सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 266, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 266
  • २५२ -
    आचम्य च पयस्तस्य सरसः स्वादुशीतलम् ।
    शिवोऽहं प्रमदाभूत इति चैतन्यमाप सः ॥ ७०२ ॥
    निरीक्ष्य स्वस्य सौन्दर्यविशेषं गर्विता च सा ।
    अहो न मत्समा काचिद्व्रजेऽप्यस्ति वराङ्गना ॥
    श्रीरामं वशयिष्यामि तत्क्षणादेव दर्शनात् ॥ ७०३ ॥
    मद्रूपलावण्यमुदीक्ष्य रामो ममैव वश्यो भविताैष सद्यः ।
    श्रीनन्दनस्यात्मजयाप्यलभ्यं सौभाग्यमेश्यामि कथं न साहम् ॥ ७०४ ॥
    इत्थं मनोरज्यमियं कुर्वती प्रमदा नवा ।
    व्यचष्ट मालतीकुञ्जान्माधुरीकुञ्जमेष्यतीम् ॥ ७०५ ॥
    कांचिद् सखी चम्पकाङ्गीं सहजामान्यहारिणीम् ।
    तस्या रूपं विलोक्यैषा भग्नमाना बभूव च ॥ ७०६ ॥
    अथ तां वक्तुमारेभे कासि त्वं कुत्र यास्यसि ।
    धन्यासि रूपसारेण केवलेन विनिर्मिता ॥ ७०७ ॥
    त्रैलोक्यललनारत्नमोहनं रूपमीदृशम् ।
    सातिधन्यतमाकान्ता यस्यास्त्वं माल्यहारिणी ।
    एतत्तवाद्भुतं रूपं मदं हरति योषिताम् ॥ ७०८ ॥
    इति तस्य वचः श्रुत्वा नोत्तरं दत्तवत्यसौ ।
    जगाम तूष्णी च ततः स्वामिनीसेवनोत्सुका ॥ ७०९ ॥
    इति तदीरितमश्रुतकेन सा प्रणिविधूय ततो विचचाल ह ।
    निधुवनान्तविमाल्यनिजेश्वरी ननु तुतोषयिषुर्वरिवस्यया ॥ ७१० ॥
    ततः सा भग्नहृदया तत्पृष्ठमनुयायिनी ।
    जगाम माधुरोकुञ्जसप्तमद्वारकक्षिकाम् ॥ ७११ ॥
    कलावती तु तत्रागाद् यथा कार्यं ममेशितुः ।
    तत्र वेत्रच्छटाहस्तप्रतोहारीनिवारिता ॥ ७१२ ॥
    पप्रच्छ तां करुणया परिपूर्णा कलावती ।
    कासि त्वमिह रम्भोरु किमर्थं चेह संगता ।
    अविज्ञाप्य प्रभुं नेह प्रवेशं लप्स्यसे ध्रुवम् ॥ ७१३ ॥
    नवप्रमदोवाच
    प्रमदाहं भग्नदर्पा भवतीनां तनुत्विषा ।
    प्राप्तास्मि सहजारामलीलालालित्यदृष्टये ॥ ७१४ ॥
    ततः कलावती गत्वा स्वामिनोश्चरणान्तिकम् ।
    उवाच सदयं स्निग्धं यथावृत्तं नवस्त्रियः ॥ ७१५ ॥