्तस्य च योषितः ॥ ७३६ ॥
    इति विज्ञाप्य सख्योऽसौ दूरे सम्यग्विधीयताम् ।
    नास्मै क्रोधं करोम्यद्धा मत्स्वाम्यङ्घ्रिरजोजुषे ॥ ७३७ ॥
    पुरुषाभिमतिश्चास्य नाधुनापि निवर्त्तते ।
    शिवा नाम सखी भूत्वा पातुकालान्तरे त्विह ॥ ७३८ ॥
    ततः प्रणम्य सहजानन्दिनीं मां च शङ्करः ।
    भूयो वलक्षवदनस्तस्मात्स्थानाद्विनिर्गतः ॥ ७३९ ॥
    प्रमोदविपिनस्यैकदेशेऽद्यापि तपस्यति ।
    व्रजभक्तपदाम्भोजरजोधूसरविग्रहः ॥ ७४० ॥
    सहजानन्दिनीलीलागुणगानपरायणः ।
    प्रेमानन्दसमुद्भूतवाष्पसिक्तकलेवरः ॥ ७४१ ॥
    रोमाञ्चितवपुः स्तब्धः सरयूपुलिनाङ्कणे ।
    यो मञ्जुवट इत्युक्तो जटासंकुलविग्रहः ॥ ७४२ ॥
    आगामिद्विपराद्धान्ते मम लीलां प्रवेक्ष्यति ।
    इत्युक्तोऽस्याः प्रभावोऽयं सख्यः सम्यग् विचिन्त्यताम् ॥ ७४३ ॥
    तस्माद्भवत्यः सततं सहजायाः कृपावशात् ।
    लब्ध्वा पदमिमं रामाः कृतार्था नात्र संशयः ॥ ७४४ ॥
    इत्युक्त्वा भगवान् रामः कोटिकन्दर्पमोहनः ।
    दिव्ये लङ्गावने तत्र रासमारब्धवान् मुदा ॥ ७४५ ॥