सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 260, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 260
  • २४६ -
    श्रीसीतोवाच
    दैवं नामामहेवास्मि कालश्चाहं दुरत्ययः।
    लीला चाहं भक्तगेया तत्साधनमहं पुनः ॥ ६१८ ॥
    भूत्वोभयस्वरूपाऽहं रमामि भवता सह।
    रक्षश्चातिबलं तद्वै न हन्तुं शक्यमन्यथा ॥ ६१९ ॥
    यस्य श्रौतं बलं दिव्यं तथा कर्मबलं बहु।
    शिवस्योपासको वीरस्त्रैलोक्यविजयी बलात् ॥ ६२० ॥
    यस्य बाहुबलं भूयो भवतः पार्षदो वरः।
    लीलावेशस्तथैवायं किं न स्मरसि वल्लभ ॥ ६२१ ॥
    पौलस्त्यतनयो विप्रो ब्रह्मण्यस्यतवावधः।
    गृहे गृहेऽग्निहोत्राणि शिवपूजा गृहे गृहे ॥ ६२२ ॥
    प्रतापितं जगद्येन तपोवीर्येण भूयसा।
    मायायां मथुरायां च काश्यां चोज्जयिनीपुरे ॥ ६२३ ॥
    अस्थिचर्मावशिष्टोऽसौ चकार विपुलं तपः।
    अगस्त्योऽस्य विदां वर्यो मुनिरस्ति गृहोपरि ॥ ६२४ ॥
    दक्षिणे ध्रुव इत्युक्तो ज्योतिर्विद्भिः पुरातनैः।
    स कथं शक्यते हन्तुं विनेदृशमति क्रमम् ॥ ६२५ ॥
    कथं पुनरिमाः कन्यास्त्वदेकहृदयाः स्त्रियः।
    उद्धृताः स्युश्च धर्मज्ञ दुस्तराद्भवसागरात् ॥ ६२६ ॥
    इति विज्ञाय वीरेन्द्र न विकल्पितुमर्हसि।
    रमस्व रसयुक्ताभिः कन्याभिरिह कामिवत् ॥ ६२७ ॥
    ईदृशीं सम्पदं कान्त सफलीकर्तुमर्हसि।
    एकत्रैव जगल्लक्ष्मीर्दृश्यतामिह वल्लभ ॥ ६२८ ॥
    इदं विपिनमालूनं कपीन्द्रेण महौजसा।
    पुनः पल्लवितं पश्य वसन्तसमयश्रिया ॥ ६२९ ॥
    भवित्री राजधानीयं विभीषणमहामतेः।
    वैष्णवप्रवरस्यास्य सततं हितवर्तिनः ॥ ६३० ॥
    सुवेलाद्रिगुहा रम्या निकुञ्जवरशोभिता।
    इमाश्च किंकरीस्तत्र नित्यं रमय सुव्रत ॥ ६३१ ॥
    यथा भवांश्च रत्नाद्रौ प्रमोदविपिनेऽन्तरा।
    तथेह रन्तुमर्होऽसि लीलानटवरः प्रभो ॥ ६३२ ॥
    इत्युक्तः प्रियया रामो प्रोवाच विशदस्मितः ॥ ६३३ ॥